________________
श्रुतस्कन्धः-१, अध्ययनं-६,
१५७
वृ.साम्प्रतंसुधर्मस्वामीतद्गुणान् कथयितुमाह-ऊर्ध्वमस्तिर्यक्षुसर्वत्रैवचतुर्दशरज्ज्वात्मके लोकेयेकेचनत्रस्यन्तीति त्रसास्तेजोवायुरूपविकलेन्द्रियपञ्चेन्द्रियभेदात्रिधा, तथायेच स्थावराः' पृथिव्यम्बुवनस्पतिभेदात् त्रिविधाः, एत उच्छवासादयः प्राणा विद्यन्ते येषां ते प्राणिन इति, अनेन च शाक्यादिमतनिरासेन पृथिव्याघेकेन्द्रियाणामपि जीवत्वमावेदितं भवति।
स भगवांस्तान् प्राणिनः प्रकर्षेण केवलज्ञानित्वात् जानातीति प्रज्ञः स एव प्राज्ञो, नित्यानित्याभ्यांद्रव्यार्थपर्यायार्थाश्रयणात 'समीक्ष्य' केवलज्ञानेनार्थानपरिज्ञायप्रज्ञापनायोग्यानाहेत्युत्तरेण सम्बन्धः, तथा सप्राणिनांपदार्थाविर्भावनेनदीपवत् दीपः यदिवा-संसारार्णवपतितानां सदुपदेशप्रदानत आश्वासहेतुत्वात् द्वीप इव द्वीपः, स एवम्भूतः संसारोत्तारणसमर्थं 'धर्म' श्रुतचारित्राख्यं सम्यक् इतं-गतं सदनुष्ठानतया रागद्वेषरहितत्वेन समतया वा । ___ तथा चोक्तम् “जहापुण्णस्स कत्थइ तहा तुच्छस्स कत्थइ" इत्यादि, समंवा-धर्मम् उत्प्राबल्येन आह-उक्तवान् प्राणिनामनुग्रहार्थं न पूजासत्कारार्थमिति किञ्चान्यत्मू. (३५६) से सव्वदंसी अभिभूयनाणी, निरामगंधे धिइमं ठितप्पा।
अनुत्तरे सव्वजगसि विजं, गंथा अतीते अभए अणाऊ । वृ. 'स' भगवान् सर्वं जगत्चराचरंसामान्येन द्रष्टुंशीलमस्य स सर्वदर्शी, तथा अभिभूय' पराजित्य मत्यादीनि चत्वार्यपिज्ञानानि यद्वर्तते ज्ञानं केवलाख्यं तेन ज्ञानेन ज्ञानी, अनेन चापरतीर्थाधिपाधिकत्वमावेदितं भवति, 'ज्ञानक्रियाभ्यां मोक्ष' इति कृत्वा तस्य भगवतो ज्ञानं प्रदर्श्य क्रियांदर्शयितुमाह-निर्गतः-अपगत आमः-अविशोधिकोट्याख्यः तथा गन्धो-विशोधिकोटिरूपो यस्मात् स भवति निरामगन्धः, मूलोत्तरगुणभेदभिन्नां चारित्रक्रियां कृतवानित्यर्थः, तथाऽसह्यपरीषहोपसर्गाभिद्रुतोऽपि निष्प्रकम्पतया चारित्रे धृतिमान् तथा –
स्थितो व्यवस्थितोऽशेषकर्मविगमादात्मस्वरूपे आत्मा यस्य स भवति स्थितात्मा, एतच्च ज्ञानक्रिययोः फलद्वारेण विशेषणं, तथा-नास्योत्तरं-प्रधानं सर्वस्मिन्नपि जगति विद्यते (यः) स तथा, विद्वानिति सकलपदार्थानां करतलामलकन्यायेन वेत्ता, तथा बाह्यग्रन्थात्सचित्तादिभेदादान्तराच्च कर्मरूपाद् ‘अतीतो' अतिक्रान्तो ग्रन्थातीतो-निर्ग्रन्थ इत्यर्थ, तथा न विद्यतेसप्तप्रकारमपि भयं यस्यासावभयः समस्तभयरहित इत्यथः, तथा न विद्यतेचतुर्विधमप्यायुर्यस्य स भवत्यनायुः, दग्धकर्मबीजत्वेन पुनरुत्पत्तेरसंभवादिति ।। मू. (३५७) से भूइपन्ने अनिएअचारी, ओहंतरे धीरे अनंतचक्खू ।
अनुत्तरंतप्पति सूरिए वा, वइरोयणिंदे व तमं पगासे ।। वृ.अपिच-भूतिशब्दो वृद्धौ मङ्गले रक्षायां च वर्तते, तत्र 'भूतिप्रज्ञः' प्रवृद्धप्रज्ञः अनन्तज्ञानवानित्यर्थ, तता-भूतिप्रज्ञो जगद्रक्षाभूतप्रज्ञः एवं सर्वमङ्गलभूतप्रज्ञः इति, तथा 'अनियतम्' अप्रतिबद्धं परिग्रहायोगाच्चरतुंशीलमस्यासावनियतचारी तथौघ-संसारसमुद्रंतरितुंशीलमस्य स तथा, तथा धी:-बुद्धिस्तया राजत इति धीरः परीषहोपसर्गाक्षोभ्यो वा धीरः।
तथाअनन्तं-ज्ञेयानन्ततया नित्यतया वाचक्षुरिव चक्षुः-केवलज्ञानंयस्यानन्तस्यवालोकस्य पदार्थप्रकाशकतया चक्षुर्भूतो यः स भवत्यनन्तचक्षु, तथा यथा-सूर्य 'अनुत्तरं सर्वाधिकं तपति न तस्मादधिकस्तापेन कश्चिदस्ति, एवमसावपि भगवान् ज्ञानेन सर्वोत्तम इति, तथा 'वैरोचनः'
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only