________________
१६०
सूत्रकृताङ्ग सूत्रम् १/६/-/३६५
श्राम्यतीति श्रमणस्तपोनिष्टप्तदेहो ज्ञाताः क्षत्रियास्तेषां पुत्रः श्रीमन्महावीरवर्द्धमानस्वामीत्यर्थः, सच जात्या सर्वजातिमद्भ्यो यशसा असेषयशस्विभ्यों दर्शनज्ञानाभ्यां सकलदर्शनज्ञानिभ्यः शीलेन समस्तशीलवद्द्भ्यः श्रेष्ठः - प्रधानः, अक्षरघटना तु जात्यादीनां कृतद्वन्द्वानामतिशायने अर्शआदित्वादच्प्रत्ययविधानेन विधेयेति ।
पुनरपि द्दष्टान्तद्वारेणैव भगवतो व्यावर्णनमाह
मू. (३६६) गिरिवरेवा निसहाऽऽययाणं, रुयए व सेट्टे वलयायताणं । तओवमे से जगभूइपन्ने, मुनीन मज्झे तमुदाहु पन्ने ॥
स
वृ. यथा 'निषधो' गिरिवरो गिरीणामायतानां मध्ये जम्बूद्वीपे अन्येषु वा द्वीपेषु दैर्येण 'श्रेष्ठः ' प्रधानः तथा-वलयायतानां मध्ये रुचक- पर्वतोऽन्येभ्यो वलयायतत्वेन यथा प्रधानः, हि रुचकद्वीपान्तर्वर्ती मानुषोत्तरपर्वत इव वृत्तायतः सङ्खेययोजनानि परिक्षेपेणेति । तथा स भगवानपि तदुपमः यथा तावायतवृत्तताभ्यां श्रेष्ठौ एवं भगवानपि जगति-संसारे भूतिप्रज्ञः- प्रभूतज्ञानः प्रज्ञया श्रेष्ठ इत्यर्थः, तथा अपरमुनीनां मध्ये प्रकर्षेण जानातीति प्रज्ञः एवं तत्स्वरूपविदः ‘उदाहुः’ उदाहृतवन्त उक्तवन्त इत्यर्थः ।
पू. (३६७)
अनुत्तरं धम्ममुईरइत्ता, अनुत्तरं झाणवरं झियाइं । सुसुक्क सुक्क अपगंडकं, संखिंदुएगंतवदातसुक्कं ।।
वृ. किञ्चान्यत्-नास्योत्तरः-प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरः तमेवम्भूतं धर्मं 'उत्' प्राबल्येन ‘ईरयित्वा’ कथयित्वा प्रकाश्य 'अनुत्तरं प्रधानं 'ध्यानवरं' ध्यानश्रेष्ठं ध्यायति, तथाहिउत्पन्नज्ञानो भगवान् योगनिरोधकाले सूक्ष्मं काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रियमप्रतिपाताख्यं तथा निरुद्धयोगश्चतुर्थं शुक्लध्यानभेदं व्युपरतक्रियमनिवृत्ताख्यं ध्यायति,
एतदेव दर्शयति- सुष्ठु शुक्लवत्शुक्लं ध्यानं तथा अपगतं गण्डम् अपद्रव्यं यस्य तदपगण्डं निर्दोषार्जुन सुवर्णवत् शुक्लं यदिवा अपगण्डम् उदकफेनं तत्तुल्यमिति भावः । तथा शङ्खेन्दुवदेकान्तावदातं शुभ्रं शुक्लं- शुक्लध्यानोत्तरं भेदद्वयं ध्याती । अपिच
मू. (३६८)
अनुत्तरग्गं परमं महेसी, असेसकम्मं स विसोहइत्ता । सिद्धिं गते साइमनंतपत्ते, नाणेण सीलेण य दंसणेण ॥ वृ. तथाऽसौ भगवान् शैलेश्यवस्थापादितशुक्लध्यानचतुर्थमेदानन्तरं साद्यपर्यवसानां सिद्धिगतिं पञ्चमीं प्राप्तः, सिद्धिगतिमेव विशिनष्टि अनुत्तरा चासौ सर्वोत्तमत्वादग्रयाच लोकाग्रव्यवस्थितत्वादनुत्तराग्र्या तां 'परमां' प्रधानां 'महर्षि' असावत्यन्तोग्रतपोविशेषनिष्टप्तदेहत्वाद् अशेषं कर्म-ज्ञानावरणादिकं 'विशोध्य' अपनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेन च क्षायिकेण सिद्धिगतिं प्राप्त इति मीलनीयम् ॥
मू. (३६९) रुक्खेसु जाते जह सामली वा, जस्सिं रतिं वेययती सुवन्ना । वनेसु वा नंदनमाहु सेट्ठ, नाणेण सीलेण य भूतिपन्ने ॥
वृ. पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह वृक्षेषु मध्ये यथा 'ज्ञातः' प्रसिद्धो देवकुरुव्यवस्थितः शाल्मलीवृक्षः, सच भवनपतिक्रीडास्थानं, 'यत्र' व्यवस्थिता अन्यतश्चागत्य 'सुपर्णा' भवनपतिविशेषा ‘रतिं' रमणक्रीडां 'वेदयन्ति' अनुभवन्ति, वनेषु च मध्ये यथा नन्दनं वनं देवानां क्रीडास्थानं प्रधानं एवं भगवानपि 'ज्ञानेन' केवलाख्येन समस्तपदार्थाविर्भावकेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org