SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १४० सूत्रकृताङ्ग सूत्रम् १/५/-/२९९/नि. [८३] नि. [८३] कति करकएहिं तच्छिति परोप्परं परसुएहिं । सिंबलितरुमारुहंती खरस्सरा तत्थ नेरइए। वृ.-खरस्वराख्यास्तुपरमाधार्मिका नाराकनेवंकदर्थयन्ति, तद्यथा-क्रकचपातैर्मध्यं मध्येन स्तम्भमिवसूत्रपातानुसारेण कल्पयन्ति-पाटयन्ति तथा परशुमिश्च तानेव नारकान् ‘परस्परम्' अन्योऽन्यं तक्षयन्ति सर्वशो देहावयवापनयनेनतनून कारयन्ति, तथा शामलीं वज्रमयभीषणकण्टकाकुलां खरस्वरै आरटतो नारकानारोहयन्ति पुनरारूढानाकर्षयन्तीति । नि. [८४] भीए य पलायंते संमततो तत्थ ते निरंभंति । पसुणो जहा पसुवहे महधोसा तत्त नेरइए। वृ. अपिच-महाघोषाभिधाना भवनपत्यसुराधमविशेषाः परमाधार्मिका व्याधा इव परपीडोत्पा-दनेनैवातुलं हर्षमुद्वहन्तः क्रीडया नानाविधैरुपायैरिकान्कदर्थयन्ति, तांश्च भीतान् प्रपलायमानान्मृगानिव ‘समन्ततः' सामस्त्येन तत्रैव' पीडोत्पादनस्थाने निरुम्भन्ति प्रतिबन्धन्ति ‘पशून्' बस्तादिकान यथा पशुवधे समुपस्थिते नश्यतस्तद्वधकाः प्रतिबन्धन्त्येवंतत्र नरकावासे नारकानिति गतोनामनिष्पन्ननिक्षेपः, अधुना सूत्रानुगमेअस्खलितादिगुणोपेतंसूत्रमुच्चारणीयं, तच्चेदम् -:अध्ययनं-५ उद्देशकः-१:मू. (३००) पुच्छिस्सऽहं केवलियं महेसिं, कहं भितावा नरगा पुरत्था? । अजाणओ मे मुनिबूहि जाणं, कहिं न बाला नरयं उविंति ? ॥ वृ.जम्बूस्वामिना सुधर्मस्वामी पृष्टः, तद्यथा-भगवन्! किंभूतानरकाः? कैर्वाकर्मभिरसुमतां तेषुत्पादः? कीह्श्यो वा तत्रत्या वेदना ? इत्येवं पृष्टः सुधर्मस्वाम्याह-यदेतद्भवताऽहं पृष्टस्तदेतद् 'केवलिनम्' अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदिनं महर्षिम् उग्रतपश्चरणकारिणमनुकूलप्रतिकूलोपसर्गसहिष्णुं श्रीमन्महावीरवर्धमानस्वामिनं परस्तात्पूर्वं पृष्टवानहमस्मि । यथा 'कथं' किम्भूता अभितापान्विता 'नरका' नरकावासा भवन्तीत्येतदजानतो 'मे' मम हे मुने 'जानन्' सर्वमेव केवलज्ञानेनावगच्छन् ‘ब्रूहि' कथय, 'कथं नु' केन प्रकारेण किमनुष्ठायिनो नुरिति वितर्के 'बाला' अज्ञा हिताहितप्राप्तिपरिहारविवेकरहितास्तेषु नरकेषूप-सामीप्येन तद्योग्यकर्मोपादानतया 'यान्ति' गच्छन्ति किम्भूताश्च तत्र गतानां वेदनाः प्रादुष्यन्तीत्येतच्चाहं 'पृष्टवानिति॥ मू. (३०१) एवं मए पुढे महानुभावे, इणमोऽब्बवी कासवे आसुपन्ने । पवेदइस्संदुहमट्टदुग्गं, आदीनियंदुक्कडियं पुरत्था । वृ.तथा एवम् अनन्तरोक्तंमया विनेयेनोपगम्यपृष्टोमहांश्चतुस्त्रिंशदतिशयरूपोऽनुभावोमाहास्यं यस्य स तथा, प्रश्नोत्तरकालंच ‘इदं वक्ष्यमाणं, मो इति वाक्यालङ्कारे, केवलालोकेन परिज्ञाय मप्रश्ननिर्वचनम् 'अब्रवीत्' उक्तवान् कोऽसौ ? -'काश्यपो' वीरो वर्धमानस्वामी आशुप्रज्ञः सर्वत्र सदोपयोगात्, स चैवं मया पृष्टो भगवानिदमाह-यथा यदेतद्भवता पृष्टस्तदहं 'प्रवेदयिष्यामि' कथयिष्याम्यग्रतो दत्तावधानः शृण्विति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy