________________
११८
सूत्रकृताङ्ग सूत्रम् १/४/१/२४९ विश्रम्भमापादयितुमुपविशन्तीति, तथा कामं पुष्णातीति पोषं-कामोत्कोचकारि शोभनमिर्थः तच्च तद्वस्त्रं पोषवद् तद् ‘अभीक्ष्णम्' अनवरतं तेन शिथिलादिव्यपदेशेन परिदधति । स्वाभिलाषमावेदयन्त्यः साधुप्रतारणार्थं परिधानंशिथिलंकृत्यपुनर्निबन्धन्तीति, तथा अधःकायम्' ऊर्वादिकमनङ्गोद्दीपनाय 'दर्शयन्ति' प्रकटयन्ति, तथा 'बाहुमुध्धृत्य' कक्षामादय 'अनुकूलं' साध्वभिमुखं व्रजेत्' गच्छेत्।सम्भावनायां लिङ्,सम्भाव्यतेएतदङ्गप्रत्यङ्गसन्दर्शकत्वं स्त्रीणामिति मू. (२५०) सयणासणेहिं जोगेहिं इथिओ एगता निमंतति ।
एयाणि चेव से जाणे, पासाणि विरुवरुवाणि ॥ वृ. अपिच ‘सयणासणे' इत्यादि, शय्यतेऽस्मिन्निति शयनं-पर्यादितथाऽऽस्यतेऽस्मिन्नित्या-सनम्-आसंदकादीत्येवमादिना 'योग्येन' उपमेगाहेण कालोचितेन 'स्त्रियो' योषित 'एकदा' इति विवक्तदेशकालादौ 'निमन्त्रयन्ति' अभ्युपगमं ग्राहयन्ति। .
इदमुक्तंभवति-शयनासनाद्युपभोगप्रति साधु प्रार्थयन्ति, ‘एतानेव' शयनासनिमन्त्रणरूपान्स साधुर्विदितवेद्यः परमार्थदर्शी 'जानीयाद्' अवबुध्येत स्त्रीसम्बन्धकारिणः पाशयन्तिवजन्तीति पाशास्तान् ‘विरूपरूपान्' नानाप्रकारानिति । इदमुक्तं भवति-स्त्रियो ह्यसन्नगामिन्यो भवन्ति, तथा चोक्तम्॥१॥ “अंबं वा निबं वा अब्भासगुणेण आरुहइ वल्ली ।
एवं इत्थीतोवि यजं आसन्नं तमिछन्ति ।। तदेवम्भूताः स्त्रियो ज्ञात्वा न ताभिः सार्धं साधुः सङ्गं कुर्यात्, यतस्तदुपचारादिकः सङ्गो दुष्परिहार्यो भवति, तदुक्तम् - ॥१॥ “जंइच्छसि धेत्तुजे पुट्विं तं आमिसेण गिण्हाहि ।
आमिसपासनिबद्धो काहिइ कजं अकजं वा॥ मू. (२५१) नो तासु चक्खुसंधेजा, नोविय साहसं समभिजाणे ।
नो सहियंपि विहरेज्जा, एवमप्पा सुरक्खिओ होइ । वृ. 'नो' नैव 'तासु' शयनासनोपनिमन्त्रणपाशावपाशिकासु स्त्रीषु 'चक्षुः' नेत्रं सन्ध्यात् सन्धयेद्वा, न त टौ स्वदृष्टिं निवेशयेत्, सति च प्रयोजने ईषदवज्ञया निरीक्षेत, तथा चोक्तम्॥१॥ “कार्येऽपीषन्मतिमानिरीक्षते योषिदङ्गमस्थिरया।
अस्निग्धयाशाऽवज्ञया ह्यकुपितोऽपि कुपित इव ॥ तथा नापि च साहसम्-अकार्यकरणं तत्प्रार्थनया ‘समनुजानीयात्' प्रतिपद्येत, तथा ह्यतिसाहसमेतत्सङ्गामावतरणवद्यन्नरकपातादिविपाकवेदिनोऽपिसाधोर्योषिदासज्जनमिति, तथा नैव स्त्रीभिः सार्धं ग्रामादौ 'विहरेत् गच्छेत्, अपिशब्दात् न ताभि सार्धं विविक्तासनो भवेत्, ततो महापापस्थानमेतत् यतीनां यत् स्त्रीभिः सह साङ्गत्यमिति, तथा चोक्तम् - ॥१॥ “मात्रा स्वना दुहित्रा वा, न विविक्तासनो भवेत्।
बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति॥ एवमनेन स्त्रीसङ्गवर्जनात्मा समस्तापायस्थानेभ्यो रक्षितो भवति, यतः-सर्वापायानां स्त्रीसम्बन्धः कारणम्, अतः स्वहितार्थी तत्सङ्गं दूरतः परिहरेदिति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org