________________
श्रुतस्कन्धः-१, अध्ययनं-८,
१८७
गृह्णीयादित्यर्थः । किञ्चान्यत्मू. (४३१) कडंच कज्जमाणं च, आगमिस्संच पावगं।
सव्वं तं नानुजाणंति, आयगुत्ता जिइंदिया। वृ.साधूद्देशेन यदपरैरनार्यकल्पैः कृतमनुष्ठितंपापकं कर्म तथा वर्तमानेच काले क्रियमाणं तथाऽऽगामिनि च काले यत्करिष्यते तत्सर्वं मनोवाक्कायकर्मभिः 'नानुजानन्ति' नानुमोदन्ते, तदुपभोगपरिहारेणेति भावः, यदप्यात्मार्थं पापकं कर्म परैः कृतं क्रियते करिष्यते वा।
तद्यथा-शत्रोः शिरश्छिन्नं छिद्यते छेत्स्यते वातथाचौरोहतो हन्यते हनिष्यते वा इत्यादिकं परानुष्ठानं 'नानुजानन्ति' नचबहुमन्यन्ते, तथा यदि परः कश्चिदशुद्धेनाहारेणोपनिमन्त्रयेत्तमपि नानुमन्यन्त इति, क एवम्भूता भवन्तीति दर्शयति-आत्माऽकुशलमनोवाक्कायनिरोधेन गुप्तो येषां तेतथा, जितानि-वशीकृतानि इन्द्रियाणि-श्रोत्रादीनि यैस्तेतथा, एवम्भूताः पापकर्मनानुजानन्तीति स्थितम् ॥ मू. (४३२) जे याबुद्धा महाभागा, वीरा असमत्तदंसिणो ।
असुद्धं तेसि परक्तं, सफलं होइ सव्वसो॥ वृ.अन्यच्च-येकेचन अबुद्धा' धर्मंप्रत्यविज्ञातपरमार्था व्याकरणशुष्कतर्कादिपरिज्ञानेन जातावलेपाः पण्डितमानिनोऽपि परमार्थवस्तुतत्त्वानवबोधादबुद्धा इत्युक्तं, नचव्याकरणपरिज्ञानमात्रेण सम्यक्त्वव्यतिरेकेण तत्त्वावबोधो भवतीति, तथा चोक्तम् - ॥१॥"शास्त्रावगाहपरिघट्टनतत्परोऽपि, नैवाबुधः समभिगच्छति वस्तुतत्त्वम्
नानाप्रकाररसभागवताऽपि दर्वी, स्वादं रसस्य सुचिरादपि नैव वेत्ति ।।
यदिवाऽबुद्धा इव बालवीर्यवन्तः, तथा महान्तश्च ते भागाश्च महाभागाः, भागशब्दः पूजावचनः, ततश्च महापूज्या इत्यर्थः, लोकविश्रुता इति, तथा वीराः' परानीकभेदिनः सुभटा इति, इदमुक्तं भवति-पण्डिताअपि त्यागादिभिर्गुणैर्लोकपूज्याअपितथा सुभटवादं वहन्तोऽपि सम्यकतत्त्वपरिज्ञानविकलाः केचन भवन्तीति दर्शयति ।
नसम्यगसम्यक् तद्भावोऽसम्यकत्वंतद्रष्टं शीलं येषां ते तथा, मिथ्याद्दष्टय इत्यर्थः, तेषां चबालानांयत्किमपि तपोदानाध्ययनयमनियमादिषुपराक्रान्तमुद्यमकृतंतदशुद्धं अविशुद्धिकारि प्रत्युत कर्मबन्धाय, भावोपहतत्वात् सनिदानत्वाद्वेति कुवैद्यचिकित्सावद्विपरीतानुबन्धीति, तच्च तेषां पराक्रान्तं सह फलेन-कर्मबन्धेन वर्तत इति सफलं 'सर्वश' इति सर्वाऽपि तक्रिया तपोऽनुष्ठानादिका कर्मबन्धौयेवति । साम्प्रतं पण्डितवीर्यणोऽधिकृत्याह-(गाथा चतुष्क) मू. (४३३) जेय बुद्धा महाभागा, वीरा सम्मत्तदंसिणो ।
सुद्धं तेसिं परक्कंतं, अफलं होइ सव्वसो ॥ वृ.ये केचन स्वयम्बुद्धास्तीर्थकराद्यास्तच्छिष्यावा बुद्धबोधिता गणधरादयो ‘महाभागा' महापूजाभाजो 'वीराः' कर्मविदारणसहिष्णवो ज्ञानादिभिर्वा गुणैर्विराजन्त इति वीराः, तथा 'सम्यक्त्वदर्शिनः' परमार्थतत्ववेदिनस्तेषां भगवतां यत्पराक्रान्तंतपोऽध्ययनयमनियमदावनुष्ठितं तच्छुद्धम् । अवदातं निरुपरोधं सातगौरवशल्यकषायादिदोषाकलङ्कितं कर्मबन्धं प्रति अफलं भवति-तन्निरनुबन्धनिर्जरार्थमेव भवतीत्यर्थः। तथाहि-सम्यगदृष्टीनांसर्वमपि संयमतपःप्रधान
Jain Education International
For Private & Personal Use Only
E
www.jainelibrary.org