SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग सूत्रम् १/३/२/१९६ वृ. 'राजानः' चक्रवत्यादयो राजामात्याश्च' मन्त्रीपुरोहितप्रभृतयः तथा ब्राह्मणा अथवा 'क्षत्रिया' इक्ष्वाकुवंशजप्रभृतयः, एते सर्वेऽपि भोगैः' शब्दादिभिर्विषयैः 'निमन्त्रयन्ति' भोगोपभोगं प्रत्यभ्युपगमं कारयन्ति, कम्? -भिक्षुकं ‘साधुजीविणमिति साध्वाचारेण जीवितुंशीलमस्येति साधुजीविनमिति, यथा ब्रह्मदत्तचक्रवर्तिना नानाविधैर्भोगैश्चित्रसारुपनिमन्त्रित इति । एवमन्येऽपिकेनचित्सम्बन्धेन व्यवस्थितायौवनरूपादिगुणोपेतंसाधुं विषयोद्देशोप-निमन्त्रयेयुरिति मू. (१९७) हत्थऽस्सरहजाणेहिं, विहारगमणेहि य। भुंज भोगे इमे सग्घे, महरिसी! पूजयामुतं ॥ वृ. एतदेव दर्शयितुमाह-हस्त्यश्वरथयानैः तथा विहारगमनैः' विहरणं क्रीडनं विहारस्तेन गमनानि विहारगमनानि-उद्यानादौ क्रीडया गमनानीत्यर्थः, चशब्दादन्यैश्चेन्द्रियानुकूलैविषयैरुपनिमन्त्रयेयुः, तद्यथा-भुङ्क भोगान्' शब्दादिविषयान् ‘इमान्' अस्माभिौंकितान्प्रत्यक्षासन्नान् ‘श्लाध्यान्' प्रशस्तान् अनिन्द्यान् ‘महर्षे' साधो! वयं विषयोपकरणढौकनेन ‘त्वां' भवन्तं 'पूजयामः' सत्कारयाम इति किञ्चान्यत्मू. (१९८) वत्थगंधमलंकारं, इत्थीओ सयणाणि य । भुंजाहिमाई भोगाई, आउसो! पूजयामुतं । वृ. 'वस्त्रं' चीनांशुकादि गन्धाः' कोष्ठपुटपाकादयः, वस्त्राणि च गन्धाश्च वस्त्रगन्धमिति समाहारद्वन्द्वः तथा 'अलङ्कारम्' कटककेयूरादिकं तथा 'स्त्रियः' प्रत्यग्रयौवनाः ‘शयनानि च' पर्यऋतूलाप्रच्छदपटोपधानयुक्तानि,इमान् भोगानिन्द्रियमनोऽनुकूलानस्माभिौकितान् ‘भुंज' तदुपभोगेन सफलीकुरु, हे आयुष्मन् ! भवन्तं पूजयामः' सत्कारयाम इति । मू. (१९९) जो तुमे नियमो चिन्नो, भिक्खुभावंमि सुव्वया!। अगारमावसंतस्स, सव्वो संविजए तहा।। वृ.अपिच-यस्त्वया पूर्व 'भिक्षुभावे' प्रव्रज्यावसरे 'नियमो' महाव्रतादिरूपः 'चीर्ण अनुष्ठितः इन्द्रियनोइन्द्रियोपशमगतेन हे सुव्रत! ससाम्प्रतमपि अगारं' गृहम् 'आवसतः' गृहस्थभावंसम्यग् अनुपालयतोभवतस्तथैव विद्यत इति, न हि सुकृतदुष्कृतस्यानुचीर्णस्य नाशोऽस्तीति भावः। किञ्च. भू. (२००) चिरं दूइज्जमाणस्स, दोसो दाणिं कुतो तव? । इनेवणं निमंतेति, नीवारेण व सूयरं ।। "चिरं' प्रभूतं कालं संयमानुष्ठानेन ‘दूइज्जमाणस्स'त्ति विहरतः सतः ‘इदानीं' साम्प्रतंदोषः कुतस्तव?, नैवास्तीति भावः, इत्येवंहस्त्यश्वरथादिभिर्वस्त्रगन्धालङ्कारादिभिश्च नानाविधैरुपभौगोप-करणैः करणभूतैः 'ण' मिति वाक्यालङ्कारे 'त' भिक्षुसाधुजीविनं निमन्त्रयन्ति' भोगबुद्धिं कारयन्ति दृष्टान्तंदर्शयति-यथा 'नीवारेण' व्रीहिविशेषकणदानेन 'सूकरं' वराहं कूटकेप्रवेशयन्ति एवं तमपि सामिति ॥ भू(२०५चोया भिक्खारवाए. अचयंता जवित्तए। तत्थ मंदादिसीयंति, उजाणंसि व दुब्बला॥ इ.अनोपास्तवार्तोपसंहारार्थमाह-भिक्षूणां-साधूनामुधुक्तविहारिणांचर्या-दशविधचकवालसामाचारी इच्यामित्यादिका तमा चोदिता:-प्रेरिता यदिवा भिक्षुचर्यया करणभूतया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy