________________
११७
श्रुतस्कन्धः - १, अध्ययनं-४, उद्देशकः - यदुक्तं स्त्रीपरिज्ञेति तत्पुरुषोत्तमधर्मप्रतिपादनार्थम्, अन्यथा 'पुरुषपरिजे'त्यपि वक्तव्येति, साम्प्रतं सूत्रानुगमेऽस्खलि-तादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
___-:अध्ययनं-४ उद्देशक:-१:मू. (२४७) जे मायरं च पियरंच, विप्पजहाय पुव्वसंजोगं।
एगे सहिते चरिस्सामि, आरतमेहुणो विवित्तेसु ।। वृ.अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा-अनन्तरसूत्रेऽभिहितम, आमोक्षाय परिव्रजेदिति, एतच्चाशेषाभिष्वङ्गवर्जितस्यभवतीत्यतोऽनेन तदभिष्वङ्गवर्जनमभिधीयते, 'यः' कश्चिदुत्तमसत्त्वो ‘मातरंपितरं' जननींजनयितारम्, एतद्ग्रहणादन्यदपि भ्रातृपुत्रादिकंपूर्वसंयोगं तथा श्वश्रूश्वशुरादिकं पञ्चात्संयोगं च 'विप्रहाय' त्यक्त्वा, चकारौ समुच्चयार्थौ ।
“एको' मातापित्राद्यभिष्वङ्गवर्जितः कषायरहितो वातथा सहितोज्ञानदर्शनचारित्रैः स्वस्मै वाहितः स्वहितः-परमार्थानुष्थानविधायी 'चरिष्यामि' संयमंकरिष्यामीत्येवंकृतप्रतिज्ञः, तामेव प्रतिज्ञांसर्वप्रधानभूतांलेशतो दर्शयति-'आरतम्' उपरतंमैथुनं-कामाभिलाषोयस्यासावारतमैथुनः, तदेवम्भूतो 'विविक्तेषु' स्त्रीपशुपण्डकवर्जितेषु स्थानेषु चरिष्यामीत्येवं सम्यगुत्थानेनोत्थाय विहरतीति, क्वचित्पाठो विवित्तेसित्ति' 'विविक्त-स्त्रीपण्डकादिरहितं स्थानंसंयमानुपरोध्येषितुं शीलमस्य तथेति ॥ मू. (२४८) सुहुमेणं तं परिक्कम्म, छन्नपएण इथिओ मंदा।
उव्वायंपि ताउ जाणंसु जहा लिस्संति भिक्खुणो एगे। वृ.तस्यैवंकृतप्रतिज्ञस्य साधोर्यद्भवत्यविवेकीस्त्रीजनात्तद्दर्शयितुमाह-सुहुमेणं' इत्यादि, 'तं' महापुरुषंसाधुं सूक्ष्मेण अपरकार्यव्यपदेशभूतेन ‘छन्नपदेने तिछद्मना-कपटजालेन ‘पराक्रम्य' तत्समीपमागत्य, यदिवा- पराक्रम्येति शीलस्खलनयोग्यतापत्त्या अभिभूय, काः ? 'स्त्रियः' कूलवालुकादीनामिव मागधगणिकाद्वा नानाविघकपटशतकरणदक्षा विविध- विब्बोकवत्यो भावमन्दाः-कामोद्रेकविधायितया सदसद्विवेकविकलाः समीपमागत्यशीलात्ध्वंसयन्ति, एतदुक्तम् भवति-भात्पुत्रव्यपदेशेन साधुसमीपमागत्य संयमाद् भ्रंशयन्ति, तथा चोक्तम् - ॥१॥ “पियपुत्त मइकिडगा नत्तूकिडगाय सयणकिडगा य ।
एतेजोव्वणकिडगा पच्छन्नपई महिलियाणं ॥
यदिवा-छन्नपदेनेति-गुप्ताभिधानेन, तद्यथा॥१॥ “काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु ।
मिथ्या न भाषामि विशालनेत्रे !, ते प्रत्यया ये प्रथमाक्षरेषु ।। इत्यादि, ताः स्त्रियो मायाप्रधानाः प्रतारणोपायमपिजानन्ति-उत्पन्नप्रतिभतया विदन्ति, पाठान्तरं वा ज्ञातवत्मः, यथा 'श्लिष्यन्ते' विवेकिनोऽपि साधव एके तथाविधकर्मोदयात् तासु सङ्गमुपयान्ति तानेव सूक्ष्मप्रतारणोपायान् दर्शयितुमाहमू. (२४९) पासे भिसं निसीयंति अभिक्खणं पोसवत्थं परिहिति ।
कायं अहेवि दंसंति, बाहू उद्धट्ट कक्खमनुव्वजे ॥ वृ. 'पाइँ' समीपे 'भृशम्' अत्यर्थमूरुपपीडमतिस्नेहमाविष्कुर्वन्त्यो निषीदन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org