________________
१८८
सूत्रकृताङ्ग सूत्रम् १/८/-/४३३
मनुष्ठानं भवति, संयमस्य चानाश्रवरूपत्वात् तपसश्च निर्जराफलत्वादिति, तथा च पठ्यते“संयमे अणण्हयफले तवे वोदाणफले" इति । मू. (४३४) तेसिपि तवो न सुद्धो, निक्खंता जे महाकुला ।
जन्ने वन्ने वियाणंति, न सिलोगं पवेजए। वृ.किञ्चान्यत्-महत्कुलम्-इक्ष्वाकादिकंयेषांतेमहाकुला लोकविश्रुताःशौर्यादिभिर्गुणैर्विस्ती र्णय शापि पूजासत्काराद्यर्थमुत्कीर्तनेन वा यत्तपस्तदशुद्धं भवति।
यञ्च क्रियमाणमपितपोनैवान्ये दानश्राद्धादयोजानन्तितत्तथाभूतमात्मार्थिना विधेयम्, अतोनैवात्मश्लाघां प्रवेदयेत्' प्रकाशयेत्, तद्यथा-अहमुत्तमकुलीन इभ्यो वाऽऽसंसाम्प्रतंपुनस्तपोनिष्टप्तदेह इति, एवं स्वयमाविष्करणेन न स्वकीयमनुष्ठानं फल्गुतामापादयेदिति॥ मू. (४३५) अप्पपिंडासि पाणासि, अप्पं भासेज सुव्वए।
खंतेऽभिनिव्वुडे दंते, वीतगिद्धी सदा जए। वृ.अपिच-अल्पं-स्तोकं पिण्डमशितुंशीलमस्यासावल्पपिण्डाशी यत्किञ्चनाशीतिभावः, एवं पानेऽप्यायोज्यं, तथा चागमः - ॥१॥ “हे जंवतं व आसीय जत्थ व तत्थ व सुहोवगयनिहो ।
जेण व तेण संतुट्ठ वीर! मुणिओऽसि ते अप्पा॥ “अट्टकुक्कुडिअंडगमेत्तप्पमाणे कवले आहारेमाणेअप्पाहारे दुवालसकवलेहिं अवड्ढोमोयरिया सोलसहिंदुभागे पत्ते चउवीसंओमोदरियातीसंपमाणपत्तेबत्तीसंकवला संपुण्णाहारे" इति, अत एकैककवलहान्यादिनोनोदरता विधेया, एवंपाने उपकरणेचोनोदरतां विदध्यादिति, तथा चोक्तम् - ॥१॥ “थोवाहारो थोवभणिओ अजो होइ थोवनिद्दो अ।
थोवोवहिउवकरणो तस्स हुदेवावि पणमंति।। तथा 'सुव्रतः' साधुः ‘अल्पं' परिमितं हितंच भाषेत, सर्वदा विकथारहितो भवेदित्यर्थः, भावावमौदर्यमधिकृत्याह-भावतः क्रोधाद्युपशमात् 'क्षान्तः शान्तिप्रधानः तथा 'अभिनिवृतो' लोभादिजयान्निरातुरः, तथा इन्द्रियनोइन्द्रियदमनात् 'दान्तो' जितेन्द्रियः, तथा चोक्तम् - ॥१॥ “कषाया यस्य नोच्छिन्ना, यस्य नात्मवशं मनः।
इन्द्रियाणि न गुप्तानि, प्रव्रज्या तस्य जीवनम् ॥ एवं विगता गृद्धिर्विषयेषु यस्य स विगतगृद्धि-आशंसादोषरहितः ‘सदा' सर्वकालं संयमानुष्ठाने 'यतेत' यत्नं कुर्यादिति ।। मू. (४३६) झाणजोगं समाहटु, कार्य विउसेज सव्वसो।
तितिक्खं परमं नञ्चा, आमोक्खाए परिव्वएजासि-त्तिबेमि॥ वृ. अपिच-'झाणजोगम्' इत्यादि, ध्यान-चित्तनिरोधलक्षणं धर्मध्यानादिकं तत्र योगो विशिष्टमनोवाक्कायव्यापारस्तं ध्यानयोगं समाहृत्य' सम्यगुपादाय 'कार्य' देहमकुशलयोगप्रवृत्तं 'व्युत्सृजेत् परित्यजेत् सर्वतः' सर्वेणापि प्रकारेण, हस्तपादादिकमपिपरपीडाकारिन व्यापारयेत् तथा तितिक्षां' क्षान्तिपरीषहोपसर्गसहनरूपां ‘परमां' प्रधानां ज्ञात्वा ‘आमोक्षाय' अशेषकर्मक्षयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org