________________
१७८
सूत्रकृताङ्ग सूत्रम् १/८/-/४१०/नि. [६३] कस्यचिद्वीर्योल्लासो भवति, यस्मिन्वा क्षेत्रे वीर्यं व्याख्यायते तत्क्षेत्रवीर्यमिति, एवं कालवीर्यमप्येकान्तसुषमादावायोज्यमिति, तथा चोक्तम् - ॥१॥ "वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते।
शिशिरे चामल करसो, धृतं वसन्ते गुडश्चान्ते। ॥१॥ (तथा) “ग्रीष्मे तुल्यगुडां सुसैन्धवयुतां मेघावनद्धेऽम्बरे,
तुल्यां शर्करया शरद्यमलया शुण्ठया तुषारागमे । पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजितां, पुंसां प्राप्य हरीतकीमिव गता नश्यन्तु ते शत्रवः॥
-भाववीर्यप्रतिपादनायाहनि. [९४] भावो जीवस्स सवीरियस्स विरियमि लद्धिऽनेगविहा ।
ओरस्सिंदियअज्झप्पिएसु बहुसो बहुविहीयं । नि. [९५] मणवइकाया आणापाणू संभव तहा य संभव्वे ।
सोत्तादीणं सद्दादिएसु विसएसु गहणंच। वृ. 'सवीर्यस्य' वीर्यशक्त्युपेतस्य जीवस्य 'वीर्ये' वीर्यविषये अनेकविधा लब्धि, तामेव गाथापश्चार्द्धन दर्शयति, तद्यथा-उरसिभवमौरस्यंशारीरबलमित्यर्थः, तथेन्द्रियबलमाध्यात्मिकं बलं बहुशो बहुविधं द्रष्टव्यमिति । एतदेव दर्शयितुमाह-आन्तरेण व्यापारेण गृहीत्वा पुदलान् मनोयोग्यान्मनस्त्वेन परिणमयतिभाषायोग्यान् भाषात्वेन परिणमयति काययोग्यान्कायत्वेन आनापानयोग्यान्तद्भावेनेति, तथामनोवाक्कायादीनांतदावपरिणतानांयद्वीर्य-सामर्थ्य तदिविधंसम्भवेसम्भाव्येच, सम्भवेतावत्तीर्थकृतामनुत्तरोपपातिकानांचसुराणामतीवपटूनि मनोद्रव्याणि भवन्ति, तथाहि
तीर्थकृतामनुत्तरोपातिकसुरमनः पर्यायज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणात् अनुत्तरोपपातिकसुराणां च सर्वव्यापारस्यैव मनसा निष्पादनादिति, सम्भाव्ये तु योहि यमर्थं पटुमतिनाप्रोच्यमानंनशक्नोति साम्प्रतंपरिणमयितुं सम्भाव्यते त्वेष परिकर्म्यमाणः शक्ष्यत्यमुमर्थं परिणमयितुमिति, वाग्वीर्यमपिद्विविधं-सम्भवेसम्भाव्येच, तत्र सम्भवेतीर्थकृतांयोजननिर्झरिणी वाक्सर्वस्वस्वभाषानुगताच तथाऽन्येषामपि क्षीरमध्वानुवादिलब्धिमतां वाचः सौभाग्यमिति, तता हंसकोकिलादीनां सम्भवति स्वरमाधुर्यं, सम्भाव्येतुसम्भाव्यते श्यामायाः स्त्रिया गानगाधुर्य, तथा चोक्तम्
___“सामा गायति महुरं काली गायति खरंच रुक्खं चे" त्यादि, तथा-सम्भावयामः-एनं श्रावकदारकम् अकृतमुखसंस्कारमप्यक्षरेषु यथावदभिलप्तव्येष्विति, तथा सम्भावयामः शुकसारिकादीनां वाचो मानुषभाषापरिणामः, कायवीर्यमप्यौरस्यं यद्यस्य बलं, तदपि द्विविधंसम्भवे सम्भाव्येच, संभवेयथा चक्रवर्तिबलदेववासुदेवादीनां यद्बाहुबलादिकायबलं, तद्यथाकोटिशिला त्रिपृष्ठेन वामकरतलेनोध्धृता, यदिवा-"सोलसरायसहस्सा' इत्यादि यावदपरिमितबला जिनवरेन्द्रा इति, सम्भाव्ये तु सम्भाव्यते तीर्थकरे लोकमलोके कण्दुकवत् प्रक्षेप्तुं तथा मेरुं दण्डवद्गृहीत्वा वसुधांछत्रकवद्धर्तुमिति, तथासम्भाव्यतेअन्यतरसुराधिपोजम्बूद्वीपंवामहस्तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org