________________
श्रुतस्कन्धः - १, अध्ययनं -३, उद्देशकः - ३
१०१
प्रति उपेक्षिणोभवन्तीति, एवं प्रव्रजिता मन्दभाग्यतयाअल्पसत्त्वाआजीविकाभयाद्व्याकरणादिकं जीवनोपायत्वेन 'प्रत्युपेक्षन्ते' परिकल्पयन्ति, किम्भूताः ?-विचिकित्सा-चित्तविप्लुतिः-किमेनं संयमभारमुत्क्षिप्तमन्तं नेतुं वयं समर्थाः उत नेतीत्येवम्भूता, तथा चोक्तम् । ॥१॥ "लुक्खमणुण्हमणिययं कालाइक्कंतभोयणं विरसं।
भूमीसयणं लोओ असिणाणं बंभचेरं च ॥ तांसमापन्नाः-समागताः,यथा पन्थानंप्रति ‘अकोविदा' अनिपुणाः, किमयंपन्था विवक्षितं भूभागंयास्यत्युत नेतीत्येवं कृतचित्तविप्लुतयोभवन्ति, तथातेऽपिसंयमभारवहनंप्रति विचिकित्सा समापन्ना निमित्तगणितादिकं जीविकार्थं प्रत्युपेक्षन्त इति । मू. (२०९) जे उ संगामकालंमि, नाना सूरपुरंगमा।
नो ते पिट्ठमवेहिंति, किं परं मरणं सिया॥ वृ. साम्प्रतं महापुरुषचेष्टिते दृष्टान्तमाह-ये पुनर्महासत्त्वाः, तुशब्दो विशेषणार्थः 'सङ्ग्रामकाले' परानीकयुद्धावसरे ‘ज्ञाताः' लोकविदिताः, कथम् ?-'शूरपुरङ्गमाः' शूराणामग्रगामिनो युद्धावसरे सैन्याग्रस्कन्धवर्तिन इति, त एवम्भूताः सङ्ग्रामं प्रविशन्तो 'न पृष्ठमुप्रेक्षन्ते' न दुर्गादिकमापत्राणाय पर्यालोचयन्ति, ते चाभङ्गकृतबुद्धयः, अपि त्वेवं मन्यन्तेकिमपरमत्रास्माकंभविष्यति?, यदि परं मरणं स्यात्, तच्च शाश्वतं यशःप्रवाहमिच्छतामस्माकं स्तोकं वर्तत इति, तथा चोक्तम् - ॥१॥ “विशरारुभिरविनश्वरमपि चपैलः स्थास्नु वाञ्छतां विशदम् ।
प्राणैर्यदि शूराणां भवति यशः किं न पर्याप्तम्। -तदेवं सुभटदृष्टान्तं प्रदर्श्य दान्तिकमाहएवं समुट्ठिए भिक्खू, वोसिञ्जाऽगारबंधणं ।
आरंभ तिरियं कटु अत्तत्ताए परिव्वए। वृ.यथासुभटाज्ञाता नामतः कुलतः शौर्यतः शिक्षातश्चतथा सन्नद्धबद्धपरिकराः करगृहीतहेतयः प्रतिभटसमितिभेदिनोन पृष्ठतोऽवलोकयन्ति,एवं भिक्षुरपि' साधुरपिमहासत्त्वः परलोकप्रतिस्पर्द्धिनमिन्द्रियकषायादिकमरिवगंजेतुं सम्यक्-संयमोत्थानेनोत्थितः समुत्थितः, तथाचोक्तम् ॥१॥ “कोहं माणं च मायं च, लोहं पंचिंदियाणि य ।
दुजयंचेवमप्पाणं, सव्वमप्पे जिए जियं ॥ किं कृत्वा समुत्थितइति दर्शयति- व्युत्सृज्य' त्यक्त्वा अगारबन्धनं गृहपाशंतथा ‘आरम्भं' सावद्यानुष्ठानरूपं 'तिर्यक्कृत्वा' अपहस्त्य आत्मनो भाव आत्मत्वम्-अशेषकर्मकलङ्करहितत्वं तस्मै आत्मत्वाय, यदिवा-आत्मा-मोक्षः संयमो वा तद्मावस्तस्मै-तदर्थं परि-समन्ताद्ब्रजेत्संयमानुष्ठा- नक्रियायां दत्तावधानो भवेदित्यर्थः।। मू. (२११) तमेगे परिभासंति, भिक्खूयं साहुजीविणं ।
जे एवं परिभासंति, अंतए ते समाहिए। वृ.नियुक्तौ यदभिहितमध्यात्मविषीदनंतदुक्तम्, इदानीं परवादिवचनंद्वितीयमर्थाधिकारमधिकृत्याह-'त' मिति साधुम् ‘एके ये परस्परोपकाररहितं दर्शनमापन्ना अयःशलाकाकल्पः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org