________________
श्रुतस्कन्धः - १, अध्ययनं-७,
१७३
यदप्युच्यते-अग्निमुखा वैदेवाः, एतदपियुक्तिविकलत्वात् वाङ्मात्रमेव, विष्ठादिभक्षणेन चाग्नेस्तेषां बहुतरदोषोत्पत्तेरिति।
उक्तानि पृथक् कुशीलदर्शनानि, अयम परस्तेषां सामान्योपालम्भ इत्याहमू. (३९९) अपरिक्ख दिटुं न हु एव सिद्धी, एहिंति ते घायमबुज्झमाणा।
भूएहिं जाणं पडिलेह सातं, विजं गहायं तसथावरेहिं।। वृ. यैर्मुमुक्षुभिरुदकसम्पर्केणाग्निहोत्रेण वा सिद्धिरभिहिता तैः ‘अपरीक्ष्य दृष्टमेतत्' युक्तिविकलमभिहितमेतत्, किमिति? यतो नहु' नैव ‘एवम्' अनेन प्रकारेण जलावगाहनेन अग्निहोत्रेण वा प्राण्युपमईकारिणा सिद्धिरिति, तेच परमार्थमबुद्धयमानाः प्राण्युपघतेन पापमेव धर्मबुद्धा कुर्वन्तो घात्यन्ते-व्यापाद्यन्तेनानाविधैः प्रकारैर्यस्मिनप्राणिनःस घातः-संसारस्तमेष्यन्ति, अपकायतेजःकायसमारम्भेण हि त्रसस्थावराणां प्राणिनामवश्यं भावी विनाशस्तदविनाशे च संसार एव न सिद्धिरित्यभिप्रायः, यत एवंततो विद्वान्' सदसद्विवेकी यथावस्थिततत्त्वं गृहीत्वा त्रसस्थावरैर्भूतैः-जन्तुभिः ।
कथं साम्प्रतं-सुखमवाप्यत इत्येतत् प्रत्युपेक्ष्य जानीहि-अवबुद्धयस्व, एतदुक्तं भवति सर्वेऽप्यसुमन्तः सुखैषिणो दुःखद्विषो, नचतेषांसुखैषिणांदुःखोत्पादकत्वेन सुखावाप्तिर्भवतीति, यदिवा-'विजं गहाय'त्ति विद्यां ज्ञानं गृहीत्वा विवेकमुपादाय त्रसस्थावरैर्भूतैर्जन्तुभि करणभूतैः 'सातं' सुखं प्रत्युपेक्ष्य' पर्यालोच्य ‘जानीहि' अवगच्छेति, यत उक्तम् - ॥१॥ “पढमं नाणं तयो दया, एवं चिट्ठइ सव्व संजए।
अन्नाणी किं काही, किंवा नाही छेयपावगं ।। मू. (४००) थणंति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू ।
तम्हा विऊ विरतो आयुगुत्ते, दटुं तसे या पडिसंहरेज्जा ।। वृ.इत्यादि। ये पुनः प्राण्युपमर्दैन सातमभिलषन्तीत्यशीलाः कुशीलाचतेसंसारेएवंविधा अवस्था अनुभवन्तीत्याह-तेजःकायसमारम्भिणो भूतसमारम्भेण सुखमभिलषन्तोनरकादिगतिं गतास्तीव्रदुःखैः पीड्यमाना असह्यवेदनाघ्रातमानसा अशरणाः 'स्तनन्ति' रुदन्ति केवलं करुणमाक्रन्दन्तीतियावत् तथा 'लुप्पंती'ति छिद्यन्ते खड्गादिभिरेवंचकदर्थ्यमानाः ‘त्रस्यन्ति' प्रपलायन्ते, कर्माण्येषां सन्तीति कर्मिणः-सपापा इत्यर्थः ।
तथा पृथक् ‘जगा' इति जन्तव इति, एवं परिसखाय' ज्ञात्वा भिक्षणशीलो 'भिक्षु' साधु-रित्यथः, यस्मात्प्राण्युपमर्दकारिणः संसारान्तर्गता विलुप्यन्ते तस्मात् विद्वान्' पण्डितो विरतः पापानुष्टानादात्मा गुप्तो यस्य सोऽयमात्मगुप्तो मनोवाक्कायगुप्त इत्यर्थः, दृष्ट्वा त्रसान् चशब्दा- स्थावरांश्च दृष्ट्वा' परिज्ञाय तदुपघातकारिणी क्रियां प्रतिसंहरेत्' निवर्तयेदिति। मू. (४०१) जे धम्मलद्धं विणिहाय भुंजे, वियडेण साह? य जे सिणाई।
जे धोवती लूसयतीव वत्थं, अहाहु से नागनियस्स दूरे ॥ वृ. साम्प्रतं स्वयूथ्याः कुशीला अभिधीयन्त इत्याह-'ये' केचन शीतलविहारिणो धर्मेणमुधिकया लब्धं धर्मलब्धं उद्देशकक्रीतकृतादिदोषरहितमित्यर्थः, तदेवम्भूतमप्याहारजातं 'विनिधाय' व्यवस्थाप्य सन्निधिं कृत्वा भुञ्जन्ते । ____तथाये विकटेन' प्रासुकोदकेनावि सङ्कोच्याङ्गानिप्रासुकएव प्रदेशे देशसर्वस्नानं कुर्वन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org