________________
११४
सूत्रकृताङ्ग सूत्रम् १/४/-/२४६/ नि. [५६]
प्रतिपादितः, उद्देशार्थाधिकारंतूत्तरत्र नियुक्तिकृदेवभणिष्यति, साम्प्रतंनिक्षेपः, सचौधनामसूत्रालापकभेदात्रिधा, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पने 'स्त्रीपरिज्ञेति नाम, तत्र नामस्थापने क्षुण्णत्वादनात्य स्त्रीशब्दस्य द्रव्यादिनिक्षेपार्थमाहनि. [५६] दव्वाभिलावचिंधे वेदे भावे य इथिनिक्खेवो।
अहिलावे जह सिद्धी भावे वेयंमि उवउत्तो॥ वृ.तत्रद्रव्यस्त्री द्वेधा-आगमतोनोआगमतश्च, आगमतःस्त्रीपदार्थज्ञस्तत्र चानुपयुक्तः, अनुपयोगो द्रव्यमितिकृत्वा, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्रिधा, एकभविका बद्धायुष्काऽभिमुखनामगोत्राचेति, चिह्वयते-ज्ञायतेऽनेनेति चिह्न-स्तननेपथ्यादिकं, चिह्नमात्रेण स्त्री चिह्नस्त्री अपगतस्त्रीवेदश्छद्मस्थः केवली वा अन्यो वा स्त्रीवेषधारी यः कश्चिदिति, वेदस्त्री तुपुरुषाभिलाषरूपःस्त्रीवेदोदयः, अभिलापभावौ तुनियुक्तिकृदेव गाथापश्चा?नाह-अभिलप्यते इत्यभिलापः स्त्रीलिङ्गाभिधानः शब्दः, तद्यथा
शाला माला सिद्धिरिति, भावस्त्री तु द्वेधा-आगमतो नोआगमतश्च, आगमतः स्त्रीपदार्थज्ञस्तत्रचोपयुक्तः, उपयोगो भाव'इतिकृत्वा, नोआगमतस्तुभावविषये निक्षेपे वेदे' स्त्रीवेदरूपेवस्तुन्युपयुक्तातदुपयोगानन्यत्वादावी भवति, यथाऽग्नावुपयुक्तोमाणवकोऽग्निरेव भवति, एवमत्रापि, यदिवा-स्त्रीवेदनिर्वर्तकान्युदयप्राप्तानि यानि कर्माणि तेषु “उपयुक्ते'ति तान्यनुभवन्ती भावीति, एतावानेव स्त्रियो निक्षेप इति, परिज्ञानिक्षेपस्तुज्ञपरिज्ञावद् द्रष्टव्यः ।
साम्प्रतं विपक्षभूतं पुरुषनिक्षेपार्थमाहनि. [५७] नामंठवणादविए खेत्ते काले य पक्षणणकंमे।
भोगे गुणे य भावे दस एए पुरिसणिखेवा ॥ वृ. 'नाम' इति संज्ञा तन्मात्रेण पुरुषो नामपुरुषः-यथा घटः पट इति, यस्य वा पुरुष इति नामेति, 'स्थापनापुरुषः' काष्ठादिनिवर्तितो जिनप्रतिमादिकः, द्रव्यपुरुषो ज्ञशरीरभव्यशरीरव्यतिरिक्तो नोआगमत एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति, द्रव्यप्रधानो वा मम्मणवणिगादिरिति, यो यस्मिन् सुराष्ट्रादौ क्षेत्रे भवः स क्षेत्रपुरुषो यथा सौराष्ट्रिक इति, यस्य वा यत् क्षेत्रमाश्रित्य पुंस्त्वं भवतीति, यो यावन्तं कालं पुरुषवेदवेद्यानि कर्माणि वेदयते स कालपुरुषः।
यथा-'पुरिसे' णं भंते ! पुरिसोत्ति कालओ केवच्चिरं होइ ? गो०, जहन्नेणं एगं समयं उक्कोसेणं जो जम्मि काले पुरिसो भवइ, जहा कोइ एगंमि पक्खे पुरिसो एगमि नपुंसगो'ति । प्रजन्यतेऽपत्यं येन तत्प्रजननं शिश्नम्-लिङ्गम् तप्रधानः पुरुषः अपरपुरुषकार्यरहितत्वात् प्रजननपुरुषः, कर्मअनुष्ठानंतत्प्रधानः पुरुषः कर्मपुरुषः-कर्मकरादिकः,तथा भोगप्रधानः पुरुषो भोगपुरुषः-चक्रवादि-तथा गुणाः-व्यायामविक्रमधैर्यसत्त्वादिकास्तप्रधानः पुरुषोगुणपुरुषः, भावपुरुषस्त पुंवेदोदये वर्तमानस्तद्वेधानि कर्मण्यानुभवन्निति, एते दश पुरुषनिक्षेपा भवन्ति ।
साम्प्रतं प्रागुल्लिङ्गितमुद्देशार्थाधिकारमधिकृत्याहनि. [५८] पढमे संथवसंलवमाइहि खलणा उ होति सीलस्स।
बितिए इहेव खलियस्स अवस्था कम्मबंधो य॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org