SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-७, १७५ मू. (४०५) निखम्म दीने परभोयणमि, मुहमंगलीए उदरानुगिद्धे । नीवारगिद्धव महावराहे, अदूरए एहिइ घातमेव ।। , वृ. किञ्च-यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्त्वा निष्क्रान्तो निष्क्रम्य च परभोजने' पराहारविषये 'दीनो' दैन्यमुपगतो जिहवेन्द्रियवशालॊ बन्दिवत् 'मुखमाङ्गलिको' भवति मुखेन मङ्गलानि-प्रशंसावाक्यानि ईद्दशस्ताद्दशस्त्वमित्येवं दैन्यभावमुपगतो वक्ति, उक्तंच॥१॥ “सो एसो जस्स गुणा वियरंतनिवारिया दसदिसासु। इहरा कहासु सच्चसि पच्चक्खं अज्ज दिट्ठोऽसि॥ इत्येवमौदर्यं प्रतिगृद्धः अध्युपपन्नः, किमिव? 'नीवारः' सूकरादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध-आसक्तमना गृहीत्वा चस्वयूथं महावराहो' महाकायः सूकरः सचाहारमात्रगृद्धोऽतिसंकटे प्रविष्टः सन् ‘अदूर एव' शीघ्रमेव 'घातं' विनाशम् ‘एष्यति' प्राप्स्यति, एवकारोऽवधारणे, अवश्यं तस्य विनाश एव नापरा गतिरस्तीति, एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेवैति॥ मू. (४०६) अन्नस्स पाणस्सिहलोइयस्स, अनुप्पियं भासति सेवमाणे। पासत्थयं चेव कुसीलयंच, निस्सारए होइ जहा पुलाए । वृ. किंचान्यत्, सकुशीलोऽनस्यपानस्य वा कृतेऽन्यस्य वैहिकार्थस्यवस्त्रादेः कृते अनुप्रियं भाषते' यद्यस्य प्रियं तत्तस्य वदतोऽनु-पश्चाद्भाषते अनुभाषते, प्रतिशब्दकवत् सेवकवद्वा राजाद्युक्तमनुवदतीत्यर्थः, तमेव दातारमनुसेवमान आहारमात्रगृद्धः सर्वमेतत्करोतीत्यर्थः । सचैवम्भूतः सदाचारभ्रष्टः पार्श्वस्थभावमेव व्रजति कुशीलतांचगच्छति, तथा निर्गतःअपगतः सारः-चारित्राख्यो यस्य स निसारः, यदिवा निर्गतः सारो निसारः स विद्यते यस्यासौ निसारवान्, पुलाक इवनिष्कणोभवति यथा-एवमसौ संयमानुष्ठानं निसारीकरोति, एवंभूतश्चासौ लिङ्गमात्रावशेषो बहूनां स्वयूथ्यानां तिरस्कारपदवीमवाप्नोति, परलोके च निकृष्टानि यातनास्थानान्यवाप्नोति। ____ उक्ताः कुशीलाः, तत्प्रतिपक्षभूतान् सुशीलान् प्रतिपादयितुमाहमू. (४०७) अन्नातपिंडेणऽहियासएजा, नो पूयणं तवसा आवहेजा। सद्देहिं रूवेहिं असज्जमाणं, सव्वेहि कामेहि विणीय गेहिं ।। वृ.अज्ञातश्चासौ पिण्डश्चाज्ञातपिण्डः अन्तप्रान्त इत्यर्थः,अज्ञातेभ्योवा-पूर्वापरासंस्तुतेभ्यो वा पिण्डोऽज्ञातपिण्डोऽज्ञातोञ्छवृत्त्या लब्धस्तेनात्मानम् अधिसहेत्' वर्तयेत्-पालयेत्, एतदुक्तं भवति-अन्तप्रान्तेन लब्धेनालब्धेन वा न दैन्यं कुर्यात्, नाप्युत्कृष्टेन लब्धेन मदं विदध्यात्, नापि तपसा पूजनसत्कारमावहेत्, न पूजनसत्कारनिमित्तं तपः कुर्यादित्यर्थः, यदिवा पूजासत्कारनिमित्तत्वेन तथा विधार्थित्वेन वा महतापि केनचित्तपो मुक्तिहेतुकं न निसारं कुर्यात्, तदुक्तम् ॥१॥ “परं लोकाधिकंधाम, तपःश्रुतमिति द्वयम् । तदेवार्थित्वनिर्लुप्तसारं तृणलवायते॥ यथा चरसेषुगृद्धिंन कुर्यात्, एवंशब्दादिष्वपीतिदर्शयति-'शब्दैः' वेणुवीणादिभिराक्षिप्तः संस्तेषु असजन्' आसक्तिमकुर्वन् कर्कशेषुचद्वेषमगच्छन्तथारूपैरपि मनोज्ञेतरै रागद्वेषमकुर्वन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy