SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ उपोद्घात् नियुक्तिः तथाऽनुभावोविपाकस्तदपेक्षया मन्दानुभावैः, तथा बन्धमङ्गीकृत्य ज्ञानावरणीयादिप्रकृतीमन्दानुभावा बन्धभिः तथाऽनिकाचयद्भिरेवं निधत्तावस्थामकुर्वद्भिः तथा दीर्धस्थितिकाः कर्मप्रकृतीह्रसीयसीर्जनयद्भिः, तथोत्तरप्रकृतीर्बध्यमानासु संक्रायमद्भिः, तथोदयवतां कर्मणामुदीरणां विदधानैरप्रमत्तगुणस्थैस्तु सातासाताऽऽयूंष्यनुदीरयद्भिः, तथा मनुष्यगतिपञ्चेन्द्रियजात्यौदारिकशरीरतदङ्गोपाङ्गादिकर्मणामुदये वर्तमानैः, तथा वेदमङ्गीकृत्य पुंवेदे सति, तथा 'उवसमे' त्ति सूचनात्सूत्रमिति क्षायोपशमिके भावे वर्तमानैर्गणधारिभिरिदं सूत्रकृताङ्गं द्दब्धमिति । साम्प्रतं स्वमनषिकापरिहारद्वारेण करणप्रकारमभिधातुकाम आहनि. [१८] जोऊण जिनवरमतं गणहारी काउ तक्खओवसमं । अज्झवसाणेण कथं सूत्तमिणं तेण सूयगडं । 99 वृ. 'श्रुत्वा' निशभ्य जिनवराणां तीर्थकराणां मतम्-अभिप्रायं मातृकादिपदं 'गणधरैः ' गौतमादिभि कृत्वा 'तत्र' ग्रन्थरचने क्षयोपशमं तत्प्रतिबन्धककर्मक्षयोपशमाद्दत्तावधानैरितिभावः शुभाध्यवसायेन च सता कृतमिदं सूत्रं तेन सूत्रकृतमिति । इदानीं कस्मिन् योगे वर्तमानैस्तीर्थकृद्भिर्भाषितं ? कुत्र वा गणधरैर्द्दब्धमित्येतदाह नि. [१९] वइजोगेण पभासियमनेगजोगंधराण साहूणं । तो वयजोगेण कयं जीवस्स सभावियगुणेण ॥ वृ. तत्र 'तीर्थकृद्भि' क्षायिकज्ञानवर्तिभिर्वाग्योगेनार्थ प्रकर्षेण भाषितः प्रभाषितो गणधराणां, ते च न प्राकृतपुरुषकल्पाः किं त्वनेकयोगधराः, तत्र योगः क्षीराश्रवादिलब्धिकलापसंबन्धस्तं धारयन्तीत्यनेकयोगधरास्तेषां प्रभाषितमिति सूत्रकृताङ्गापेक्षया नपुंसकता, साधवश्चात्र गणधरा एव गृह्यन्ते । तदुद्देशेनैव भगवतामर्थप्रभाषणादिति, ततोऽर्थं निशम्य गणधरैरपि वाग्योगेनैव कृतं, तच्च जीवस्य 'स्वाभाविकेन गुणेनेति' स्वस्मिन् भावे भवः स्वाभाविकः प्राकृत इत्यर्थः, प्राकृतभाषयेत्युक्तं भवति, न पुनः संस्कृतया लट्लिट्शप्प्रकृतिप्रत्ययादिविकारचिकल्पनानिष्पन्नयेति । पुनरन्यथा सूत्रकृतनिरुक्तमाह नि. [२०] अक्खरगुणमितसंघायणा ए कम्मपरिसाडणाए य । तदुभययोगेण कयं सुत्तमिणं तेण सूत्तगडं । वृ. अक्षराणि-अकारादीनि तेषां गुणः - अनन्तगमपर्यायवत्त्वमुञ्चारणं वा, अन्यथाऽर्थस्य प्रतिपादयितुमशक्यत्वात्, मते :- मतिज्ञानस्य संघटना मतिसंघटना, अक्षरगुणेन मतिसंघटना अक्षरगुणमतिसंघटना, भावश्रुतस्य द्रव्यश्रुतेन प्रकाशनमित्यर्थ, अक्षरगुणस्य वा मत्या-बुद्धया संघटना रचनेतियावत तयाऽक्षरगुणमतिसंघटनया । तथा कर्मणां-ज्ञानावरणादीनां परिशाटना- जीवप्रदेशेभ्यः पृथक्करणरूपा तया च हेतुभूतया, सूत्रकृताङ्ग कृतमिति संबन्धः, तथाहि यथा यथा गणधराः सूत्रकरणायोद्यमं कुर्वन्ति तथा तथा कर्मपरिशाटना भवति, यथा यथा च कर्मपरिशाटना तथा तथा ग्रन्थरचनायोद्यमः संपद्यत इति, एतदेव गाथापञ्चार्धेन दर्शयति- 'तदुभययोगेनेति' अक्षरगुणमतिसंघटनायोगेन कर्मपरिशाटना योगेन च, यदिवा वाग्योगेन मनोयेगेन च कृतमिदं सूत्रं तेन सूत्रकृतमिति । इहानन्तरं सूत्रकृतस्य निरुक्तमुक्तम्, अधुना सूत्रपदस्य निरुक्तामिधित्सयाऽऽह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy