SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६६ सूत्रकृताङ्ग सूत्रम् १/७/-/३८०/नि. [८०] नि. [८९] अफासुयपडिसेविय नामं भुजोय सीलवादी य। ___ फासुंवयंति सीलं अफासुया मो अभुंजंता ।। वृ.अस्त्ययंशीलशब्दस्तत्स्वाभाव्ये, तथाहि-यः फलनिरपेक्षः क्रियास्वाभरणादिकासुप्रवर्तते सचेहद्रव्यशीलत्वेन प्रदर्शितः, अस्त्युपशमप्रधानेचारित्रे,तथाहि-तप्रधानःशीलवानयंतपस्वीति, तद्विपर्ययेण दुःशील इति, सचेह भावशीलग्रहणेनोपात्त इति, इह च यतीनांध्यानाध्ययनादिकं मुक्त्वा धर्माधारशरीरतत्पालनाहारव्यापारं च मुक्त्वा नापरः कस्चिद्व्यापारोऽस्तीत्यतस्तदाश्रयणेनैव सुशीलत्वं दुःशीलत्वंच चिन्त्यते। तत्र कुतीर्थिकाः पार्श्वस्थादिर्वा अप्रासुकं-सचित्तंप्रतिसेवितुंशीलमस्य सभवत्यप्रासुकप्रतिसेवी नामशब्दः सम्भावनायां 'भूयः' पुनर्घाष्टर्याच्छीलवन्तमात्मानं वदितुं शीलं यस्य स शीलवादी, किमित्येवं? -यतः 'प्रासुकम्' अचेतनं शीलं वदन्ति, इदमुक्तंभवति-यः प्रासुकमुद्गमादिदोषरहितमाहारंभुङ्केतंशीलवन्तंवदन्तितज्ज्ञाः, तथाहि-यतयो प्रासुकमुद्रमा-दिदोषदुष्टमेवाहारमभुजानाःशीलवन्तो भण्यन्ते, नेतरइति स्थितं, मोशब्दस्य निपातत्वेना-वधारणार्थत्वादिति अप्रासुकभोजित्वेन कुशीलत्वं प्रतिपादयितुं दृष्टान्तमाहनि. [१०] जह नाम गोयमा चंडीदेवगा वारिभद्दगा चेव । जे अग्निहोत्तवादी जलसोयं जे य इच्छंति ।। वृ. यथेति दृष्टान्तोपक्षेपार्थं, नामशब्दो वाक्यालङ्कारे, 'गौतमा' इति गोव्रतिकागृहीतशिक्ष लघुकायं वृषभमुपादाय धान्याद्यर्थं प्रतिगृहमटन्ति, तथा 'चंडीदेवगा' इति चक्रधरप्रायाः एवं 'वारिभद्रका' अब्भक्षाः शैवलाशिनो नित्यं स्नानपादादिधावनाभिरता वा तथा ये चानये 'अग्निहोत्रवादिनः' अग्निहोत्रादेव स्वर्गगमनमिच्छन्तियेचान्ये जलशौचमिच्छन्ति भागवतादयस्ते सर्वेऽप्यप्रासुकाहारभोजित्वात् कुशीला इति, चशब्दात् ये च स्वयूथ्याः पार्श्वस्थादय उद्गमाद्यशुद्धमाहारं भुञ्जते तेऽपि कुशीला इति। गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ने निक्षेपे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदंमू. (३८१)पुढवी य आऊ अगणी य वाऊ, तण रुक्ख बीया य तसा य पाणा। जे अंड्या जे यजराउ पाणा, संसेयया जे रसयाभिहाणा॥ वृ. 'पृथिवी' पृथिवीकायिकाः सत्त्वाः चकारः स्वगतभेदसंसूचनार्थः, स चायं भेदःपृथिवीकायिकाः सूक्ष्मा बादरश्च, तेच प्रत्येकं पर्याप्तकापर्याप्तकभेदेन द्विधा, एवमप्कायिका अपि तथाऽग्निकायिका वायुकायिकाश्च द्रष्टव्याः, वनस्पतिकायिकान् भेदेन दर्शयति । 'तृणानि' कुशादीनि वृक्षाश्च' अश्वत्थादयो बीजानि' शाल्यादीनि एवंवल्लीगुल्मादयोऽपि वनस्पतिभेदा द्रष्टव्याः, त्रस्यन्तीति 'त्रसा' द्वीन्द्रियादयः प्राणाः'प्राणिनःयेचाण्डाज्जाताअण्डजा:शकुनिसरीसृपादयः 'ये च जरायुजा' जम्बालवेष्टिताः समुत्पद्यन्ते, ते च गोमहिष्यजाविकमनुष्यादयः, तथासंस्वेदाज्जाताः संस्वेदजायूकामत्कुणकृम्यादयः 'येचरसजाभिधाना' दधिसौवीरकादिषु रूतपक्ष्मसनिमा इति॥ मू. (३८२) एयाइंकायाइं पवेदिताई, एतेसुजाणे पडिलेह सायं । एतेण कारण य आयदंडे, एतेसु या विपरियासुविंति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy