________________
श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशकः -
षटप्रकारा, तत्रौदयिको गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुस्येकैकैकैकषङभेदक्रमेणैकविंशतिभेदभिन्नः, तथौपशमिकः सम्यक्त्वचारित्रभेदाद् द्विविधः ।
१३७
क्षायिकः सम्यकत्वचारित्रज्ञानदर्शनदानलाभभोगोपभोगवीर्यभेदान्नवधा, क्षायोपशमिकस्तु ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्च भेदाः तथा सम्यक्त्वचारित्रसंयगासंयमभेदक्रमेणाष्टादशधेति, पारिणामिको जीवभव्याभव्यत्वादिरूपः सान्निपातिकस्तु द्विकादिभेदात् षड्विंशतिभेदः, संभवी तु षड्विधोऽयमेव गतिभेदात्पञ्चदशधेति । अजीवभावविभक्तिस्तु मूर्तानां वर्णगन्धरसस्पर्शसंस्थानपरिणामः अमूर्तानां गतस्थित्यवगाहवर्तनादिक इति, साम्प्रतं समस्तपदापेक्षया नरकविभक्तिरिति नरकाणां विभागो विभक्तिस्तामाहपुढवीफासं अन्नानुवक्कम निरयवालवहणं च । तिसु वेदेति अताणा अनुभागं चेव सेसासु ।।
नि. [ ६७ ]
पृथिव्याः-शीतोष्णरूपायास्तीव्रवेदनोत्पादको यः स्पर्श-सम्पर्क पृथिवीसंस्पर्शस्तमनुभवन्ति, तमेव विशिनष्टि- अन्येन देवादिना उपक्रमितुम्-उपशमयितुं यो न शक्यते सोऽन्यानुपक्रमस्तम्, अपराचिकित्स्यमित्यर्थ, तमेवम्भूतमपरासाध्यं पृथिवीस्पर्शं नारकाः समनुभवन्ति, उपलक्षणार्थत्वाच्चास्य रूपरसगन्धस्पर्शशब्दानप्येकान्तेनाशुभान्निरुपमाननुभवन्ति ।
तथा नरकपालैः पञ्चदशप्रकारैः परमाधार्मिकैः कृतं मुद्गरासिकुन्तक्रकचकुम्भीपाकादिकं वधमनुभवन्त्याद्यासु 'तिसृषु' रत्नशर्करावालुकाख्यासु पृथिवीषु स्वकृतकर्मफलभुजो नारका ‘अत्राणा' अशरणाः प्रभूतकालं यावदनुभवन्ति, 'शेषासु' चतसृषु पृथिवीषु पङ्कघूमतमोमहातमःप्रभाख्यासु अनुभावमेव परमाधार्मिकनरकपालाभावेऽपि स्वत एव तत्कृतवेदनायाः सकाशाद्यस्तीव्रतरोऽनुभावो विपाको वेदनासमुदघातस्तमनुभवन्ति परस्परोदीरितदुःखाश्च भवन्तीति । साम्प्रतं परमाधार्मिकानामाद्यासु तिसृषु पृथिवीषु वेदनोत्पादकान् स्वनामग्राहं दर्शयितुमाहनि. [ ६८ ] अंबे अंबरिसी चेव, सामे य सबलेवि य । रोद्दोवरुद्द काले य, महाकालेत्तिआवरे ॥ असिपत्ते धणुं कुंभे, वालु वेयरणीवि य । खरस्सरे महाघोसे, एवं पन्नरसाहिया ॥
नि. [ ६९ ]
गाथाद्वयं प्रकटार्थम्, एवं ते चाम्बइत्यादयः परमाधार्मिका याक्षां वेदनामुत्पादयन्ति प्रायोऽन्वर्थसंज्ञत्वात्ताध्शाभिधाना एव द्रष्टव्या इति, साम्प्रतं स्वाभिधानापेक्षया यो यां वेदना परस्परोदीरणदुःखं चोत्पादयति तां दर्शयितुमाह
नि. [ ७०] धाडेंति य हार्डेति य हणंति विंधंति तह निसुंभंति । मुंचति अंबरतले अंबा खलु तत्थ नेरइया ।।
वृ. तत्राम्बाभिधानाः परमाधार्मिकाः स्वभवनान्नरकावासं गत्वा क्रीडया नारकान् अत्राणान् सारमेयानिव शूलादिप्रहारैस्तुदन्तो 'धाडेंति 'त्ति प्रेरयन्ति-स्थानात् स्थानान्तरं प्रापयन्तीत्यर्थः, तथा 'पहाडेंति' त्ति स्वेच्छयेतश्चेतश्चानायं भ्रमयन्ति, तथा अम्बरतले प्रक्षिप्य पुनर्निपतन्तं मुद्गरादिना घ्नन्ति, तथा शूलादिना विध्यन्ति, तथा 'निसुंभंति 'त्ति कृकाटिकायां गृहीत्वा भूमौ पातयन्ति अधोमुखान्, तथोत्क्षिप्य अम्बरतले मुञ्चन्तीत्येवमादिकया विडम्बनया 'तत्र' नरकपृथिवीषु
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International