SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १७२ सूत्रकृताङ्ग सूत्रम् १/७/-/३९४ नयनादिष्टविधातकृविरुद्धः स्यात्, किञ्च-यतीनांब्रह्मचारिणामुदकस्नानं दोषायैव, तथा चोक्तम् ॥१॥ “स्नानं मददर्पकरं, कामाझं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, न ते स्नान्ति दमे रताः॥ ॥१॥ "नोदकल्लिन्नगात्रो हि, स्नात इत्यभिधीयते। स स्नातो यो व्रतस्नातः, स बाह्याभ्यन्तरः शुचि ।। किञ्चमू. (३९५) मच्छ य कुम्मा य सिरीसिवा य, मग्गूय उट्ठा दगरक्खसा य। अट्ठाणमेयं कुसला वयंति, उदगेण जे सिद्धिमुदाहरंति ॥ वृ.यदिजलसम्पर्कात्सिद्धिःस्यात्ततोयेसततमुदकावगाहिनोमत्स्याश्चकूश्चिसरीसृपाश्च तथा मद्गव- तथोष्ट्रा-जलचरविशेषाः तथोदकराक्षसा-जलमानुषाकृतयो जलचरविशेषा एते प्रथमंसिद्धयेयुः,नचैतद्रुष्टमिष्टंवा, ततश्च येउदकेन सिद्धिमुदाहरन्त्येतद् ‘अस्थानम्' अयुक्तम्असाम्प्रतं 'कुशला' निपुणा मोक्षमार्गाभिज्ञा वदन्ति ।। मू. (३९६) उदगंजइ कम्ममलं हरेज्जा, एवं सुहं इच्छामित्तमेव । अंधं व नेयारमणुस्सरित्ता, पाणाणि चेवं विणिहंति मंदा॥ वृ.किञ्चान्यत्-यधुदकं कर्ममलमपहरेदेवं शुभमपिपुण्यमपहरेत्, अथ पुण्यं नापहरेदेवं कर्ममलमपि नापहरेत्, अत इच्छामात्रमेवैतद्यदुच्यते-जलं कर्मापहारीति, एवमपि व्यवस्थिते ये स्नानादिकाः क्रियाः स्मार्तमार्गमनुसरन्तः कुर्वन्तिते यथाजात्यन्धाअपरंजात्यन्धमेव नेतारमनुसृत्य गच्छन्तः कुपथश्रितयो भवन्ति नाभिप्रेतं स्थानमवाप्नुवन्ति एवं स्मार्तमार्गानुसारिणो जलशौचपरायणा । 'मन्दा' अज्ञाः कर्तव्याकर्तव्यविवेकविकलाः प्राणिन एव तन्मयान् तदाश्रितांश्च पूतरकादीन् 'विनिघ्नन्ति' व्यापादयन्ति, अवश्यंजलक्रियया प्राणव्यपरोपणस्य सम्भवादिति मू. (३९७) पावाई कम्माइं पकुव्वतो हि, सिओदगं तू जइ तं हरिज्जा। सिज्झिसु एगे दगसत्तघाती, मुसं वयंते जलसिद्धिमाहु॥ वृ. अपिच-पापानि' पापोपादानभूतानि 'कर्माणि' प्राण्युपमर्दकारीणि कुर्वतोऽसुमतो यत्कर्मोपचीयते तत्कर्म यधुदकमपहरेत् यद्येवं स्यात् तर्हि हि यस्मादर्थे यस्मात्प्राण्युपमर्दैन कर्मोपादीयतेजलावगाहनाच्चापगच्छति तस्मादुदकसत्त्वघातिनः पापभूयिष्ठाअप्येवं सिद्धयेयुः, न चैतदृष्टमिष्टं वा, तस्माद्ये जलावगाहनासिद्धिमाहुः ते मृषा वदन्ति॥ मू. (३९८) हुतेण जे सिद्धिमुदाहरंति, सायंच पायं अगणिं फुसंता। एवं सिया सिद्धि हवेज तम्हा, अगणिं फुसंताण कुकम्मिणंपि॥ वृ.किञ्चान्यत्-‘अग्निहोत्रं' जुहुयात् स्वर्गकाम इत्यस्माद्वाक्यात् 'ये' केचन मूढा 'हूतेन' अग्नौ हव्यप्रक्षेपेण 'सिद्धिं' सुगतिगमनादिकांस्वर्गावाप्तिलक्षणाम् ‘उदाहरन्ति प्रतिपादयन्ति, कथम्भूताः?- सायम्' अपराह्ने विकाले वा 'प्रातश्च' प्रत्युषसि अग्नि ‘स्पृशन्तः यथेष्टैर्हव्यैरग्नि तर्पयन्तस्तत एव यथेष्टगतिमभिलषन्ति, आहुश्चैवं ते यथा - अग्निकार्यात्स्यादेव सिद्धिरिति, तत्र च यद्येवमग्निस्पर्शेन सिद्धिर्भवेत् ततस्तस्मादग्नि संस्पृशतां कुकर्मिणाम्' अङ्गारदाहककुम्भकारायस्कारादीनां सिद्धि स्यात्, यदपि च मन्त्रपूतादिकं तैरुदाह्रियते तदपि च निरन्तराः सुहृदः प्रत्येष्यन्ति, यतः कुकर्मिणामप्यग्निकार्ये भस्मापादनमग्निहोत्रिकादीनामपि भस्मसात्करणमिति नातिरिच्यते कुकर्मिभ्योऽग्निहोत्रादिकं कर्मेति, For Private & Personal Use Only Jain Education International ___www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy