________________
श्रुतस्कन्धः - १, अध्ययनं - ८,
छत्रकवद्धर्त्तुमयनेनैव च मन्दरमिति ।
तथा सम्याव्यते अयं दारकः परिवर्धमानः शिलामेनामुद्धर्तुं हस्तिनं दमयितुमश्वं वाहयितुमित्यादि, इन्द्रियबलमपि श्रोत्रेन्द्रियादि स्वविषयग्रहण समर्थं पञ्चधा एकैकं द्विविधंसम्भवे सम्भाव्ये च, सम्भवे यथा श्रोत्रस्य द्वादश योजनानि विषयः, एवं शेषाणामपि यो यस्य विषय इति, सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्य पिपासितस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रियं सद्यथोक्तदोषोपशमे तु सति सम्भाव्यते विषयग्रहणायेति । साम्प्रतमाध्यात्मिकं वीर्य दर्शयितुमाह
नि. [१६]
उज्जमधितिधीरत्तं सोंडीरत्तं खमा य गंभीरं । उवओगजोगतवसंजमादियं होइ अज्झप्पो ।।
वृ. आत्मन्यदीत्यध्यात्मं तत्र भवमाध्यात्मिकम् - आन्तरशक्तिजनितं सात्त्विकमित्यर्थः, तच्चानेकधा-तत्रोद्यमो ज्ञानतपोऽनुष्ठानादिषूत्साहः, एतदपि यथायोगं सम्भवे सम्भाव्ये च योजनीयमिति, धृति संयमे स्थैर्यं चित्तसमाधानमिति (यावत्), धीरत्वं परीषहोपसर्गाक्षोभ्यता, शौण्डीर्यं त्यागसम्पन्नता, षट्खण्डमपि भरतं त्यजतश्चक्रवर्तिनो न मनः कम्पते, यदिवाऽऽपद्यविषण्णता, यदिवाविषमेऽपि कर्तव्ये समुपस्थिते पराभियोगमकुर्वन् मयैवैतत्कर्तव्यमित्येवं हर्षायमाणोऽविषण्णो विधत्त इति, क्षमावीर्यं तु परैराक्रुश्यमानोऽपि मनागपि मनसा न क्षोभभुपयाति, भावयति तञ्चेदम् –
119 11
१७९
"आक्रुष्टेन मतिमता तत्त्वार्थगवेषणे मति कार्या । यदि सत्यं कः कोपः ? स्यादनृतं किं नु कोपेन ? ॥ “अक्कोसहणणमारणधम्मंब्भंसाण बालसुलभाणं । लाभं मन्नइ धीरो जहुत्तराणं अभावं मि ॥
गाम्भीर्यवीर्यं नाम परीषहोपसर्गैरधृष्यत्वं, यदिवा यत् मनश्चमत्कारकारिण्यपि स्वानुष्ठाने अनौद्धत्यं उक्तचं -
119 11
॥२॥
“चुल्लुच्छलेइ जं होइ ऊणयं रित्तयं कणकणेइ । भरियाई न खुब्भंती सुपुरिसविन्नाणभंडाई ॥
उपयोगवीर्यं साकारानाकारभेदात् द्विविधं तत्र साकारोपयोगोऽष्टधाऽनाकारश्चतुर्धा तेन चोपयुक्तः स्वविषयस्य द्रव्यक्षेत्रकालभावरूपस्य परिच्छेदं विधत्त इति, तथा योगवीर्यं त्रिविधं मनोवाक्कायभेदात्, तत्र मनोवीर्यमकुशलमनोनिरोधः कुशलमनसश्च प्रवर्तनं, मनसो वा एकत्वीभावकरणं, मनोवीर्येण हि निर्ग्रन्थसंयताः प्रवृद्धपरिणामा अवस्थितपरिणामाश्च भवन्तीति, वाग्वीर्येण तु भाषमणोऽपुनरुक्तं निरवद्यंच भाषते, कायवीर्यं तु यस्तु समाहितपाणिपादः कूर्मवदवतिष्ठत इति, तपोवीर्यं द्वादशप्रकारं तपो यद्धलादग्लायन् विधत्त इति, एवं सप्तदशविधे संयमे एकत्वाद्यध्यवसितस्य यद्बलात्प्रवृत्तिस्तत्संयमवीर्यं कथमहमतिचारं संयमे न प्राप्नुयामित्यध्यवसायिनः प्रवृत्तिरित्येवमाद्यध्यात्मवीर्यमित्यादि च भाववीर्यमिति, वीर्यप्रवादपूर्वे चानन्तं वीर्यं प्रतिपादितं किमिति ?, यतोऽनन्तार्थं पूर्वं भवति, तत्र च वीर्यमेव प्रतिपाद्यते, अनन्तार्थता चातोऽवगन्तव्या, तद्यथा
Jain Education International
For Private & Personal Use Only
,
www.jainelibrary.org