________________
१३८
सूत्रकृताङ्ग सूत्रम् १/५/-/२९९/नि. [७०]
नारकान् कदर्थयन्ति । किञ्चान्यत् । नि. [७१] ओहयहये यतहियं निस्सन्ने कप्पणीहि कप्पंति।
विदुलगचडुलगछिन्ने अंबरिसी तत्थ नेरइए। वृ. उप-सामीप्येन मुद्रारादिना हता उपहता : पुनरप्युपहता एव खङ्गादिना हता उपहतहतास्तान्नारकारन् ‘तस्यां नरकपृथिव्यां निसंज्ञकान् नष्टसंज्ञान्मूर्छितान्सतःकर्पणीभिः 'कल्पयन्ति' छिन्दन्तीतश्चेतश्च पाटयन्ति, तथा 'द्विदलचटुलकच्छिन्नानि ति मध्यपाटितान् खण्डशश्छिन्नांश्च नारकांस्तत्र-नरकपृथिव्यामम्बर्षिनामानोऽसुराः कुर्वन्तीति, तथा-'अपुण्यवतां' तीव्रासातोदये वर्तमानानां नारकाणां श्यामाख्याः परमाधार्मिका एतच्चैतच्च प्रवर्तयन्ति । नि. [७२] साडणपाडणतोडण बंधणरक्षुल्लयप्पहारेहिं ।
सामा नेरइयाणं पवत्तयंती अपुण्णाणं॥ वृ. तद्यथा-'शातनम्' अङ्गोपाङ्गानां छेदनं, तथा 'पातनं' निष्कुटादधो वज्रभूमौ प्रक्षेपः तथा 'प्रतोदनं' शूलादिनातोदनं व्यधनं, सूच्यादिनानासिकादौवेधस्तथा रज्वादिनाक्रूरकर्मकारिणं बन्धन्ति, तथा ताग्विधलताप्रहारैस्ताडयन्त्येवं दुःखोत्पादनंदारुणंशातनपातनवेधनबन्धनादिकं बहुविधं प्रवर्तयन्ति' व्यापारयन्तीति, अपिच-तथा-सबलाख्या नरकपालास्तथाविधकर्मोदयसमुत्पन्नक्रीडापरिणामा अपुण्यभाजां नारकाणां यत्कुर्वन्ति तद्दर्शयति । नि. [७३] अंतगयफिप्फिसाणि य हिययंकालेज फुप्फुसे वक्के ।
सबला नेरतियाणं कड्ढेत तहिं अपुन्नाणं ।। वृ.तद्यथा-अन्त्रगतानियानि फिप्फिसानि-अन्त्रान्तर्वर्तीनि मांसविशेषरूपाणि तथा हृदयं पाटयन्ति तथा तद्गतं 'कालेजं तिहृदयान्तर्वर्तिमांसखण्डं तथा 'फुप्फुसे'त्ति उदरान्तर्वर्तीन्यन्त्रविशेषरूपाणितथा वल्कलान्' वर्धान् आकर्षयन्ति, नानाविधैरुपायैरशरणानां नारकाणांतीब्रां वेदनामुत्पादयन्तीति। नि. [७४] असिसत्तिकोंततोमरसूलतिसूलेसु सूइचियगासु ।
पोयंति रुद्दकम्मा उ नरगपाला तहिं रोद्दा ॥ वृ. अपिच-तथा अन्वर्थाभिधाना रौद्राख्या नरकपाला रौद्रकर्माणो नानाविधेष्वसिशक्त्यादिषु प्रहरणेषु नारकानशुभकर्मोदयवर्तिनः प्रोतयन्तीति। नि. [७५] भंजंति अंगमंगाणि ऊरूबाहूसिराणि करचरणे।
कति कप्पणीहिं उवरुद्दा पावकम्मरया। वृ. तथा उपरुद्राख्याः परमाधार्मिका नारकाणामङ्गप्रत्यङ्गानि शिरोबाहरुकादीनि तथा करचरणांश्च ‘भञ्जन्ति' मोटयन्ति पापकर्माणः कल्पनीभि 'कल्पयन्ति' पाटयन्ति, तन्नास्त्येव दुःखोत्पादनं यत्ते न कुर्वन्तीति । नि. [७६] मीरासु सुंठएसु य कंडूसुंय पयंडएसुय पयंति ।
कुंभीसुय लोहिएसु य पयंति काला उनेरतिए॥ वृ.अपिच-तथा कालाख्यानरकपालासुरा ‘मीरासु'दीर्घचुल्लीषुतथा शुष्ठकेषुतथाकन्दुकेषु जीवन्मत्स्यानिव पचन्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org