SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-६, १६१ 'शीलेन' चचारित्रेण-यथाख्यातेन श्रेष्ठः' प्रधानः ‘भूतिप्रज्ञः' प्रवृद्धज्ञानो भगवानिति ।। अपिचमू. (३७०) थणियं व सद्दाण अनुत्तरे उ, चंदो व ताराण महानुभावे । गंधेसु वा चंदनमाहु सेलु, एवं मुणीणं अपडिन्नमाहु ।। वृ.यथा शब्दानांमध्ये 'स्तनितं' मेघगर्जितं तद् 'अनुत्तरं प्रधानं, तुशब्दो विशेषणार्थः समुच्चयार्थोवा, 'तारकाणांच' नक्षणात्रांमध्ये यथा चन्द्रो महानुभावः सकलजननिर्वृत्तिकारिण्या कान्त्या मनोरमः श्रेष्ठः, 'गन्धेषु' इति गुणगुणिनोरभेदान्मतुब्लोपाद्वा गन्धवत्सुमध्ये यथा 'चन्दनं' गोशीर्षकाख्यंमलयजंवा तज्ज्ञाःश्रेष्ठमाहुः, एवं 'मुनीनां' महर्षीणां मध्ये भगवन्तं नास्यप्रतिज्ञा इहलोकपरलोकाशंसिनी विद्यते इत्यप्रतिज्ञस्तमेवम्भूतं श्रेष्ठमाहुरिति ॥ मू. (३७१) जहा सयंभू उदहीण सेटे, नागेसु वा धरणिंदमाहु सेढे । खोओदए वा रस वेजयंते, तवोवहाणे मुनिवेजयंते ।। वृ.अपिच-स्वयं भवन्तीति स्वयम्भूवोदेवाः ते तत्रागत्य रमन्तीति स्वयम्भूरमणः तदेवम् 'उदघीनां' समुद्राणां मध्ये यथा श्रेष्ठमाहुः । तथा 'खोओदए' इतिइक्षुरस इवोदकं यस्य स इक्षुरसोदकः स यथा रसमाश्रित्य वैजयन्तः' प्रधानः स्वगुणैरपरसमुद्राणांपताकेवोपरिव्यवस्थितः एवं 'तपउपधानेन' विशिष्टतपोविशेषेण मनुते जगतस्त्रिकालावस्थामिति 'मुनि' भगवान् 'वैजयन्तः' प्रधानः, समस्तलोकस्य महातपसा वैजयन्तीवोपरि व्यवस्थित इति । मू. (३७२) हत्थीसु एरावणमाहु नाए, सीहो मिगाणं सलिलाण गंगा। पक्खीसु वा गरुले वेणुदेवो, निव्वाणवादीणिह नायपुत्ते ॥ वृ. 'हस्तिषु' करिवरेषु मध्य यथा 'ऐरावणं' शक्रवाहनं 'ज्ञातं' प्रसिद्धं दृष्टान्तभूतं वा प्रधानमाहुस्तज्ज्ञाः, 'मृगाणां च श्वापदानांमध्ये यथा 'सिंहः' केसरीप्रधानः तथा भरतक्षेत्रापेक्षया 'सलिलानां' मध्ये यथा गङ्गासलिलं प्रधानभावमनुभवति । 'पक्षिषु' मध्ये यथा गरुत्मान् वेणुदेवापरनामा प्राधान्येन व्यवस्थितः, एवं निर्वाणंसिद्धिक्षेत्राख्यं कर्मच्युतिलक्षणं वा स्वरूपतस्तदुपायप्राप्तिहेतुतो वा वदितुं शीलं येषां ते तथा तेषां मध्ये ज्ञाता:-क्षत्रियास्तेषां पत्रः-अपत्यं ज्ञातपुत्रः-श्रीमन्महावीरवर्धमानस्वामी स प्रधान इति, यथावस्थितनिर्वाणार्थवादित्वादित्यर्थः॥ मू. (३७३) जोहेसुनाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाहु । खत्तीण सेढे जह दंतवक्के, इसीण सेढे तह वद्धमाणे ॥ वृ. अपिच-योधेषु मध्ये 'ज्ञातो' विदितो दृष्टान्तभूतो वा विश्वा-हस्त्यश्वरथपदातिचतुरङ्गबलसमेता सेना यस्य स विश्वसेनः-चक्रवर्ती यथाऽसौ प्रधानः, पुष्पेषु च मध्ये यथा अरविन्दं प्रधानमाहुः। तथा क्षतात् त्रायन्त इति क्षत्रियाः तेषांमध्ये दान्ता-उपशान्ता यस्य वाक्येनैव शत्रवः स दान्तवाक्यः-चक्रवर्ती यथाऽसौ श्रेष्ठः । तदेवं बहून् द्दष्टान्तान् प्रशस्तान् प्रदाधुना भगवन्तं दार्शन्तिकं स्वनामग्राहमाह-तथा ऋषीणां मध्ये श्रीमान् वर्धमानस्वामी श्रेष्ठ इति । तथाम. (३७४) दानान सेटुं अभयप्पयाणं, सच्चेसुवा अनवजं वयंति। तवेसु वा उत्तम बंभचेरं, लोगुत्तमे समणे नायपुत्ते॥ [211 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy