SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ - १७४ सूत्रकृताङ्ग सूत्रम् १/७/-/४०१ तथा योवस्त्र धावति' प्रक्षालयति तथा 'विकटेन' प्रासुकोदकेनापि सङ्कोच्याङ्गानि प्रासुक एव प्रदेशेदेशसर्वस्नानं कुर्वन्ति तथायोवस्त्रं 'धावति' प्रक्षालयति तथा लूषयति' शोभार्थदीर्घमुत्पाटयित्वा ह्रस्वं करोति इस्वंवा सन्धाय दीर्घ करोति एवं लूषयति, तदेवं स्वार्थं परार्थं वा यो वस्त्रं लूषयति, अथासौ 'नागनियस्स'त्ति निर्ग्रन्थभावस्य संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो . भवतीत्येवं तीर्थकरगणधरादय आहुरिति॥ मू. (४०२) कम्मं परिन्नाय दगंसि धीरे, वियडेण जीविज य आदिभोक्खं। से बीयकंदाइ अभुंजमाणे, विरते सिणाणाइसु इत्थियासु ॥ वृ. उक्ताः कुशीलाः, तत्प्रतिपक्ष भूताः शीलवन्तः प्रतिपाद्यन्त इत्येतदाह-धिया राजते इति धीरो-बुद्धिमान् ‘उदगंसि'त्ति उदकसमारम्भे सति कर्मबन्धो भवति, एवं परिज्ञाय किं कुर्यादित्याह-विकटेन' प्रासुकोदकेन सौवीरादिना 'जीव्यात्' प्राणसंधारणं कुर्यात्, चशब्दात् अन्येनाप्याहारेण प्रासुकेनैव प्राणवृत्तिं कुर्यात् । आदिः-संसारस्तस्मान्मोक्षआदिमोक्षः संसारविमुक्तियावदिति, धर्मकारणानांवाऽऽदिभूतं शरीरंतद्विमुक्तियावत् यावज्जीवमित्यर्थः, किंचासौ साधुर्बीजकन्दादीन् अभुआनः,आदिग्रहणात् मूलपत्रफलानि गृह्यन्ते, एतान्यप्यपरिणतानि परिहरन् विरतो भवति, कुत इति दर्शयति। स्नानाभ्यङ्गोद्वर्तनादिषु क्रियासु निष्प्रतिकर्मशरीरतयाऽन्यासु च चिकित्सादिक्रियासुन वर्तते, तथास्त्रीषुचविरतः, बस्तिनिरोधग्रहणात्अन्येऽप्याश्रवा गृह्यन्ते, यश्चैवम्भूतः सर्वेभ्योऽप्याश्रवद्वारेभ्यो विरतोनासौ कुशीलदोषैर्युज्यते तदयोगाच्च नसंसारे बम्भ्रमीति, ततश्चनदुःखितः स्तनति नापि नानाविधैरुपायैर्विलुप्यत इति । पुनरपि कुशीलेनावाधिकृत्याहमू. (४०३) जे मायरंच पियरं च हिच्चा, गारं तहा पुत्तपसुंधनं च। कुलाइंजे धावइ साउगाई, अहाहु से सामणियस्स दूरे ॥ वृ.येकेचनापरिणतसम्यग्धर्माणसत्यक्त्वामातरंच पितरंच, मातापित्रोद॑स्त्यजत्वादुपादानं, अतो भ्रातृदुहित्रादिकमपि त्यक्त्वेत्येतदपिद्रष्टव्यं, तथा ‘अगारं गृहं पुत्रम्' अपत्यं पशुं हस्त्यश्चरथगोमहिष्यादिकंधनंच त्यक्त्वा सम्यक्प्रव्रज्योत्थानेनोत्थाय-पञ्चमहाव्रतमारस्य स्कन्धं दत्त्वा पुनींनसत्त्वतया रससातादिगौरवगृद्धो यः 'कुलानि' गृहाणि 'स्वादुकानि' स्वादुभोजनवन्ति 'धावति' गच्छति, अथासौ 'श्रामण्यस्य' श्रमणभावस्य दूरे वर्तते एवमाहुस्तीर्थकरगणधरादय मू. (४०४) कुलाइंजे धावइ साउगाई, आघाति धम्म उदराणुगिद्धे। अहाहु से आयरियाण सयंसे, जे लावएजा असनस्स हेऊ॥ वृ. एतदेव विशेषेण दर्शयितुमाह- यः कुलानि स्वादुभोजनवन्ति 'धावति' इयर्ति तथा गत्वा धर्ममाख्याति भिक्षार्थं वा प्रविष्टो यद्यस्मै रोचते कथानकसम्बन्धं तत्तस्याख्याति, किम्भूत इति दर्शयति-उदरेऽनुगृद्ध उदरानुगृद्धः-उदरभरणव्यग्रस्तुन्दपरिमृज इत्यर्थः, इदमुक्तं भवति। __ यो युदरगृद्ध आहारादिनिमित्तंदानश्रद्धकाख्यानि कुलानि गत्वाऽऽख्यायिकाः कथयति सकुशील इति, अथासावाचार्यगुणानामार्यगुणानांवा शतांशेवर्ततेशतग्रहणमुपलक्षणंसहस्रांशादेरप्यधो वर्तते इति यो ह्यन्नस्य हेतु-भोजनमितित्तमपरवस्त्रादिनिमित्तं वा आत्मगुणानपरेण 'आलापयेत्' भाणयेत्, असावप्यार्यगुणानांसहस्रांशेवर्तते किमङ्गपुनर्यस्वत एवाऽऽत्मप्रशंसा विदघातीति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy