________________
१५८
सूत्रकृताङ्ग सूत्रम् १/६/-/३५७
अग्नि स एव प्रज्वलितत्वात् इन्द्रो यथाऽसौ तमोऽपनीय प्रकाशयति, एवमसावपि भगवानज्ञानतमोऽपनीय यथावस्थितपदार्थप्रकाशनं करोति किञ्चमू. (३५८) अनुत्तरं धम्ममिणं जिणाणं, नेया मुनी कासव आसुपन्ने ।
इंदेव देवाण महानुभावे, सहस्सनेता दिविणं विसिट्टे ॥ · वृ.नास्योत्तरोऽस्तीत्यनुत्तरस्तमिममनुत्तरंधर्मं जिनानाम् ऋषभादितीर्थकृतांसम्बन्धिनमयं 'मुनि' श्रीमान् वर्धमानाख्यः ‘काश्यपः' गोत्रेण 'आशुप्रज्ञः' केवलज्ञानी उत्पन्नदिव्य- ज्ञानो 'नेता' प्रणेतेति, ताच्छीलिकस्तृन्, तद्योगे न लोकाव्ययनिष्ठे' त्यादिना षष्ठीप्रतिषेधाद्धर्ममित्यत्र कर्मणि द्वितीयैव, यथा चेन्द्रो 'दिवि' स्वर्गे देवसहाणां 'महानुभावो' महाप्रभाववान् ‘णम्' इति वाक्यालङ्गारे तथा 'नेता' सप्रणायको विशिष्टो' रूपबलवर्णादिभिःप्रधानःएवं भगवानपि सर्वेभ्यो विशिष्टः प्रणायको महानुभावश्चेति ॥ मू. (३५९) से पन्नया अक्खयसागरे वा, महोदही वावि अनंतपारे ।
अनाइले वा अकसाइ मुक्के, सक्केव देवाहिवई जुईमं॥ _वृ.अपिच-असौ भगवान् प्रज्ञायतेऽनयेतिप्रज्ञा तया 'अक्षयः' नतस्य ज्ञातव्येऽर्थेबुद्धिः प्रतिक्षीयतेप्रतिहन्यतेवा, तस्य हि बुद्धिः केवलज्ञानाख्या, सा च साद्यपर्यवसाना कालतो द्रव्यक्षेत्रभावैरप्यनन्ता, सर्वसाम्येन दृष्टान्ताभावाद्, एकदेशेन त्वाह-यथा 'सागर' इति, अस्यचाविशिष्टत्वाविशेषणमाह-'महोदधिरिव' स्वयम्भूरमणइवानन्तपारः यथाऽसौ विस्तीर्णो गम्भीरजलोऽक्षोभ्यश्च, एवं तस्यापि भगवतो विस्तीर्णा प्रज्ञा स्वयम्भूरमणानन्तगुणा गम्भीराऽक्षोभ्या च।
यथाच असौसागरः ‘अनाविलः' अकलुषजलः एवं भगवानपितथाविधकर्मले-शाभावादकलुषज्ञान इति, तथा-कषाया विद्यन्ते यस्यासौ कषायी न कषायीअकषायी, तथा ज्ञानावरणीयादिकर्मबन्धनाद्वियुक्तोमुक्तः, भिक्षुरितिक्वचित्पाठः, तस्यायमर्थ-सत्यपिनिःशेषा-न्तरायक्षये सर्वलोकपूज्यत्वेचतथापि भिक्षामात्रजीवित्वात् भिक्षुरेवासौ,नाक्षीणमहान-सादिलब्धिमुपजीवतीति, तथा शक्र इव देवाधिपति 'द्युतिमान्' दीप्तिमानिति । किञ्च
मू. (३६०) से वीरिएणं पडिपुन्नवीरिए, सुदंसणे वा नगसव्वसेठे। . सुरालए वासिमुदागरे से, विरायए नेगगुणोववेए॥
वृ. 'स' भगवान् ‘वीर्येण' औरसेन बलेन धृतिसंहननादिभिश्च वीर्यान्तरायस्य निशेषतः क्षयात् प्रतिपूर्णवीर्यः, तथा 'सुदर्शनो' मेरूजम्बूद्वीनाभिभूतः स यथा नगानां-पर्वतानां सर्वेषां श्रेष्ठः-प्रधानः तथा भगवानपि वीर्येणान्यैश्च गुणैः सर्वश्रेष्ठ इति, तता यथा 'सुरालयः' स्वर्गस्तन्निवासिनां मुदाकरो' हर्षजनकः प्रशस्तवर्णरसगन्धस्पर्शप्रभावादिभिर्गुणैरुपेतो 'विराजते' शोभते, एवं भगवानप्यनेकैर्गुणैरुपेतो विराजत इति, यदिवा-यथा त्रिदशालयो मुदाकरोऽनेकैर्गुणैरुपेतो विराजत इति एवमसावपि मेरुरिति । मू. (३६१) सयं सहस्साण उ जोयणाणं, तिकंडगे पंडगवेजयंते ।
से जोयणे नवनवते सहस्से, उद्धस्सितो हे? सहस्समेगं॥ वृ. पुनरपि दृष्टान्तभूतमेरुवर्णनायाह-स मेरुयोजनसहनाणां शतमुच्चैस्त्वेन, तथा त्रीणि कण्डान्यस्येति त्रिकण्डः, तद्यथा-भौमं जाम्बूनदं वैडूर्यमिति, पुनरप्यसावेव विशेष्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org