________________
१२२
सूत्रकृताङ्ग सूत्रम् १/४/१/२६० रक्षणपोषणेसदाऽऽदरंकुरु यतस्त्वमस्याः ‘मनुष्योऽसि' मनुष्यो वर्तसे, यदिवायदि परंवयमस्या रक्षणपोषणव्यापृतास्त्वमेवमनुष्यो वर्तसे, यतस्त्वयैव सार्धमियमेकाकिन्यहर्निशंपरित्यक्तनिजव्यापारा तिष्ठतीति किञ्चान्यत्मू. (२६१) समणंपि ददुदासीणं, तत्थवि ताव एगे कुप्पंति।
अदुवा भोयणेहिं नत्थेहिं, इत्थीदोसं संकिणो होति ॥ वृ. श्राम्यतीति श्रमणः-साधुः अपिशब्दो भिन्नक्रमः तम् ‘उदासीनमपि' रागद्वेषविरहान्मध्यस्थमपि दृष्ट्वा, श्रमणग्रहणं तपःखिन्नदेहोपलक्षणार्थं, तत्रैवम्भूतेऽपि विषयद्वेषिण्यपिसाधौ तावदेके केचन रहस्यस्त्रीजल्पनकृतदोषत्वात्कुष्यन्ति, यदिवा पाठान्तरं “समणं दह्णुदासीणं" 'श्रमणं' प्रव्रजितं 'उदासीनम्' परित्यक्तनिजव्यापार स्त्रिया सह जल्पन्तं दृष्ट्वा' उपलभ्य तत्राप्येके केचन तावत् कुप्यन्ति।
किंपुनः कृतविकारमितिभावः,अथवास्त्रीदोषाशङ्किनश्च ते भवन्ति, ते चामीस्त्रीदोषाः ‘भोजनैः' नानाविधैराहारैः 'न्यस्तैः' साध्वर्थमुपकल्पितैरेतदर्थमेव संस्कृतैरियमेनमुपचरति तेनायमहर्निश-मिहागच्छतीति, यदिवा-भोजनैः श्वशुरादीनांन्यस्तैः अर्धदत्तैः सद्भिःसा वधूः साध्वागमनेन समाकुलीभूता सत्यन्यस्मिन् दातव्येऽन्यद्दद्यात्, ततस्ते स्त्रीदोषाशङ्किनो भवेयुर्यथेयं दुःशीलाऽनेनैव सहास्त इति, निदर्शनमत्र यथा
कयाचिद्वध्वा ग्राममध्यप्रारब्धनटप्रेक्षणैकगतचित्तया पतिश्चशुरयोर्भोजनार्थमुपविष्टयोस्तण्डुला इतिकृत्वा राइकाः संस्कृत्य दत्ताः, ततोऽसौ श्वशुरेणोपलक्षिता, निजपतिना क्रुद्धेन ताडिता, अन्यपुरुषगतचित्तेत्याशङ्कय स्वगृहानिर्घाटितेति ॥ मू. (२६२) कुव्वंति संथवंताहिं, पब्भट्ठा समाहिजोगेहिं ।
तम्हा समणा न समेति, आयहियाए सन्निसेजाओ॥ वृ. किञ्चान्यत्-'कुवंती'त्यादि, 'ताभिः' स्त्रीभि-सन्मार्गिलाभिः सह संस्तवं तदृहगमनालापदानसप्रेक्षणादिरूपं परिचयंतथाविधमोहोदयात् 'कुर्वन्ति' विदधति, किम्भूताः? -प्रकर्षण भ्रष्टाः स्खलिताः ‘समाधियोगेभ्यः' समाधि-धर्मध्यानं तदर्थं तप्रधाना वा योगा-मनोवाक्कायव्यापारास्तेभ्यः प्रच्युताः शीतलविहारिण इति ।
यस्मात् स्त्रीसंस्तवात्समाधियोगपरिभ्रंशो भवति तस्मात्कारणात् 'श्रमणाः' सत्साधवो 'न समेन्ति' न गच्छन्ति, सत् शोभन सुखोत्पादकतयाऽनुकूलत्वानिषद्या इव निषधास्त्रीभिः कृता माया, यदिवा विसतीरिति, आत्महिताय' स्वहितं मन्यमानाः, एतच्चस्त्रीसम्बन्धपरिहरणं तासामप्यहिका-मुष्मिकापायपरिहाराद्धितमिति, क्वचित्पश्चार्द्धमेवं पठ्यते -
__ "तम्हासमणाउजहाहि अहिताओसन्निसेजाओ" अयमस्यार्थ-यस्मात्स्त्रीसम्बन्धोऽनाय भवति, तस्मात् हे श्रमण !-साधो !, तुशब्दो विशेषणार्थ, विशेषेण संनिषद्या-स्त्रीवसतीस्तस्कृतोपचार-रूपावामाया आत्महिताद्धेतोः 'जहाहि' परित्यजेति किं केचनाभ्युपगम्यापिप्रव्रज्यां स्त्रीसम्बन्धं कुर्यु : ?, येनैवमुच्यते, ओमित्याहमू. (२६३) बहवे गिहाई अवहट्टु, मिस्सीभावं पत्थुया य एगे।
धुवमग्गमेव पवयंति, वायावीरियं कुसीलाणं ॥ वृ. 'बहवः' केचन गृहाणि 'अपहत्य' परित्यज्य पुनस्तथाविधमोहोदयात् मिश्रीभावं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org