________________
१००
सूत्रकृताङ्ग सूत्रम् १/३/३/२०४ सङ्ग्रामे सुभटसङ्कुले कोजानातिकस्यात्रपराजयोभविष्यतीति?, यतो दैवायत्ताः कार्यसिद्धयः, स्तोकैरपि बहवो जीयन्त इति ॥ मू. (२०५) मुहुत्ताणं मुहुत्तस्स, मुहत्तो होइ तारिसो।
पराजियाऽवसप्पामो, इति भीरू उवेहई। वृ. किञ्चमुहूर्त्तानामेकस्य वा मुहूर्तस्यापरो 'मुहूर्त कालविशेषलक्षणोऽवसरस्ताग्भवति यत्र जयः पराजयो वा सम्भाव्यते, तत्रैवं व्यवस्थिते पराजिता वयम् "अवसामो नश्याम इत्येतदपि सम्भाव्यते अस्मद्विधानामिति भीरु पृष्ठत आपप्रतीकारार्थं शरणमुपेक्षते ।। इति श्लोकद्वयेन दृष्टान्तं प्रदर्श्य दार्शन्तिकमाहमू. (२०६) एवं तु समणा एगे, अबलं नच्चाण अप्पगं।
____ अनागयं भयं दिस्स, अविकप्पंतिमं सुयं ॥ वृ. 'एवम्' इति यथा सङ्ग्रामं प्रवेष्टुमिच्छुः पृष्ठतोऽवलोकयति-किमत्र मम पराभग्नस्य वलयादिकं शरणं त्राणाय स्यादिति ?, एवमेव 'श्रमणाः' प्रव्रजिता ‘एके' केचनादृढमतयोऽल्पसत्त्वा आत्मानम् 'अबलं' यावजीवं संयमाभारवहनाक्षमं ज्ञात्वा अनागतमेव भयं दृष्ट्वा' उत्प्रेक्ष्य तद्यथा-निष्किञ्च- नोऽहं किं मम वृद्धावस्थायां ग्लानाद्यवस्थायां दुर्भिक्षे वा त्राणाय स्यादित्येवमाजीविकाभयमुप्रेक्ष्य 'अवकल्पयन्ति' परिकल्पयन्ति मन्यन्ते-इदं व्याकरणं गणितं जोतिष्कं वैद्यकं होराशास्त्रं मन्त्रादिकं वा श्रुत मधीतं ममावमादौ त्राणाय स्यादिति॥ मू. (२०७) को जाणइ विऊवातं, इत्थीओ उदगाउ वा।
चोइजंता पवक्खाणो, न नो अस्थिपकप्पियं। वृ. एतच्चैतेऽवकल्पयन्तीत्याह-अल्पसत्त्वाः प्राणिनो विचित्रा च कर्मणां गति बहूनि प्रमादस्थानानि विद्यन्ते अतः 'को जानाति?' कः परिच्छिनत्ति व्यापातं संयमजीवितात्भ्रंशं, केन पराजितस्य मम संयमाद् भ्रंशः स्यादिति, किम् 'स्त्रीतः' स्त्रीपरिषहात् उत 'उदकात्' स्नानाद्यर्थमुदकासेवनाभिलाषाद् ? इत्येवं ते वराकाः प्रकल्पयन्ति, न 'नः' अस्माकं किञ्चन 'प्रकल्पितं' पूर्वोपार्जितद्रव्यजा-तमस्ति यत्तस्यामवस्थायामुपयोगंयास्यति, अतः 'चोद्यमानाः' परेण पृच्छ्यमाना हस्तिशिक्षा-धनुर्वेदादिकं कुटिलविण्टलादिकं वा 'प्रवक्ष्यामः' कथयिष्यामः प्रयोक्ष्याम इत्येवं ते हीनसत्त्वाः सम्प्रधार्य व्याकरणादौ श्रुते प्रयतन्त इति, न च तथापि मन्दभाग्यानामभिप्रेतार्थावाप्तिर्भवतीति, तथा चोक्तम्॥१॥ “उपशमफलाद्विधाबीजात्फलं धनमिच्छतां,
भवति विफलो यद्यायासस्तदत्र किमद्भुतम् ? ।
न नियतफलाः कर्तुर्भावाः फलान्तरमीशते, जनयति खलु व्रीहेर्बीजं न जातु यवाङ्कुरम् ।।
-इति उपसंहारार्थमाहमू. (२०१) इच्चेव पडिलेहंति, वलया पडिलेहिणो ।
वितिगिच्छसमावना, पंथाणं च अकोविया ॥ वृ. 'इत्येवमिति पूर्वप्रक्रान्तपरामर्शार्थ, यथा भीरवः सङ्ग्रामे प्रविविक्षवो वलयादिकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org