SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - ७, १६५ अध्ययनं -७ कुशील परिभाषा बृ. उक्तं षष्ठमध्ययनं, साम्प्रतं सप्तममारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने महावीरस्य गुणोत्कीर्त्तनतः सुशीलपरिभाषा कृता, तदनन्तरं तद्विपर्यस्ताः कुशीलाः परिभाष्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्णीनीयानि, तत्राप्युपक्रमान्ततोऽर्थाधिकारोऽयं । तद्यथा-कुशीलाः-परतीर्थिकाः पार्श्वस्थादयो वा स्वयूथ्या अशीलाश्च गृहस्थः परि-समन्तात् भाष्यन्ते - प्रतिपाद्यन्ते तदनुष्ठानतस्तद्विपाकदुर्गतिगमनतश्च निरूप्यन्त इति तथा तद्विपर्ययेण कचित्सुशीलाश्चेति, निक्षेपस्त्रिधाः ओघनामसूत्रालापकभेदात्, तत्रौघनिष्पन्ननिक्षेपेऽध्ययनं, नामनिष्पन्ने कुशीलपरिभाषेति एतदधिकृत्य नियुक्तिकृदाह नि. [ ८० ] सीले चउक्क दव्वे पाउरणाभरणभोयणादीसु । भावे उ ओहसीलं अभिक्खमासेवणा चेव || वृ. 'शीले' शीलविषये निक्षेपे क्रियमाणे 'चतुष्क' मिति नामादिश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णत्वादनाध्त्य 'द्रव्यम्' - इति द्रव्यशीलं प्रावरणाभरणभोजनादिषु द्रष्टव्यं, अस्यायमर्थ-यो हि फलनिरपेक्षस्त- त्स्वभावादेव क्रियासु प्रवर्तते स तच्छीलः, तत्रेह प्रावरणशील इति प्रावरणप्रयोजनाभावेऽपि ताच्छील्यान्नित्यं प्रावरणस्वभावः प्रावरणे वा दत्तावधानः, एवमाभरणभोजनादिष्वपि द्रष्टव्यमिति, यो वा यस्य द्रव्यस्य चेतनाचेतनादेः स्वभावस्तद् द्रव्यशीलमित्युच्यते, भावशीलं तु द्विधा- ओघशीलमाभीक्ष्णयसेवनाशीलं चेति ।। तत्रौघशीलं व्याचिख्यासुराह नि. [८७] ओहे सीलं विरती विरयाविरई य अविरती असीलं । धणाणतवादी अपसत्थ अहम्मकोवादी ॥ बृ. तत्रौधः- सामान्यं सामान्येन सावद्ययोगविरतो विरताविरतो वा शीलवान् भण्यते, तद्विपर्यस्तोऽशीलवानिति, आभीक्ष्णयसेवायां तु-अनवरसेवनायां तु शीलमिदं, तद्यथा- 'धर्मे' धर्मविषये प्रशस्तं शीलं यदुतानवरतापूर्वज्ञानार्जनं विशिष्टतपःकरणं वा, आदिग्रहणादनवरताभिग्रहग्रहणादिकं परिगृह्यते, अप्रशस्तभावशीलं त्वधर्मप्रवृत्तिर्बाह्या आन्तरा तु क्रोधादिषु प्रवृत्तिः, आदिग्रहणात् शेषकषायाश्चौर्याभ्याख्यानकलहादयः परिगृह्यन्त इति ।। साम्प्रतं कुशील - परिभाषाख्यस्याध्ययनस्यान्वर्थतां दर्शयितुमाह नि. [८८] परिभासिया कुसीला य एत्थ जावंति अविरत केई । सुत्ति पसंसा सुद्धो कुत्ति दुछा अपरिसुद्धो ॥ वृ. परि - समन्तात् भाषिताः प्रतिपादिताः 'कुशीलाः ' कुत्सितशीलाः परतीर्थिकाः पार्श्वस्थादयश्च चशब्दात् यावन्तः केचनाविरता अस्मिन्नित्यत इदमध्ययनं कुशीलपरिभाषेत्युच्यते, किमिति कुशीला अशुद्धा गृह्यन्ते इत्याह- सुरित्ययं निपातः प्रशंसायां शुद्धविषये वर्तते, तद्यथासौराज्यमित्यादि, तथा कुरित्ययमपि निपातो जुगुप्सायामशुद्धविषये वर्ते, कुतीर्थं कुग्राम इत्यादि यदि कुत्सितशीलाः कुशीलाः कथं तर्हि ? परतीर्थिकाः पार्श्वस्थादयश्च तथाविधा भवन्तीत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy