SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययन-८, १८१ वा, तथाहि-नानाविधासु क्रियासु प्रवर्तमानमुत्साहबलसंपन्नं मर्त्य दृष्ट्वा वीर्यवानयं मर्त्य इत्येवमपदिश्यते, तथा तदावारककर्मणः क्षयादनन्तबलयुक्तोऽयं मर्त्य इत्येवमपदिश्यते दृश्यते चेति । इह बालवीर्यं कारणे कार्योपचारात्कर्मैव वीर्यत्वेनाभिहितं, ___ साम्प्रतं कारणे कार्योपचारादेव प्रमादं कर्मत्वेनापदिशन्नाहमू. (४१३) पमायं कम्ममाहंसु, अप्पमायं तहाऽवरं । तब्भावादेसओ वावि, बालं पंडियमेव वा॥ वृ.प्रमाद्यन्ति-सदनुष्ठानरहिता भवन्ति प्राणिनो येन स प्रमादो-मद्यादि, तथा चोक्तम्॥१॥ “मजं विसयकसाया निद्दा विगहा य पंचमी भणिया। एसपमायपमाओ निद्दिट्ठो वीयरागेहिं॥ तमेवम्भूतं प्रमादं कर्मोपादानभूतं कर्म 'आहुः उक्तवन्तस्तीर्थकरादयः, अप्रमादं च तथाऽपरमकर्मकमाहुरिति, एतदुक्तंभवति-प्रमादोपहतस्य कर्मबध्यते, सकर्मणश्चयक्रियानुष्ठानं तद्बालवीर्य, तथाऽप्रमत्तस्य कर्माभावो भवति, एवंविधस्य च पण्डितवीर्यं भवति । एतच्च बालवीर्यं पण्डितवीर्यमिति वा प्रमादवतः सकर्मणो बालवीर्यमप्रमत्तस्याकर्मणः पण्डितवीर्यमित्येवमायोज्यं, 'तब्मावादेसओवावी तितस्य-बालवीर्यस्यकर्मणश्च पण्डितवीर्यस्य वाभावः-सत्तासतद्भावस्तेनाऽऽदेशो-व्यपदेशः ततः, तद्यथा-बालवीर्यमभव्यानामनादिअपर्यवसितं भव्यानामनादिसपर्यवसितं वा सादिसपर्यवसितं वेति, पण्डितवीर्यं तु सादिसपर्यवसितमेवेति ।। मू. (४१४) सत्थमेगे तु सिक्खंता, अतिवायाय पाणिणं । एगे मंते अहिजंति, पाणभूयविहेडिणो॥ वृ. तत्र प्रमादोपहतस्य सकर्मणो यद्वालवीर्यं तद्दर्शयितुमाह-शस्त्रं-खङ्गादिप्रहरणं शास्त्रं वा धनुर्वेदायुर्वेदादिकं प्राण्युपमर्द्दकारितत् सुष्ठु सातगौरवगृद्धा ‘एके केचन 'शिक्षन्ते' उद्यमेन गृहन्ति, तच्च शिक्षितं सत् 'प्राणिनां' जन्तूनांविनाशाय भवति, तथाहि-तत्रोपदिश्यते एवंविधमालीढप्रत्यालीढादिभिर्जीवे व्यापादयितव्ये स्थान विधेयं, तदुक्तम् - ॥१॥ “मुष्टिनाऽऽच्छादयेल्लक्ष्यं, मुष्टौ दृष्टि विनेशयेत्। हतं लक्ष्यं विजानीयाद्यदि मूर्धा न कम्पते ।। तथा एवं लावकरसः क्षयिणे देयोऽभयारिष्टाख्यो मद्यविशेषश्चेति, तथा एवं चौरादेः शूलारोपणादिको दण्डो विधेयः तथा चाणक्याभिप्रायेण परो वञ्चयितव्योऽर्थोपादानार्थं तथा कामशास्त्रादिकंचोद्यमेनाशुभाध्यवसायिनोऽधीयते, तदेवं शस्य धनुर्वेदादेः शास्य वा यदभ्यसनं तत्सर्वं बालवीर्य, किञ्च एके केन पापोदयात् मन्त्रानभिचारकाना(ते)थर्वणानश्वमेघपुरुषमेघसर्वमेघादियागार्थमधीयन्ते, किम्भूतानिति दर्शयति ___ 'प्राणा' द्वीन्द्रियादयः ‘भूतानि' पृथिव्यादीनि तेषां 'विविधम्' अनेकप्रकारं 'हेठकान्' बाधकान् ऋक्संस्थानीयान् मन्त्रान् पठन्तीति, तथा चोक्तम् - ॥१॥ “षट्शतानिनियुज्यन्ते, पशूना मध्यमेऽहनि । अश्वमेघस्य वचनान्यूनानि पशुभिस्त्रिभिः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy