________________
१८२
सूत्रकृताङ्ग सूत्रम् १/८/-/४१४
इत्यादि अधुना 'सत्थ' मित्येतत्सूत्रपदं सूत्रस्पर्शिकया नियुक्तिकारः स्पष्टयितुमाहनि. [९८] सत्थं असिमादीं विज्जामंते य देवकम्मकयं । पत्थिववारुणअग्गेय वाऊ तह मीसगं चेव ॥
वृ.
. शस्त्रं-प्रहरणं तच्च असि खङ्गस्तदादिकं, तथा विद्याधिष्ठितं, मन्त्राधिष्ठितं देवकर्मकृतंदिव्यक्रियानिष्पादितं तच्च पञ्चविधं तद्यथा- पार्थिवं वारुणमाग्नेयं वायव्यं तथैव द्वयादिमिश्र चेति । किञ्चान्यत्मू. (४१५)
माइणो कट्टु माया य, कामभोगे समारभे । हंता छेत्ता पगब्भित्ता, आयसायाणुगामिणो ॥
वृ. 'माया' परवञ्चनादिका बुद्धि सा विद्यते येषां ते मायाविनस्त एवम्भूता मायाः परवञ्चनानि कृत्वा एकग्रहणे तज्जातीयग्रहणादेव क्रोधिनो मानिनो लोभिनः सन्तः 'कामान्' इच्छारूपान् तथा भोगांश्च शब्दादिविषयरूपान् 'समारभन्ते' सेवन्ते पाठान्तरं वा 'आरंभाय तिवट्टइ' त्रिभिः मनोवाक्कायैरारम्भार्थं वर्त्तते, बहून् जीवान् व्यापादयन् बन्धन् अपध्वंसयन् आज्ञापयन् भोगार्थी वित्तोपार्जनार्थं प्रवर्त्तत इत्यर्थः ।
तदेवम् 'आत्मसातानुगामिनः' स्वसुखलिप्सवो दुःखद्विषो विषयेषु गृद्धाः कषायकलुषितान्तरात्मानः सन्त एवम्भूता भवन्ति, तद्यथा- 'हन्तारः' प्राणिव्यापादयितारस्तथा छेत्तारः कर्णनासिकादेस्तथा प्रकर्तयितारः पृष्ठोदरादेरिति ।
पू. (४१६)
मणसा वयसा चेव, कायसा चेव अंतसो ।
आरओ परओ वावि, दुहावि य असंजया ॥
वृ. तदेतत्कथमित्याह-तदेतत्प्राण्युपमर्दनं मनसा वाचा कायेन कृतकारितानुमतिमिश्च 'अन्तशः ' कायेनाशक्तोऽपि तन्दुलमत्स्यवन्मनसैव पापानुष्ठानानुमत्या कर्म बध्नातीति ।
तथा आरतः परतश्चेति लौकिकी वाचोयुक्तिरित्येवं पर्यालोच्यमाना ऐहिकामुष्मिकयो 'द्विघापि' स्वयंकरणेन परकरणेन चासंयता- जीवोपघातकारिणइत्यर्थः साम्प्रतं जीवोपघातविपाकदर्शनार्थमाह
मू. (४१७)
वेराइं कुव्वई वेरी, तओ वेरेहिं रज्जती । पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥
वृ. वैरमस्यास्तीति वैरी, सजीवोपमर्द्दकारी जन्मशतानुबन्धीनि वैराणि करोति, ततोऽपि च वैरादपरैर्वैररैनुरज्यते-संबध्यते, वैरपरम्परानुषङ्गी भवतीत्यर्थः किमिति ?, यतः पापं उपसामीप्येन गच्छन्तीति पापोपगाः, क एते ? - 'आरम्भाः' सावद्यानुष्ठानरूपाः 'अन्तशो' विपाककाले दुःखं स्पृशन्तीति दुःखस्पर्शा-असातोदयविपाकिनो भवन्तीति ।
मू. (४१८)
संपरायं नियच्छंति, अत्तदुक्कडकारिणो । रागदोसस्सिया बाला, पावं कुव्वंति ते बहुं ॥
वृ. किञ्चान्यत् 'सम्परायं नियच्छंती' त्यादि, द्विविधं कर्म-ईर्यापथं साम्परायिकं च, तत्र सम्पराया-बादरकषायास्तेभ्य आगतं साम्परायिकं तत् जीवोपमर्द्दकत्वेन वैरानुषङ्गितया ‘आत्मदुष्कृतकारिणः’स्वपापविधायिनः सन्तो 'नियच्छन्ति' बन्धन्ति, तानेव विशिनष्टि 'रागद्वेषा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org