________________
श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशक :- २
सीदन्तश्चोदिताः- तत्करणं प्रत्याचार्यादिकैः पौनःपुन्येन प्रेरितास्तञ्चोदनामशक्नुवन्तः संयमानुष्ठानेनात्मानं 'यापयितुं' वर्तयितुमसमर्थांः सन्तः ।
'तत्र' तस्मिन् संयमे मोक्षैकगमहेतौ भवकोटिशतावाप्ते 'मन्दा' जडा 'विषीदन्ति' शीतलविहारिणो भवन्ति, तमेवाचिन्त्यचिन्तामणिकल्पं महापुरुषानुचीर्णं संयमं परित्यजन्ति, दृष्टान्तमाहऊर्ध्व यानमुद्यानं मार्गस्योन्नतो भाग उट्टङ्कमित्यर्थ तस्मिन् उद्यानशिरसि उत्क्षिप्तमहाभरा उक्षाणोऽतिदुर्बला यथाऽवसीदन्ति-ग्रीवां पातयित्वा तिष्ठन्ति नोत्क्षिप्तभरनिर्वाहका भवन्तीत्येवं तेऽपि भावमन्दा उत्क्षिप्तपञ्चमहाव्रतभारं वोढुमसमर्था पूर्वोक्तभावावर्ते परामग्ना विषीदन्ति किञ्चमू. (२०२) अचयंता व लूहेणं, उवहाणेण तज्जिया ।
तत्थ मंदा विसीयंति, उज्जाणंसि जरग्गवा ।।
वृ. 'रूक्षेण' संयमेनात्मानं यापयितुमशक्नुवन्तः तथा 'उपधानेन' अनशनादिना सवाह्याभ्यतेरण तपसा 'तर्जिता' बाधिताः सन्तः तत्र संयमे मन्दा विषीदन्ति 'उद्यानशिरसि ' उट्टङ्कमस्तके 'जीर्णो' दुर्वलो गौरव, यूनोऽपि हि तत्रावसीदनं सम्भाव्यते किं पुनर्जरद्गवस्येति जीर्णग्रहणम् एवमावर्तमन्तरेणापि धृतिसंहननोपेतस्य विवेकिनोऽप्यवसीदनं सम्भाव्यते, किं पुनरावर्तैरुपसर्गितानां मन्दानामिति ॥
मू. (२०३)
एवं निमंतणं लद्धुं, मुच्छिया गिद्ध इत्थीसु ।
अज्झोववन्ना कामेहिं, चोइजंता गया गिहं । त्तिबेमि ।।
९९
बृ. सर्वोपसंहारमाह-‘एवं' पूर्वोक्तया नीत्या विषयोपभोगोपकरणदानपूर्वकं 'निमन्त्रणं' विषयोपभोगं प्रति प्रार्थनं ‘लब्ध्वा' प्राप्य 'तेषु' विषयोपकरणेषु हस्त्यश्वरथादिषु 'मूर्च्छिता' अत्यन्तासक्ताः । तथा स्त्रीषु 'गृद्धा' दत्तावधाना रमणीरागमोहिताः तथा 'कामेषु' इच्छामदनरूपेषु 'अध्युपपन्नाः' कामगतचित्ताः संयमेऽवसीदन्तोऽपरेणोद्युक्तविहारिणा नोद्यमानाः संयमं प्रति प्रोत्साह्यमाना नोदनां सोढुमशक्नुवन्तः सन्तो गुरुकर्माणः प्रव्रज्यां परित्यज्याल्पसत्त्वा गृहं गतागृहस्थीभूताः । इति परिसमाप्तौ ब्रवीमीति पूर्ववत् ।
अध्ययनं ३ उद्देशकः-२ समाप्तः
-: अध्ययनं -३ उद्देशकः-३ :
वृ. उपसर्गपरिज्ञायां उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशकाभ्यामुपसर्गा अनुकूलप्रतिकूल भेदेनाभिहिताः, तैश्चाध्यात्मविषीदनं भवतीति तदनेन प्रतिपाद्यत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्यादि सूत्रम्
मू. (२०४)
जहा संगामकालंमि, पिट्ठतो भीरु वेहइ । वलयं गहणं नूमं, को जाणइ पराजयं !
वृ. दृष्टान्तेन हि मन्दमतीनां सुखेनैवार्थावगतिर्भवतीत्यत आदावेव ध्यन्तमाह-यथा कश्चिद् 'भीरु' अकृतकरण: 'संग्रामकाले' परानीकयुद्धावसरे समुपस्थिते 'पृष्ठतः प्रेक्षते' आदावेचापत्प्रतीकारहेतुभूतं दुर्गादिकं स्थानमवलोकयति । तदेव दर्शयति- 'वलय' मिति यत्रोदकं वलयाकारेण व्यवस्थितम् उदकरहिता वा गर्ता दुःखनिर्गमप्रवेशा, तथा 'गहनं' धवादिवृक्षैः कटिसंस्थानीयं 'नूमं 'ति प्रच्छन्नं गिरिगुहादिकं किमित्यसा वेवमवलोकयति ?, यत एवं मन्यते तत्रैवम्भूते तुमुले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
"