________________
श्रुतस्कन्धः-१, अध्ययनं-४, उद्देशकः - १
१२३
इतिद्रव्यलिङ्गमात्रसद्भावाभावतस्तु गृहस्थसमकल्पा इत्येवम्भूता मिश्रीभावं प्रस्तुताः' समनुप्राप्ता न गृहस्था एकान्ततो नापि प्रव्रजिताः, तदेवम्भूता अपि सन्तो ध्रुवो-मोक्षः संयमो वा तन्मार्गमेव प्रवदन्ति, तथाहि -
तेवक्तारोभवन्ति यथाऽयमेवास्मदारब्धोमध्यमः पन्थाःश्रेयान्, तथा हि-अनेन प्रवृत्तानां प्रव्रज्यानिर्वहणं भवतीति, तदेतत्कुशीलानां वाचा कृतं वीर्यं नानुष्ठानकृतं, तथाहि-ते द्रव्यलिङ्गधारिणो वाङ्मात्रेणैव वयं प्रव्रजिता इतिब्रुवते नतु तेषांसातगौरवविषयसुखप्रतिबद्धानां शीतलविहारिणां सदनुष्ठानकृतं वीर्यमस्तीति ॥ मू. (२६४) सुद्धं रवति परिसाए, अह रहस्संमि दुक्कडं करेंति।
जाणंति, यणंतहाविहा, माइल्ले महासढेऽयंति ।। वृ.अपिच-सकुशीलोवामात्रेणविष्कृतवीर्यः 'पर्षदि' व्यवस्थितोधर्मदेशनावसरेसत्यात्मानं 'शुद्धम्' अपगतदोषमात्मानमात्मीयानुष्ठानंवा 'रौति' भाषतेअथानन्तरं रहस्ये एकान्ते 'दुष्कृतं' पापं तत्कारणं वाऽसदनुष्ठानं 'रोति' विदधाति, तच्च तस्यासदनुष्ठानं गोपायतोऽपि 'जानन्ति' विदन्ति, के ? तथारूपमनुष्ठानं विदन्तीति तथाविदः-इङ्गिताकारकुशला निपुणास्तद्विद इत्यर्थः यदिवा सर्वज्ञाः, एतदुक्तं भवति-यद्यप्यपरः कश्चिदकर्तव्यं तेषां न वेत्ति तथापि सर्वज्ञा विदन्ति,
तत्परिज्ञानेनैव किं न पर्याप्तं ?, यदिवा-मायावी महाशठश्चायमित्येवं तथाविदस्तद्विदो जानन्ति, तथाहि-प्रच्छन्नाकार्यकारी न मां कश्चिन्जानात्येव रागान्धो मन्यते, अथ च तं तद्विदो विदन्ति, तथा चोक्तम् - ॥१॥ “न यलोणं लोणिजइ न य तुप्पिज्जइ घयं व तेलं वा।
किह सक्को वंचेउं अत्ता अणुहूयकल्लाणो । किच्चान्यत्मू. (२६५) सयं दुक्कडं च न वदति, आइट्ठोवि पकत्थति बाले।
वेयाणुवीइ मा कासी, चोइजंतो गिलाइ से भुजो ॥ वृ. 'स्वयम्' आत्मनाप्रच्छन्नं यदुष्कृतंकृतंपदपरेणाचार्यादिनापृष्टो नवदति' नकथयति, यथा अहमस्याकार्यस्य कारीति, स च प्रच्छन्नपापो मायावी स्वयमवदन् यदा परेण 'आदिष्टः' चोदितोऽपिसन् ‘बालः' अज्ञोरागद्वेषकलितो वा प्रकत्थते' आत्मानंश्लाघमानोऽकार्यमपलपति, वदति च । यथाऽहमेवम्भूतमकार्यं कथं करिष्ये इत्येवंधायान्प्रकथते, तथा-वेदः-'वेदोदयस्तस्य 'अनुवीचि' आनुकूल्यं मैथुनामिलाषं तन्माकार्षीरित्येवं 'भूयः' पुनः चोद्यमानोऽसौ ‘ग्लायति' ग्लानिमुपयादि-अकर्णश्रुतं विधत्ते, मर्मविद्धो वा सखेदमिव भाषते, तथा चोक्तम् -
“सम्भाव्यमानपापोऽहमपापोऽहमपापेनापि किं मया?।
निर्विषस्यापि सर्पस्य, भृशमुद्विजते जनः ॥ (इति) मू. (२६६) ओसियावि इत्थिपोसेसु, पुरिसा इत्थिवेयखेदना ।
___ पन्नासमन्निता वेगे, नारीणं वसं उवकसति ॥ वृ. अपिच-स्त्रियंपोषयन्तीतिस्त्रीपोषका-अनुष्ठानविशेषास्तेषु 'उषिताअपि' व्यवस्थिता अपि पुरुषा' मनुष्या भुक्तभोगिनोऽपीत्यर्थ, तथा-'स्त्रीवेदखेदज्ञाः' स्त्रीवेदोमायाप्रधान इत्येवं निपुणाअपितथाप्रज्ञया औत्पत्तिक्यादिबुध्ध्या समन्विता-युक्ताअपि 'एक्' महामोहान्धचेतसो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org