________________
श्रुतस्कन्धः - १,
अध्ययनं - ६,
१५९
'पण्डकवैजयन्त' इति, पण्डकवनं शिरसि व्यवस्थितं वैजयन्तीकल्पं - पताकाभूतं यस्य स तथा, तथाऽसावूर्ध्वमुच्छ्रितो नवनवतिर्योजनसहस्राण्यघोऽपि सहमेकमवगाढ इति । तथामू. (३६२) पुट्ठे नभे चिट्ठइ भूमिवट्ठिए, जं सूरिया अनुपरिवट्ठयंति ।
से हेमवन्ने बहुनंदणे य, जंसी रतिं वेदयती महिंदा ॥
वृ. 'नभसि' 'स्पृष्टो' लग्नो नभो व्याप्य तिष्ठति तथा भूमिं चावगाह्य स्थित इति ऊर्ध्वाधस्तिर्यकूलोकसंस्पर्शी, यथा 'यं' मेरुं 'सूर्या' आदित्या ज्योतिष्का 'अनुपरिवर्त्तयन्ति' यस्य पार्श्वतो भ्रमन्तीत्यर्थः, तथाऽसौ 'हेमवर्णो' निष्टप्तजाम्बूनदाभः, तथा बहूनि चत्वारि नन्दनवनानि यस्य स बहुनन्दनवनः ।
तथाहि - भूमौ भद्रशालवनं ततः पञ्च योजनशतान्यारुह्य मेखलायां नन्दनं ततो द्विषष्टियोजनसहस्राणि पंचशताधिकान्यतिक्रम्य सौमनसं ततः षटत्रिशत्सहाण्यारुह्य शिखरे पण्डकवनमिति, तदेवमसौ चतुर्नन्दनवनाद्युपेतो विचित्रक्रीडास्थानसमन्वितः, यस्मिन महेन्दा अप्यागत्य त्रिदशालयाद्रमणीयतरगुणेन 'रतिं' रमणक्रीडां 'वेदयन्ति' अनुभवन्तीति ॥ मू. (३६३) से पव्वए सद्दमहप्पगासे, विरायती कंचणमट्टवन्ने । अनुत्तरे गिरिसु य पव्वदुग्गे, गिरीवरे से जलिएव भोमे ॥
वृ. अपिच-सः-मेर्वाख्योऽयं पर्वतो मन्दरो मेरु सुदर्शनः सुरगिरिरित्येवमादिभिः शब्दै महान् प्रकाशः-प्रसिद्धिर्यस्य स शब्दमहाप्रकाशो 'विराजते' शोभते, काञ्चनस्येव 'मृष्टः' श्लक्ष्णः शुद्धो वा वर्णो यस्य स तथा ।
एवं न विद्यते उत्तरः- प्रधानो यस्यासावनुत्तरः, तथा गिरिषु च मध्ये पर्वभिमेखलादिभिर्दष्ट्रापर्वतैर्वा 'दुर्गो' विषमः सामान्यजन्तूनां दुरारोहो 'गिरिवरः' पर्वतप्रधानः, तथाऽसौ मणिभिरौषधीभिश्च देदीप्यमानतया 'भौम इव' भूदेश इव ज्वलित इति । किञ्च
मू. (३६४)
महीइ मज्झमि ठिते नगिंदे, पन्नायते सूरियसुद्धलेसे । एवं सिरीए उ स भूरिवन्ने, मनोरमे जोयइ अचिमाली ।।
वृ.‘मह्यां' रत्नप्रभापृथिव्यां मध्यदेशे जम्बूद्वीपस्तस्यापि बहुमध्यदेशे सौमनसविद्युत्प्रभगन्धमादनमाल्यवन्तदंष्ट्रापर्वतचतुष्टयोपशोभितः समभूभागे दशसहस्रविस्तीर्णः शिरसि सहमेकमधस्तादपि दश सहस्राणि नवतियोजनानि योजनैकादशभागैर्दशभिरधिकानि विस्तीर्णः चत्वारिंशत् यौजनोच्छ्रितचूडोपशोभितो 'नगेन्द्रः' पर्वतप्रधानो मेरु प्रकर्षेण लोके ज्ञायते सूर्यवरशुद्धलेश्यः आदित्यसमानतेजाः, 'एवम्' अनन्तरोक्तप्रकारया श्रिया तुशब्दाद्विशिष्टतरया सः -मेरु 'भूरिवर्णः' अनेकवर्णो अनेकवर्णरत्नोपशोभितत्वात् मनः - अन्तःकरणं रमयतीति मनोरमा 'अर्चिमालीव' आदित्य इव स्वतेजसा द्योतयति दशापि दिशः प्रकाशयतीति ॥
मू. (३६५)
सुदंसणस्सेव जसो गिरिस्स, पवुच्चई महतो पव्वयस्स । एतोवमे समणे नायपुत्ते, जातीजसोदंसणनाणसीले ॥
वृ. साम्प्रतं मेरुदृष्टान्तोपक्षेपेण दार्शन्तिकं दर्शयत-एतदनन्तरोक्तं 'यशः ' कीर्तनं सुदर्शनस्य मेरुगिरेः महापर्वतस्य प्रोच्यते, साम्प्रतमेतदेव भगवति दार्शन्तिके योज्यते - एषा - अनन्तरोक्तोपमायस्य स एतदुपमः, कोऽसौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org