SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-३, उद्देशकः - २ मू. (१९२) विबद्धो नातिसंगेहिं, हत्थीवावी नवग्गहे । पिट्ठतो परिसप्पंति, सुयगोव्व अदूरए। वृ. विविधं बद्धः-परवशीकृतः विबद्धो ज्ञातिसङ्गैः-मातापित्रादिसम्बन्धैः, ते च तस्य तस्मिन्नवसरेसर्वमनुकूलमनुतिष्ठन्तो धृतिमुत्पादयन्ति, हस्तीवापि नवग्रहे' अभिनवग्रहणे, (यथा स) धृत्युत्पादनार्थमिक्षुशकलादिभिरुपचर्यते, एवमसावपि सर्वानुकूलैरुपायैरुपचर्यते, दृष्टान्तान्तरमाह-यथाऽभिनवप्रसूता गौर्निजस्तनन्धयस्य 'अदूरगा' समीपवर्तिनी सती पृष्ठतः परिसर्पति, एवं तेऽपि निजा उप्रव्रजितंपुनर्जातमिवमन्यमानाः पृष्ठतोऽनुसर्पन्ति-तन्मार्गानुयायिनो भवन्तीत्यर्थः॥ मू. (१९३) एते संगा मणूसाणं, पाताला व अतारिमा । कीवा जत्थ य किस्संति, नाइसंगेहिं मुच्छिया । वृ. सङ्गदोषदर्शनायाह एते' पूर्वोक्ताः सज्यन्तइतिसङ्गाः-मातृपित्रादिसम्बन्धाःकर्मोपादानहेतवः, मनुष्याणां ‘पाताला इव' समुद्रा इवाप्रतिष्ठितभूमितलत्वात् ते अतारिमत्ति दुस्तराः, एवमेतेऽपि सङ्गा अल्पसत्त्चैदुखेनातिलङ्घयन्ते, 'यत्रच' येषुसङ्गेषु क्लीबा' असमर्था 'क्लिश्यन्ति' क्लेशमनुभवन्ति, संसारान्तर्वर्तिनो भवन्तीत्यर्थ, किंभूताः ? -'ज्ञातिसङ्गैः पुत्रादिसम्बन्धैः मूर्छिता' गृद्धा अध्युपपन्नाः सन्तो, न पर्यालोचयन्त्यात्मानं संसारान्तर्वर्तिनमेवं क्लिश्यन्तमिति अपिचमू. (१९४) तंच भिक्खू परिनाय, सव्वे संगा महासवा । जीवियं नावकंखिज्जा, सोच्चा, धम्ममनुत्तरं॥ वृ. 'तंच' ज्ञातिसङ्गं संसारैकहेतुंभिक्षुपिरिज्ञया (ज्ञात्वा) प्रत्याख्यानपरिज्ञया परिहरेत् किमिति?, यतः ‘सर्वेऽपि' ये केचन सङ्गास्ते ‘महाश्रवा' महान्ति कर्मण आश्रवद्वाराणि वर्तन्ते ततोऽनुकूलैरुपसर्गरुपस्थितैरसंयमजीवितं-गृहावासपाशं 'नाभिकाक्षेत्' नाभिलषेत्, प्रतिकूलैश्चोपसर्ग सद्भिर्जीविताभिलाषीनभवेद, असमञ्जसकारित्वेन भवजीवितं नाभिकाङ्क्षत् कि कृत्वा ?-'श्रुत्वा' निशम्यावगम्य, कम् ?-'धर्म' श्रुतचारित्राख्यं, नास्योत्तरोऽस्तीत्यनुत्तरंप्रधानं मौनीन्द्रमित्यर्थः ।। मू. (१९५) अहिमे संति आवट्टा, कासवेणं पवेइया। बुद्धा जत्थावसप्पंति, सीयंति अबुहा जहिं ।। वृ.अन्यच्च-'अथे' त्यधिकारान्तरदर्शनार्थ, पाठान्तरं वा 'अहो' इति, तच्च विस्मये, ‘इमे' इति एते प्रत्यक्षासन्नाः सर्वजनविदितत्वात् ‘सन्ति' विद्यन्ते वक्ष्यमाणा आवर्तयन्ति-प्राणिनं भ्रामय-न्तीत्वावर्ता, तत्र द्रव्यावर्तानद्यादेः भावावर्तास्तूत्कटमोहोदयापादितविषयाभिलाषसंपादकसंपप्रार्थनाविशेषाः । एतेचावर्ता 'काश्यपेन' श्रीमन्महावीरवर्द्धमानस्वामिना उत्पन्नदिव्यज्ञानेन 'आ(प्र)वेदिताः' कथिताः प्रतिपादिताः 'यत्र' येषु सत्सु 'बुद्धा' अवगततत्त्वा आवर्तविपाकवेदिनस्तेभ्यः 'अपसर्पन्ति' अप्रमत्ततया तद्दूरगामिनो भवन्ति, अबुद्धास्तु निर्विवेकतया येष्ववसीदन्ति-आसक्ति कुर्वन्तीति तानेवावर्तान् दर्शयितुमाहमू. (१९६) रायाणो रायऽमञ्चा य, माहणा अदुव खत्तिया। निमंतयंति भोगेहिं, भिक्खूयं साहुजीविणं । 27 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy