SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं.८, १८३ श्रिताः' कषायकलुषितान्तरात्मानः सदसद्विवेकविकलत्वात् बाला इव बालाः, ते चैवम्भूताः 'पापम्' असद्वेद्यं 'बहु' अनन्तं 'कुर्वन्ति विदधति ।। एवं बालवीर्यं प्रदर्योपसंजिघृक्षुराहमू. (१९) एयं सकम्मवीरियं, बालाणंतु पवेदितं। इत्तो अकम्मविरियं, पंडियाणं सुणेह मे ॥ वृ. “एतत्' यत्प्राक्प्रदर्शितं, तद्यथा-प्राणिनामतिपातार्थं शस्त्रंशास्त्रं वा केचन शिक्षन्ते तथा परे विद्यामन्त्रान् प्राणिबाधकानधीयन्ते तथाऽन्ये मायाविनो नानाप्रकारां मायां कृत्वा कामभोगार्थमारम्भान् कुर्वते केचन पुनरपरे वैरिणस्तत्कुर्वन्ति येन वैरैरनुबध्यन्ते तथाहि । जमदग्निना स्वभार्याऽकार्यव्यतिकरे कृतवीर्यो विनाशितः, तत्पुत्रेण तु कार्तवीर्येण पुनर्जमदग्नि, जमदग्निसुतेन परशुरामेण सप्त वारान् निःक्षत्रापृथिवी कृता, पुनः कार्तवीर्यसुतेन तु सुभूमेन त्रिसप्तकृत्वो ब्राह्मणा व्यापादिताः, तथा चोक्तम् - ॥१॥ “अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरु वै रियातनां द्विषतां जातमशेषमुद्धरेत् ॥ तदेवं कषायवशगाः प्राणिनस्तत्कुर्वन्ति येन पुत्रपौत्रादिष्वपि वैरानुबन्धो भवति, तदेतत्सकर्मणांबालानांवीर्यं तुशब्दाप्रमादवतांचप्रकर्षेण वेदितंप्रवेदितंप्रतिपादितमितियावत्, अत ऊर्ध्वमकर्मणां-पण्डितानां यद्वीर्यं तन्मे-मम कथयतः शृणुत यूयमिति। मू. (४२०) दविए बंधणुम्मुक्के, सव्वओ छिन्नबंधणे। पणोल्ल पावकं कम्म, सलं कंतति अंतसो । वृ. यथाप्रतिज्ञातमेवाह-'द्रव्यो' भव्यो मुक्तिगमनयोग्यः 'द्रव्यं च भव्य' इति वचनात् रागद्वेषविरहाद्वा द्रव्यभूतोऽकषायीत्यर्थः, यदिवा वीतराग इव वीतरागोऽल्पकषाय इत्यथः, तथा चोक्तम् - ॥१॥ “किं सक्का वोत्तुंजे सरागधर्ममि कोइ अकसायी। संतेवि जो कसाए निगिण्हइ सोऽवि तत्तुल्लो । सच किम्भूतो भवतीति दर्शयति-बन्धनात्-कषायात्मकान्मुक्तो बन्धनोन्मुक्तः, बन्धनत्वं तु कषायाणां कर्मस्थितिहेतुत्वात्, तथा चोक्तम् - ___ “बंधट्टिई कसायवसा" कषायवशात् इति, यदिवा-बन्धनोन्मुक्त इव बन्धनोन्मुक्तः, तथाऽपरः “सर्वतः' सर्वप्रकारेण सूक्ष्मबादररूपं छिन्नम्' अपनीतं 'बन्धन' कषायात्मकं येन स छिन्नबन्धनः, तथा 'प्रणुध' प्रेर्य पापं' कर्म कारणभूतान्वाऽऽश्रवानपनीयशल्यवच्छल्यं-शेषकं कर्म तत् कुन्तति-अपनयति। अन्तशो-निरवशेषतो विघटयि, पाठान्तरंवा 'सलंकंतइ अप्पणो'त्ति शल्यभूतंयदष्टप्रकारं कर्मतदात्मनः सम्बन्धि कृन्तति-छिनत्तीत्यर्थः । यदुपादाय शल्यमपनयति तद्दर्शयितुमाहमू. (४२१) नेयाउयं सुयक्खायं, उवादाय समीहए। भुजो भुजो दुहावासं, असुहत्तंतहा तहा॥ वृ. नयनशीलो नेता, नयतेस्ताच्छीलिकस्तृन्, स चात्र सम्यगदर्शनज्ञानचारित्रात्मको मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मो मोक्षनयनशीलत्वात् गृह्यते, तं मागं धर्मंवा मोक्ष प्रति नेतारं सुष्ठु तीर्थकरादिभिराख्यातं स्वाख्यातं तम् ‘उपादाय' गृहीत्वा ‘सम्यक्' मोक्षाय ईहते-चेष्टते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy