________________
श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशक: - ४
र्याप्तकभेदभिन्ना इति । अनेन च द्रव्यप्राणातिपातो गृहीतः, सर्वत्र काले सर्वास्ववस्थास्वित्यनेनापि कालभाव- भेदभिन्नः प्राणातिपात उपात्तो द्रष्टव्यः, तदेवं चतुर्दशस्वपि जीवस्थानेषु कृतकारितानुमतिभिर्मनोवाक्कायैः प्राणातिपातविरतिं कुर्यादित्यनेन पादोनेनापि श्लोकद्वयेन प्राणातिपातविरत्यादयो मूलगुणाः ख्यापिताः, साम्प्रतमेतेषां सर्वेषामेव मूलोत्तरगुणानां फलमुद्देशेनाहमू. (२४५)
इमं च धम्ममादाय, कासवेण पवेदितं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए ।।
वृ. 'शान्ति' इति कर्मदाहोपशमस्तदेव च 'निर्वाणं' मोक्षपद यद् 'आख्यातं ' प्रतिपादितं सर्वद्वन्द्वापगमरूपं तदस्यावश्यं चरणकरणानुष्ठायिनः साधोर्भवतीति ॥ संखाय पेसलं धम्मं, दिट्ठिमं परिनिव्वुडे ।
मू. (२४६)
उवसग्गे नियामित्ता, आमोक्खाए परिव्वज्जासि ॥ - त्तिबेमि ॥ वृ. समस्ताध्ययनार्थोपसंहारार्थमाह- 'इमं च धम्ममि' त्यादि, 'इम' मिति पूर्वोक्तं मूलोत्तरगुणरूपं श्रुतचारित्राख्यं वा दुर्गतिधारणात् धर्मम् 'आदाय' आचार्योपदेशेन गृहीत्वा किम्भूतमिति तदेव विशिनष्टि । 'काश्यपेन' श्रीमन्महावीरवर्धमानस्वामिना समुत्पन्नदिव्यज्ञानेन भव्यसत्त्वाभ्युद्धरणाभिलाषिणा 'प्रवेदितम्' आख्यातं समधिगम्य 'भिक्षु' साधुः परीषहोप- सर्गेरतर्जितो ग्लान्यापरस्य साधोर्वैयावृत्यं कुर्यात्, कथमिति ?, स्वतोऽग्लानतया यथाशक्ति 'समाहित' इति समाधिं प्राप्तः, इदमुक्तं भवति-कृत्कृत्योऽहमिति मन्यमानो वैयावृत्त्यादिकं कुर्यादिति ॥ अन्यच्च ‘संख्याये’ति सम्यक् ज्ञात्वा स्वसम्मत्या अन्यतो वा श्रुत्वा 'पेशलं 'ति मोक्षगमनं प्रत्यनुकूलं, किं तद् ? - 'धर्मं' श्रुतचारित्राख्यं 'दृष्टिमान्' सम्यग्दर्शनी ।
'परिनिर्वृत' इति कषायोपशमाच्छीतीभूतः परिनिर्वृतकल्पो वा 'उपसर्गान्' अनुकूलप्रतिकूलान् सम्यग् 'नियम्य' अतिसह्य 'आमोक्षाय' मोक्षं यावत् परि-समन्तात् 'व्रजेत्' संयमानुष्ठानेन गच्छेदिति, इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् नयचर्चाऽपि तथैवेति । अध्ययनं -३ उद्देशकः-४ समाप्तः अध्ययनं -३ समाप्तम्
मुनीदीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्यविरचिता प्रथम श्रुतस्कन्धस्य तृतीय अध्ययन टीका परिसमाप्ता । अध्ययनं ४ स्त्री परिज्ञा
११३
उक्तं तृतीयमध्ययनं साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने उपसर्गा प्रतिपादिताः, तेषां च प्रायोऽनुकूला दुःसहाः, ततोऽपि स्त्रीकृताः, अतस्तज्जयार्थमिदमध्ययनमुपदिश्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च । _तत्राध्ययनार्थाधिकारः प्रागवत् निर्युक्तिकृता 'थीदोषविवज्जणा चेवे' त्यनेन स्वयमेव
28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org