________________
श्रुतस्कन्धः-१, अध्ययनं-४, उद्देशकः-१
___११९ मू. (२५२) आमंतिय उस्सविया भिक्खं आयसा निमंतति ।
एतणि चेव से जाणे, सद्दाणि विरुवरुवाणि ॥ वृ.कथंचैताः पाशाइव पाशिका इत्याह-'आमंतिय' इत्यादि, स्त्रियोहि स्वभावेनैवाकर्तव्यप्रवणाः साधुमामन्त्रय यथाऽहममुकस्यां वेलायां भवदन्तिकमागमिष्यामीत्येवंसङ्केतंग्राहयित्वा तथा उस्सविय'त्ति संस्थाप्योचाववैर्विश्रम्भजनकैरालापैर्विश्रम्भेपातयित्वापुनरकार्यकरणायात्मना निमन्त्रयन्ति, आत्मनोपभोगेन साधुमभ्युपगमं कारयन्ति । यदिवा-साधोर्भयापहरणार्थं ता एव योषितः प्रोचुः।
तद्यथा-भरिमामन्त्रयापृच्छयाहमिहाऽऽयाता, तथा संस्थाप्य-भोजनपदधावनशयनादिकया क्रिययोपचर्य ततस्तवान्तिकमागतेत्यतोभवता सर्वांमद्मर्तृजनितामाशङ्कांपरित्यज्य निर्भयेन भाव्यमित्येवमादिकैर्विश्रम्भमुत्पाद्य भिक्षुमात्मना निमन्त्रयन्ते, युष्मदीयमिदं शरीरकं याक्षस्य क्षोदीयसो गरीयसोवा कार्यस्य क्षमं तत्रैव नियोज्यतामित्येवमुपप्रलोभयन्ति, स च भिक्षुरवगतपरमार्थएतानेव विरूपरूपान् नानाप्रकारान् ‘शब्दादीन्' विषयान् तत्स्वरूपनिरूपणतो ज्ञपरिज्ञयाजानीयात्, यथैते स्त्रीसंसर्गापादिताः शब्दादयोविषया दुर्गतिगमनैकहेतवः सन्मार्गार्गलारूपा इत्येवमवबुध्येत, तथा प्रत्याख्यानपरिज्ञया च तद्विपाकावगमेन परिहरेदिति अन्यच्चमू. (२५३) मनबंधणेहिं नेगेहिं, कलुण विणीयमुवगसित्ताणं ।
अदु मंजुलाई भासंति, आणवयंति भिन्नकहाहिं। वृ.मनोबध्यते यैस्तानिमनोबन्धनानि-मञ्जुलालापस्निग्धावलोकनाङ्गप्रत्यङ्गप्रकटनादीनि, तथा चोक्तम् - ॥१॥ “नाह पिय कंत सामिय दइय जियाओ तुमं मह पिओत्ति।
__जीए जीयामि अहं पहवसितं मे सरीरस्स ।। इत्यादिभिरनेकैः प्रपञ्चैः करुणालापविनयपूर्वकं “उवगसित्ताणं'ति उपसंश्लिष्य समीपमागत्य अथ' तदनंतरं 'मञ्जुलानि' पेशलानि विश्रम्भजनकानिकामोत्कोचकानिवाभाषन्ते, तदुक्तम्॥१॥ “मितमहुररिभियजंपुल्लएहि ईसीकडक्खहसिएहिं ।
सविगारेहि वरागं हिययं पिहियं मयच्छीए॥ तथा 'भिन्नकथामी' रहस्यालपैमैथुनसम्बद्धैर्वचोभिसाधोश्चित्तमादायतमकार्यकरणंप्रति 'आज्ञापयन्ति' प्रवर्तयन्ति, स्ववशं वा ज्ञात्वा कर्मकरवदाज्ञां कारयन्तीति। मू. (२५४) सीहं जहा व कुणिमेणं, निब्भयमेगचरंति पासेणं।
एवित्थियाउ बंधंति, संवुड एगतियमनगारं ॥ वृ. अपिच-'सीहं जहे' त्यादि, यथेति दृष्टान्तोपदर्शनार्थे यथा बन्धनविधिज्ञाः सिंह पिशितादिना-ऽऽमिषेणोपप्रलोभ्य 'निर्भयं गतभीकं निर्भयत्वादेव एकचरं पाशेन' गलयन्त्रादिना बन्धन्ति बध्ध्वा च बहुप्रकारं कदर्थयन्ति ।
एवं स्त्रियोनानाविधैरुपायैः पेशलभाषाणदिभिः एगतियन्ति' कञ्चनतथाविधम् अनगारं' साधुं 'संवृतमपि' मनोवाक्कायगुप्तमपि 'बध्नन्ति' स्ववशं कुर्वन्तीति, संवृतग्रहणं च स्त्रीणां सामोपदर्शनार्थं, तथाहिसंवृतोऽपि ताभिर्बध्यते, किं पुनरपरोऽसंवृत इति । किञ्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org