________________
१०
सूत्रकृताङ्ग सूत्रम् १/-1-1-/ नि. [१२] नि. [१२] सउणि चउप्पयं नागं किंसुग्धं च करणं भवे एयं ।
एते चत्तारि धुवा अन्ने करणा चला सत्त॥ नि. [१३] चाउद्दसि रत्तीए सउणी पडिवजए सदा करणं ।
तत्तो अहक्कम खलु चउप्पयं नाग किंसुग्धं ।। वृ. एतद्गाथात्रयं सुखोनेयमिति। नि. [१४] भावे पओगवीसस पओगसा मूल उत्तरे चेव ।
___ उत्तर कमसुयजोवण वण्णादी भोअणादीसु ।। वृ. भावकरणमपि द्विधा-प्रयोगविनसाभेदात्, तत्रजीवाश्रितंप्रायोगिकंमूलकरणंपञ्चानां शरीराणां पर्याप्ति, तानि हि पर्याप्तिनामकर्मोदयादौदयिके भावे वर्तमानो जीवःस्ववीर्यजनि तेन प्रयोगेण निष्पादयति।
उत्तरकरणंतुगाथापश्चा?नाह-उत्तरकरणंक्रमश्रुतयौवनवर्णादिचतूरूपं, तत्रक्रमकरणं शरीरनिष्पत्त्युत्तरकालं बालयुवस्थविरादिक्रमेणोत्तरोत्तरोऽवस्थाविशेषः, श्रुतकरणं तु व्याकरणादिपरिज्ञानरूपोऽपरकलापरिज्ञानरूपश्चेति, यौवनकरणकालकृतो वयऽवस्थाविशेषो रसायनाद्यापादितो वेति, तथा वर्णगन्धरसस्पर्शकरणं विशिष्टेषु भोजनादिषु सत्सु यद् विशिष्टवर्णाद्यापादनमिति, एतञ्च पुद्गलविपाकित्वाद्वर्णादीनामजीवाश्रितमपि द्रष्टव्यमिति।
इदानीं विनसाकरणाभिधित्सयाऽऽह- नि. [१५] वण्णादिया य वण्णादिएसुजे केइ वीससामेला।
ते हुंति थिरा अथिरा छायातवदुद्धमादीसु॥ वृ. 'वर्णादिका' इति रूपरसगन्धस्पर्शा ते यदाऽपरेष्वपरेषां व स्वरूपादीनां मिलन्ति ते वर्णादिमेलका विनसाकरणं, ते च मेलकाः स्थिरा-असंख्येयकालावस्थायिनः, अस्थिराश्चक्षणावस्थायिनः, सन्ध्यारागाभ्रेन्द्रधनुरादयो भवन्ति, तथा छायात्वेनातपत्वेन च पुद्गलानां विनसापरिणामत एव परिणामो भावकरणं दुग्धादेश्च स्तनप्रच्यवनानन्तरं प्रतिक्षणं कठिणाम्लादिभावेन गमनमिति । साम्प्रतं श्रुतज्ञानमधिकृत्य मूलकरणाभिधित्सयाऽऽहनि. [१६] मूलकरणं पुण सुते तिविहे जोगे सुभासुभे झाणे ।
ससमयसुएण पगयं अज्झवसाणेण य सुहेणं॥ - वृ. 'श्रुते' पुनः श्रुतग्रन्थेमूलकरणमिदं त्रिविधेयोगे' मनोवाकायलक्षणे व्यापारेशुभाशुभे च ध्याने वर्तमानैर्ग्रन्थरचना क्रियते, तत्र लोकोत्तरे शुभध्यायानावस्थितैर्ग्रन्थरचना विधीयते, लोके त्वशुभध्यानाश्रितैर्ग्रन्थग्रथनं क्रियत इति, लौकिकग्रन्थस्य कर्मबन्धहेतुत्वात् कर्तुरशुभध्यायित्व-मवसेयम् । इह तु सूत्रकृतस्य तावत्स्वसमयत्वेन शुभाध्यवसायेन च प्रकृतं, यस्माद्गणधरैः शुभध्यानावस्थितैरिदमङ्गीकृतमिति । तेषां च ग्रन्थरचनां प्रति शुभध्यायिनां कर्मद्वारेण योऽवस्थाविशेस्तं दर्शयितु कामो नियुक्तिकृदाहनि. [१७] ठिइअनुभावे बंधणनिकायणनिहत्तदीहहस्सेसु ।
संकमउदीरणाए उदए वेदे उवसमे य॥ वृ. तत्र कर्मस्थितिं प्रति अजधन्योत्कृष्टकर्मस्थितिभिर्गणधरैः सूत्रमिदं कृतमिति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org