________________
श्रुतस्कन्धः- १, अध्ययनं-७,
१६७
वृ.नानाभेदभिन्नंजीवसंघातंप्रदश्याधुनातदुपघातेदोषंप्रदर्शयितुमाह-एते' पृथिव्यादयः 'काया' जीवनिकाया भगवद्भिः 'प्रवेदिताः' कथिताः, छान्दसत्वान्नपुंसकलिङ्गता, ‘एतेषु च पूर्व प्रतिपादितेषु पृथिवीकायादिषुप्राणिषु ‘सातं' सुखं जानीहि, एतदुक्तं भवति ।
सर्वेऽपि सत्त्वाः सातैषिणो दुःखद्विषश्चेति ज्ञात्वा 'प्रत्युपेक्षस्व' कुशाग्रीयया बुध्धया पर्यालोचयेति, यथैभिः कायैः समारभ्यमाणैः पीड्यमानैरात्मा दण्डयते, एतत्समारम्भादात्मदण्डो भवतीत्यर्थः, अथवैभिरेव कायैर्ये 'आयतदण्डा' दीर्घदण्डाः, एतदुक्तं भवति-एतान् कायान्ये दीर्घकालं दण्डयन्ति पीडयन्तीति, तेषां यद्भवति तद्दर्शयति ।
तेएतेष्वेव-पृथिव्यादिकायेषु विविधम्-अनेकप्रकारंपरि-समन्ताद्आशु-क्षिप्रमुपसामीप्येन यान्ति-व्रजन्ति, तेष्वेव पृथिव्यादिकायेषु विविधमनेकप्रकारं भूयो भयः समुत्पद्यन्त इत्यर्थः, यदिवा-विपर्यासोव्यत्ययः, सुखार्थिभिः कायसमारम्भः क्रियते तत्समारम्भेणचदुःखमेवावाप्यते न सुखमिति, यदिवा कुतीर्थिका मोक्षार्थमेतैः कायैर्या क्रियां कुर्वन्ति तया संसार एव भवतीति । यथा चासावयतदण्डोमोक्षार्थी तान्कायान्समारभ्यतद्विपर्ययात् संसारमाप्नोति तथा दर्शयतिमू. (३८३) जाईपहं अमुपरिवट्टमाणे, तसथावरेहिं विणिघायमेति ।
से जाति जाति बहुकूरकम्मे, जंकुव्वती मिज्जति तेण बाले । वृ.जातीनाम्-एकेन्द्रियादीनां पन्था जातिपथः, यदिवा-जाति-उत्पत्तिर्वधो-मरणंजातिश्च वधश्चजातिवधं तद् ‘अनुपरिवर्तमानः' एकेन्द्रियादिषुपर्यन्जन्मजरामरणानिवाबहुशोऽनुभवन् 'बसेषु तेजोवायुद्वीन्द्रियादिषु स्थावरेषु च पृथिव्यम्बुवनस्पतिषुसमुत्पन्नःसन्कायदण्डविपाकजेन कर्मणा बहुशो 'विनिघातं' विनाशमेति-अवाप्नोति।
‘स' आयतदण्डोऽसुमान् ‘जातिं जातिम्' उत्पत्तिमुत्पत्तिमवाप्य बहूनि क्रूराणिदारुणान्यनुष्ठानानि यस्य स भवति बहुक्रूरकर्मा, स एवम्भूतो निर्विवेकः सदसद्विवेकशून्यत्वात् बाल इव बालो यस्माकेन्द्रियादिकायां जातौ यत्प्राण्युपमर्दकारि कर्म कुरुते स तेनैव कर्मणा 'मीयते' भ्रियते पूर्यते यदिवा 'मीङ् हिंसायां' मीयते हिंस्यते अथवा-बहुक्रूरकर्मेति चौरोऽयं पारदारिक इति वा इत्येवं तेनैव कर्मणा मीयते-परिच्छिद्यत इति।। मू. (३८४) अस्सिं च लोए अदुवा परत्था, सयग्गसो वा तह अन्नहा वा।
संसारमावन्न परंपरंते, बंधंति वेदंति य दुनियाणि ॥ वृ. क्व पुनरसौ तैः कर्मभिर्मीयते इति दर्शयति-यान्याशुकारीणि कर्मामि तान्यस्मिन्नेव जन्मनि विपाकं ददति, अथवा परस्मिन् जन्मनि नरकादौ तस्य कर्म विपाकं ददति, एकस्मिन्नेव जन्मनि विपाकं तीव्र ददति ‘शताग्रशो वेति बहुषु जन्मसु, येनैव प्रकारेण तदशुभमाचरन्ति ततैवोदीर्यते तथा-'अन्यथा वेति, इदमुक्तंभवति किञ्चित्कर्मतद्भव एव विपाकंददातिकिञ्चिच्च जन्मान्तरे, यथा-मृगापुत्रस्य दुःखविपाकाख्ये विपाकश्रुताङ्गश्रुतस्कन्धे कथितमिति, दीर्घकालस्थितिकं त्वपरजन्मान्तरितं वेद्यते, येन प्रकारेण सकृत्तथैवानेकशो वा, यदिवाऽन्येन प्रकारेण सकृत्सहस्रशो वा शिरश्छेदादिकं हस्तपादच्छेदादिकं चानुभूयत इति ।
तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिकसंसारमापन्ना अरहट्टघटीयन्त्रन्यायेन संसारं पर्यटन्तः परंपरं प्रकृष्टंप्रकृष्टं दुःखमनुभवन्ति,जन्मान्तरकृतं कर्मानुभवन्तश्चैकमार्तध्यानोपहता
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only