________________
श्रुतस्कन्धः-१, अध्ययनं-७,
१७७
दृष्टान्तमाह-यथाअक्षस्य 'क्षये विनाशेसति शकटं गव्यादिकंसमविषमपथरूपं प्रपञ्चमुपष्टम्भकारणाभावान्नोपयाति, एवमसावपिसाधुरष्टप्करारस्य कर्मणःक्षयेसंसारप्रपञ्चनोपयातीति, गतोऽनुगमो, नयाः पूर्ववद्, इतिशब्दः परिसमाप्तयर्थे ब्रवीमीति पूर्ववत् ।
अध्ययनं-७ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाझाचार्यविरचिता प्रथम श्रुतस्कन्धस्य सप्तमअध्ययनटीका परिसमाप्ता।
(अध्ययनं-८ "वीर्य" वृ.उक्तंसप्तममध्ययनं, साम्प्रतमष्टममारभ्यते-अस्यचायमभिसम्बन्धः, इहानन्तराध्ययने कुशीलास्तप्रतिपक्षभूताश्च सुशीलाःप्रतिपादिताः, तेषांचकुशीलत्वंसुशीलत्वंचसंयमवीर्यान्तरायोदयात्तत्क्षयोपशमाच्च भवतीत्यतो वीर्यप्रतिपादनायेदमध्ययनमुपदिश्यते, तदनेन संबंधेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि । तत्राप्युपक्रमान्तर्गतोऽधिकारोऽयं, तद्यथा-बालबालपण्डितपण्डितवीर्यभेदात्रिविधमपि वीर्यं परिज्ञाय पण्डितवीर्ये यतितव्यमिति, नामनिष्पन्नेतु निक्षेपे वीर्याध्ययनं, वीर्यनिक्षेपाय नियुक्तिकृदाहनि. [९१] विरिए छक्कं दव्वे सच्चित्ताचित्तमीसगंचेव ।
दुपयचउप्पयअपयं एवं तिविहं तु सच्चित्तं ॥ वृ. वीर्ये नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्षोढा निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवीर्यं द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञातां तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्य-शरीरव्यतिरिक्तंसचित्ताचित्तमिश्रभेदाशत्रिधा वीर्य, सचित्तमपिद्विपदचतुष्पदापदभेदात् त्रिविधमेव । तत्र द्विपदानां अर्हञ्चक्रवर्तिबलदेवादीनां यद्वीर्यं स्त्रीरलस्य वा यस्य वा यद्वीर्यं तदिह द्रव्यवीर्यत्वेन ग्राह्यं, तथा चतुष्पदानामश्वहस्तिरलादीनां सिंहव्याघ्रशर-भादीनां वापरस्य वा यद्वोढव्ये धावनेवावीर्यंतदिति, तथाऽपदानां गोशीर्षचन्दनप्रभृतीनांशीतोष्णकालयोरुष्णशीत- वीर्यपरिणाम इति ॥अचित्तवीर्यप्रतिपादनायाहनि. [९२] अच्चित्तं पुण विरियं आहारावरणपहरणादीसु।
जह ओसहीण भणियं विरियं रसवीरियविवागो।। नि. [९३] आवरणे कवयादी चक्कादीयं च पहरणे होति।
खित्तंमिजंमि खेत्ते काले जंजंमि कालंमि ।। वृ.अचित्तद्रव्यवीर्यत्वाहारवरणप्रहरणेषुयद्वीर्यंतदुच्यते, तत्राऽऽहारवीर्यं सद्यःप्राणकरा हृद्या, घृतपूर्णा कफापहाः' इत्यादि, ओषधीनांचशल्योद्धरणसंरोहणविषापहारमेधाकरणादिकं रसवीर्य, विपाकवीर्यं च यदुक्तंचिकित्साशास्त्रादौ तदिह ग्राह्यमिति, तथा योनिप्राभृतकान्नानाविधं द्रव्यवीर्यं द्रष्टव्यमिति, तथा आवरणे कवचादीनां प्रहरणे चक्रादीनां यद्भवति वीर्य- तदुच्यते
अधुना क्षेत्रकालवीर्य गाथापश्चार्धेन दर्शयति-क्षेत्रवीर्यं तु देवकुर्वादिकं क्षेत्रमाश्रित्य सर्वाण्यपि द्रव्याणि तदन्तर्गतान्युत्कृष्टवीर्यवन्ति भवन्ति, यद्वा दुर्गादिकं क्षेत्रमाश्रित्य 2012
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org