________________
१०२
सूत्रकृताङ्ग सूत्रम् १/३/३/२११
ते च गोशालकमतानुसारिण आजीविका दिगम्बरावा, त एवं वक्ष्यमाणंपरि-समन्ताभाषन्ते। तंभिक्षुकं साध्वाचारं साधु-शोभनं परोपकारपूर्वकंजीवितुंशीलमस्य स साधुजीविनमिति, 'ये' ते अपुष्टधर्माण एवं' वक्ष्यमाणं परिभाषन्ते' साध्वाचारनिन्दां विदधति त एवंभूता 'अन्तके' पर्यन्तेदूरे समाधेः' मोक्षाख्यात्सम्यग्ध्यानात्सदनुष्ठानात्वावर्तन्त इति यत्तेप्रभाषन्ते तद्दर्शयितुमाहमू. (२१२) संबद्धसमकप्पा उ, अन्नमन्नेसु मुच्छिया।
पिंडवायं गिलाणस्स, जंसारेह दलाह य॥ वृ. सम्-एकीभावेन परस्परोपकार्योपकारितयाच बद्धाः' पुत्रकलत्रादिस्नेहपाशैः सम्बद्धागृहस्थास्तैः समः-तुल्यः कल्पो-व्यवहारोऽनुष्ठानंयेषान्तेसम्बद्धसमकल्पा-गृहस्थानुष्ठानतुल्यानुष्ठाना इत्यर्थः, तथाहि-यथा गृहस्था परस्परोपकारेण माता पुत्रे पुत्रोऽपि मात्रादावित्येवं 'मूर्छिता' अध्युपपन्नाः, एवं भवन्तोऽपि अन्योऽन्यं परस्परतः शिष्याचार्याधुपकारक्रियाकल्पनयामूर्छिताः
तथाहि-गृहस्थानामयंन्यायो यदुत-परस्मैदानादिनोपकार इति, नतुयतीनां, कथमन्योऽन्यं मूर्च्छिता इति दर्शयति-'पिण्डपातं' भैक्ष्यं ग्लानस्य' अपरस्य रोगिणः साधोः यद्-यस्मात् सारेह'त्ति अन्वेषयत, तथा 'दलाहय'त्ति ग्लानयोग्यमाहारमन्विष्य तदुपकारार्थं ददध्वं, चशब्दादाचार्यादेः वैयावृत्त्यकरणाद्युपकारेण वर्तध्वं, ततो गृहस्थसमकल्पा इति । मू. (२१३) एवं तुब्भे सरागत्था, अन्नमन्नमणुव्वसा।
नट्ठसप्पहसब्भावा, संसारस्स अपारगा॥ वृ. साम्प्रतमुपसंहारव्याजेन दोषदर्शनायाह-‘एवं' परस्परोपकारादिना यूयं गृहस्था इव सराग- स्थाः-सह रागेण वर्तत इति सरागः-स्वभावस्तस्मिन् तिष्ठन्तीति ते तथा, 'अन्योऽन्यं' परस्परतो वशमुपागताः-परस्परायत्ताः, यतयो हि निःसङ्गतया न कस्यचिदायत्ता भवन्ति, यतो गृहस्थानामयं न्याय इति, तथा नष्टः-अपगतः सत्पथः-सद्भावः-सन्मार्ग परमार्थो येभ्यस्ते तथा एवम्भूताश्च यूयं 'संसारस्य' चतुर्गतिभ्रमणलक्षणस्य ‘अपारगा' अतीरगामिन इति अयं तावत्पूर्वपक्षः, अस्यच दूषणायाहमू. (२१४) अह ते परिभासेजा, भिक्खु मोक्खविसारए।
एवं तुब्भे पभासंता, दुपक्खं चेव सेवह ॥ वृ. 'अथ' अनन्तरं 'तान्' एवं प्रतिकूलत्वेनोपस्थितान् भिक्षु ‘परिभाषेत' ब्रूयात्, किम्भूतः ? 'मोक्षविशारदो' मोक्षमार्गस्य-सम्यग्ज्ञानदर्शनचारित्ररूपस्य प्ररूपकः, एवम् अनन्तरोक्तं यूयंप्रभाषमाणाः सन्तः दुष्टः पक्षो दुष्पक्षः-असत्प्रतिज्ञाभ्युपगमस्तमेवसेवध्वं यूयं, यदिवा
रागद्वेषात्मकं पक्षद्वयं सेवध्वं यूयं, तथाहि-सदोषस्याप्यात्मीयपक्षस्य समर्थनाद्रागो, निष्कलङ्कस्याप्यस्मदभ्युपगमस्य दूषणाद्वेषः, अथै वं पक्षद्वयं सेवध्वं यूयं, तद्यथा-वक्ष्यमामनीत्या बीजोदकोद्दिष्टकृतभोजित्वाद्गृहस्थाः यतिलिङ्गाभ्युपगमात्किल प्रव्रजिताश्चेत्येवं पक्षद्वयासेवनं भवतामिति, यदिवा-स्वतोऽसदनुष्ठानमपरञ्च सदनुष्ठायिनां निन्दनमितिभावः। मू. (२१५) तुब्भे भुंजह पाएसु, गिलाणो अभिहडंमि या।
तं च बीओदगं भोच्चा, तमुद्दिस्सादि जंकडं ॥ वृ. आजीविकादीनां परतीर्थिकानां दिगम्बराणां चासदाचारनिरूपणायाह-किल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org