________________
१२४
सूत्रकृताङ्ग सूत्रम् १/४/१/२६६
'नारीणां स्त्रीणां संसारावतरणवीथीनां वशं तदायत्ततामुप-सामीप्येन कषन्ति व्रजन्तियद्यद्यत्ताः स्वप्नायमाना अपिकार्यमकार्यवाब्रुवतेतत्तत्कुर्वते, न पुनरेतज्जानन्तियथैता एवम्भूता भवन्तीति,
तद्यथा
॥१॥"एता हसन्ति च रुदन्ति च कार्यहतोर्विश्वासयन्ति च नरं न च विश्वसन्ति ।
तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः स्मशानघटिका इव वर्जनीयाः ।। ॥२॥ “समुद्रवीचीव चलस्वभावाः, सन्ध्याघ्ररेखेव मुहूर्तरागाः।
स्त्रियः कुतार्था पुरुषं निरर्थकं, निष्पीडितालक्तकवत्यजन्ति ॥ अत्र च स्त्रीस्वभावपरिज्ञाने कथानकमिदम्-तद्यथा-एको युवा स्वगृहान्निर्गत्य वैशिकं कामशास्त्रमध्येतुं पाटलिपुत्रं प्रस्थितः, तदन्तराले अन्यतरग्रामवर्तिन्यैकया योषिताऽभिहितः, तद्यथा-सुकुमारपाणिपादः शोभनाकृतिस्त्वं क प्रस्थितोऽसि ?, तेनापि यथास्थितमेव तस्याः कथितं, तया चोक्तम्-वैशिकं पठित्वा मम मध्येनागन्तव्यं, तेनापि तथैवाभ्युपगतम्, अधीत्य चासौ मध्येनायातः,।
तया च स्नानभोजनादिना सम्यगुपचरितो विविधहावभावैश्चापहृतहृदयः संस्तां हस्तेन गृह्णाति, ततस्तया महताशब्देन पूत्कृत्य जनागमनावसरे मस्तके वारिवर्धनिका प्रक्षिप्ता, ततो लोकस्य समाकुले एवमाचष्टे-यथाऽयं गले लग्नेनोदकेन मनाक्न मृतः, ततो मयोदकेन सिक्त इति ।गतेचलोकेसा पृष्टवती-किं त्वया वैशिकशास्त्रोपदेशेनीस्वभावानां परिज्ञातमिति?, एवं स्त्रीचरित्रं दुर्विज्ञेयमिति नात्रास्थाकर्तव्येति, तथा चोक्तम् - ॥१॥ “हृद्यन्यद्वाच्यन्यत्कर्मण्यन्यत्पुरोऽथ पृष्ठेऽन्यत् ।
अन्यत्तव मम चान्यत्स्त्रीणां सर्वं किमप्यन्यत् ।। साम्प्रतमिहलोक एव स्त्रीसम्बन्धविपाकं दर्शयितुमाहमू. (२६७) अवि हत्थपादछेदाए, अदुवा वद्धमंसउक्कते।
अवि तेयसाभितावणाणि, तच्छियखारसिंचणाईंच॥ वृ. स्त्रीसम्पर्को हि रागिणां हस्तपादच्छेदाय भवति, 'अपि' सम्भावने सम्भाव्यत एतन्मोहातुराणां स्त्रीसम्बन्धाद्धस्तपादच्छेदादिकम्, अथवावर्धमांसोत्कर्तनमपि तेजसा' अग्निना 'अभितापनानि' स्त्रीसम्बन्धिभिरुत्तेजितै राजपुरुषैर्भटित्रकाण्यपि क्रियन्ते पारदारिकाः, तथा वास्यादिना तक्षयित्वा क्षारोदकसेचनानि च प्रापयन्तीति ॥ मू. (२६८) अदु कण्णनासच्छेदं, कंठच्छेदणं तितिक्खंती।
इति इत्थ पावसंतत्ता, नय बिंति पुणो न काहिति॥ वृ. अपिच-अथ कर्णनासिकाच्छेदं तथा कण्ठच्छेदनंच 'तितिक्षन्ते' स्वकृतदोषात्सहन्ते इति, एवं बहुविधां विडम्बनाम् ‘अस्मिन्नेव' मानुषे च जन्मनि पापेन-पापकर्मणा संतप्ता नरकातिरिक्तांवेदनामनुभवन्तीतिनच पुनरेतदेवम्भूतमनुष्ठानंन करिष्यामइतिब्रुवतइत्यवधारयन्तीतियावत्, तदेवमैहिकामुष्मिका दुःखविडम्बना अप्यङ्गीकुर्वन्ति न पुनस्तदकरणतया निवृत्तिं प्रतिपद्यन्त इति भावः किञ्चान्यत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org