________________
श्रुतस्कन्धः-१, अध्ययनं-६,
१६३
नस्वामिनः सर्वज्ञात् सकाशात् ‘परं' प्रधानं अन्यद्विज्ञानं नास्ति, सर्वथैवभगवानपरज्ञानिम्योऽधिकज्ञानो भवतीति भावः । किञ्चान्यतमू. (३७६) पुढोवमे धुणइ विगयगेही, न सन्निहिं कुव्वति आसुपन्ने ।
तरिउं समुदं व महाभवोधं, अभयंकरे वीर अनंतचक्खू ॥ वृ. स हि भगवान् यथा पृथीवि सकलाधारा वर्तते तथा सर्वसत्त्वानामभयप्रदानतः सदुपदेशदानाद्वा सत्त्वाधार इति, यदिवा यथा पृथ्वी सर्वसहा एवं भगवान् परीषहोपसर्गान् सम्यक् सहत इति, तथा 'धुनाति' अपनयत्यष्टप्रकारं कर्मेति शेषः, तथा 'विगता' प्रलीना सबाह्याभ्यन्तरेषु वस्तुषु 'गृद्धिः' गाद्धर्यमभिलाषो यस्य स विगतगृद्धिः, तथा सन्निधानं सन्निधि
। स च द्रव्यसनिधि धनधान्यहिरण्यद्विपदचतुष्पदरूपः भावसन्निधिस्तु माया क्रोधादयो वा सामान्येन कषायास्तमुभयरूपमपि संनिधिं न करोति भगवान्, तथा 'आशुप्रज्ञः' सर्वत्र सदोपयोगात् न छद्मस्थवन्मनसा पर्यालोच्य पदार्थपरिच्छितिं विधत्ते, स एवम्भूतः तरित्वा समुद्रमिवापारं महाभवौधं चतुर्गतिकंसंसारसागरंबहुव्यसनाकुलं सर्वोत्तमंनिर्वाणमासादितवान्
पुनरपि तमेव विशिनष्ट-'अभयं' प्राणिनां प्राणरक्षारूपं स्वतः परतश्च सदुपदेशदानात् करोतीत्यभयंकरः, तथाऽटप्रकारकर्मविशेषेणेरयति-प्रेरयतीतिवीरः,तथा 'अनन्तम्' अपर्यवसानं नित्यं ज्ञेयानन्तत्वाद्वाऽनन्तंचक्षुरिव चक्षु-केवलज्ञानं यस्य स तथेति। मू. (३७७) कोहं च माणंच तहेव मायं, लोभं चउत्थं अज्झत्थदोसा।
एआणि वंता अरहा महेसी, न कुव्वईं पावन कारवेइ । वृ. किञ्चान्यत्-'निदानोच्छेदेन हि निदानिन उच्छेदो भवतीति न्यायात् संसारस्थितेश्च क्रोधादयः कषायाः कारणमत एतान् अध्यात्मदोषांश्चतुरोऽपि क्रोधादीन् कषायान् ‘वान्त्व' परित्यज्य असौ भगवान् ‘अर्हन्' तीर्थकृत् जातः, तथा महर्षि, एवं परमार्थतो महर्षित्वं भवति यद्यध्यात्मदोषा न भवन्ति, नान्यथेति, तथा न स्वतः ‘पापं' सावधमनुष्ठानं करोति नाप्यन्यैः कारयतीति । किञ्चान्यत्मू. (३७८) किरियाकिरियं वेणइयाणुवायं, अन्नाणियाणं पडियच ठाणं।
से सव्ववायं इति वेयइत्ता, उवट्ठिए संजमदीहरायं ॥ वृ. तथा स भगवान् क्रियावादिनामक्रियावादिनां वैनयिकानामज्ञानिकानां च 'स्थानं' पक्षमभ्युपगतमित्यर्थ, यदिवा-स्थीयतेऽस्मिन्निति स्थान-दुर्गतिगमनादिकं 'प्रतीत्य' परिच्छिद्य सम्यगव- बुध्येत्यर्थः, एतेषां च स्वरूपमुत्तरत्र न्यक्षेण व्याख्यास्यामः, लेशतस्त्विदं-क्रियैव परलोकसाधनायलमित्येवं वदितुं शीलं येषां ते क्रियावादिनः, तेषां हि दीक्षात एव क्रियारूपाया मोक्ष इत्येवमभ्युपगमः, अक्रियावादिनस्तु ज्ञानवादिनः, तेषां हि यथावस्थितवस्तुपरिज्ञानादेव मोक्षः, तथा चोक्तम् - ॥१॥ “पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः।
शिखी मुण्डी जटी वापि, सिद्धयते नात्र संशयः ।। तथा विनयादेवमोक्ष इत्येवं गोशालकमतानुसारिणो विनयेन चरन्तीति वैनयिका व्यवस्थिताः, तथाऽज्ञानमेवैहिकामुष्मिकायालमित्येवमज्ञानिका व्यवस्थिताः, इत्येवंरूप तेषामभ्यु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org