________________
श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशकः - नि. [७७] कप्पंति कागिणीमंसगाणि छिंदंति सीहपुच्छाणि।
खावंति य नेरइए महकाला पावकम्मरए । वृ.अपिच-महाकालाख्यानरकपालाः पापकर्मनिरता नारकान्नानाविधैरुपायैः कदर्थयन्ति, तद्यथा - काकिणीमांसकानि श्लक्ष्णमांसखण्डानि ‘कल्पयन्ति' नारकान् कुर्वन्ति, तथा 'सीहपुच्छाणि तिपृष्ठीवर्धास्तांश्छिन्दन्ति, तथा येप्राक्मांसाशिनोनारका आसन्तान्स्वमांसानिखादयन्तीति नि. [७८] हत्थे पाए ऊरू बाहुसिरापायअंगमंगाणि ।
छिंदंति पगामंतू असि नेरइए निरयपाला ।। वृ.अपिच-असिनामानोनरकपाला अशुभकर्मोदयवर्तिनोनारकानेवंकदर्थयन्ति, तद्यथाहस्तपादोरूबाहुशिरःपावदिीन्यङ्गप्रत्यङ्गानि छिन्दन्ति 'प्रकामम्' अत्यर्थं खण्डयन्ति, तुशब्दोऽपरदुःखोत्पादनविशेषणार्थ इति । नि. [७९] कण्णोट्ठणासकरचरणदसण?णफुग्गऊरूबाहूणं ।
छेयणभेयणसाडण असिपत्तधणूहि पाडंति ।। वृ.तथा-असिप्रधानाः पत्रधनुर्नामानोनरकपालाअसिपत्रवनं बीभत्संकृत्वातत्रछायार्थिनः समागतान् नारकान् वराकान् अस्यादिभि पाटयन्ति, तथा कर्णौष्ठनासिकाकरचरणदशनस्तनस्फिगूरुबाहूनां छेदनभेदनशातनादीनि विकुर्वितवाताहतचलिततरुपातितासिपत्रादिना कुर्वन्तीति, तदुक्तम् - ॥१॥ “छिन्नपादभुजस्कन्धाश्छिन्नकोष्ठनासिकाः ।
भिन्नतालुशिरोमेण्द्रा, भिन्नाक्षिहृदयोदराः ।। नि. [८०] कुम्भीसु य पयणेसु य लोहियसु य कंदुलोहिकुंभीसु ।
कुंभी य नरयपाला हणंति पाडं ति नरएसु॥ वृ. किञ्चान्यत्-कुम्भिनामानो नरकपाला नारकान्नरकेषु व्यवस्थितान् निघ्नन्ति, तथा पाचयन्ति, क्वेति दर्शयति-'कुम्भीषु' उष्ट्रिकाकृतिषुतथा पचनेषु' कडिल्लकाकृतिषुतथा 'लौहीषु' आयसभान- विशेषेषु कन्दुलोहिकुम्भीषु कन्दुकानामिव अयोमयीषु कुम्भीषुकोष्ठिकाकृतिषु एवमादिभाज-नविशेषेषु पाचयन्ति । नि. [८१] तडतडतडस्स भज्जंति भज्जणे कलंबुवालुगापट्टे ।
वालूगा नेरइया लोलंती अंबरतलंमि ।। वृ.तथा-वालुकाख्याः परमाधार्मिका नारकानत्राणांस्तप्तवालुकाभृतभाजने चणकानिव तडतडित्तिस्फुटतः ‘भज्जति' भृजन्ति-पचन्ति, क्व? इत्याह-कदम्बपुष्पाकृतिवालुका कदम्बवालुका तस्याः पृष्ठम्उपरितलं तस्मिन् पातयित्वा अम्बरतले च लोलयन्तीति । नि. [८२] पूयरुहिरकेसद्विवाहिणी कलकलेंतजलसोया।
वेयरणिनिरयपाला नेरइए ऊ पवाहंति ।। वृ. किञ्चान्यत्-वैतरणीनामानो नरकपाला वैतरणी नदी विकुर्वन्ति, सा च पूयरुधिरकेशास्थिवाहिनीमहाभयानका कलकलायमानजलश्रोतातस्यांच क्षारोष्णजलायामतीवबीभत्सदर्शनायां नारकान् प्रवाहयन्तीति । तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org