SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५६ सूत्रकृताङ्ग सूत्रम् १/६/-/३५२ साचेयम् - अनन्तरोक्ता बहुविधां नरकविभक्ति श्रुत्वा संसारादुद्विग्नमनसः केनेयं प्रतिपादितेत्येतत् सुधर्मस्वामिनम् 'अप्राक्षुः' पृष्टवन्तः 'णम्' इति वाक्यालङ्कारे यदिवा जम्बूस्वामी सुधर्मस्वामिनमेवाहयथा केनैवंभूतो धर्म संसारोत्तारणसमर्थः प्रतिपादित इत्येतद्बहवो मां पृष्टवन्तः, तद्यथा - 'श्रमणा' निर्ग्रन्थादयः तथा 'ब्राह्मणा' ब्रह्मचर्याद्यनुष्ठाननिरताः, तथा 'अगारिणः' क्षत्रियादयो ये च शाक्यादयः परतीर्थिकास्ते सर्वेऽपि पृष्टवन्तः, किं तदिति दर्शयति- स को योऽसावेनं धर्मं दुर्गतिप्रसृतजन्तुधारकमेकान्तहितम् 'आह' उक्तवान् 'अनीध्शम्' अनन्यसध्शम् अतुलमित्यर्थः तथा-साध्वी चासौ समीक्षा च साधुसमीक्षायधावस्थिततत्त्वपरिच्छित्तिस्तया, यदिवा साधुसमीक्षया-समतयोक्तवानिति । 1 मू. (३५३) कहं च नाणं कह दंसणं से, सीलं कहं नायसुतस्स आसी ? । जाणासि णं भिक्खु जहातहेणं, अहासुतं बूहि जहा निसंतं ॥ वृ. तथा तस्यैव ज्ञानादिगुणावगतये प्रश्नमाह-'कथं' केन प्रकारेण भगवान् ज्ञानमवाप्तवान् ? किम्भूतं वा तस्य भगवतो ज्ञानं विशेषाववोधकं ?, किम्भूतं च 'से' तस्य 'दर्शनं' सामान्यार्थप-रिच्छेदकं? ‘शीलं च' यमनियमरूपं कीद्दक् ? ज्ञाताः क्षत्रियास्तेषां 'पुत्रो' भगवान् वीरवर्धमा- नस्वामी तस्य 'आसीद्' अभूदिति । यदेतन्मया पृष्टं तत् 'भिक्षो !' सुधर्मस्वामिन् याथातथ्येन त्वं ‘जानीषे' सम्यगवगच्छसि 'णम्' इति वाक्यालङ्कारे तदेतत्सर्व यथाश्रुतं त्वया श्रुत्वा च यथा 'निशान्त' मित्यवधारितं यथा दृष्टं तथा सवं 'ब्रूहि' आचक्ष्वेति । स एवं पृष्टः सुधर्मस्वामी श्रीमन्महावीरवर्धमानस्वामिगुणान् कथयितुमाहमू. (३५४) खेयन्नए से कुसलासुपन्ने अनंतनाणी य अनंतदंसी । जसंसिणो चक्खुपहे ठियस्स जाणाहि धम्मं च धिइंच पेहि ॥ वृ. सः - भगवान् चतुस्त्रिंदतिशयसमेतः खेदं संसारान्तर्वर्तिनां प्राणिना कर्मविपाकजं दुःखं जानातीति खेदज्ञो दुःखापनोदनसमर्थोपदेशदानात्, यदिवा 'क्षेत्रज्ञो' यथावस्थितात्मस्वरूपपरिज्ञानादात्मज्ञ इति, अथवा क्षेत्रम् - आकाशं तज्जानातीति क्षेत्रज्ञो लोकालोकस्वरूपपरिज्ञातेत्यर्थः, तथा भावकुशान्-अष्टविधकर्मरूपान् लुनाति-छिनत्तीति कुशलः प्राणिनां कर्मोच्छित्तये निपुण इत्यर्थ: । आशु शीघ्रं प्रज्ञा यस्यासावाशुप्रज्ञः सर्वत्र सदोपयोगाद्, न छद्मस्थ इव विचिन्त्य जाना - तीति भावः, महर्षिरिति क्वचित्पाठः, महांश्चासावृषिश्च महर्षि अतयन्तोग्रतपश्चरणानुष्ठायित्वादतुल- परीषहोपसर्गसहनाश्चेति, तथा अनन्तम्- अविनाश्यनन्तपदार्थपरिच्छेदकं वा ज्ञानंविशेषग्राहकं यस्यासावनन्तज्ञानी, एवं सामान्यार्थपरिच्छेदकत्वेनानन्तदर्शी । तदेवम्भूतस्यभगवतो यशो नृसुरासुरातिशाय्यतुलं विद्यते यस्य स यशस्वी तस्य, लोकस्य 'चक्षुपथे' लोचनमार्गे भवस्थकेवल्यवस्थायां स्थितस्य, लोकानां सूक्ष्मव्यवहितपदार्थाविर्भावनेन चक्षुर्भूतस्य वा 'जानिहि' अवगच्छ 'धर्मं' संसारोद्धरणस्वभावं, तत्प्रणीतां वा 'प्रेक्षस्व' सम्यक्कुशाग्रीय- या बुद्धया पर्यालोचयेति, यदिवा- तैरेव श्रमणादिभिः सुधर्मस्वाम्यभिहितो यथा त्वं तस्य भगवतो यशस्विनश्चक्षुष्पथे व्यवस्थितस्य धर्मं धृतिं च जानीषे ततोऽस्माकं 'पेहि' त्ति कथयेति मू. (३५५) उडूढं अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा । से निच्चहि समिक्ख पन्ने, दीवे व धम्मं समियं उदाहु ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy