________________
९६
आचाराङ्ग सूत्रम् १/-/२/१/- [नि. १७७]
नि. [१७७]
जह सव्वपायवाणं भूमी पइट्टियाई मूलाई । इय कम्मपायवाणं संसारपइट्ठिया मूला ॥
वृ. यथा सर्वपादपानां भूमौ प्रतिष्ठितानि मूलानि, एवं कर्मपादपानां संसारे कषायरूपाणि मूलानि प्रतिष्ठितानीति गाथार्थः ।। ननु च कथमेतच्छ्रद्धेयं-कर्म्मणः कषाया मूलमिति ?, उच्यते, यतो मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः, तथा चागम; - “जीवे णं भंते! कतिहि ठाणेहिं णाणावरणिज्जं कम्मं बंधइ ?, गोयमा ! दोहिं ठाणेहिं, तंजहारागेण व दोसेण व । रागे दुविहेमाया लोभे य, दोसे दुविहे - कोहे य माणे य। एएहिं चउहिं ठाणेहिं वीरिओवगृहिएहिं नाणावरणिज्जं कम्मं बंधइ” एवमष्टानामपि कर्म्मणां योज्यमिति । ते च कषाया मोहनीयान्तःपातिनोऽष्टप्रकारस्य च कर्म्मणः कारणं, मोहनीयं कामगुणानां च (इति) दर्शयति - अट्ठविहकम्मरुक्खा सव्वे ते मोहणिज्जमूलागा । कामगुणमूलगं वा तम्मूलागं च संसारो ॥
नि. [१७८ ]
वृ. यदवादि प्राक् - 'इय कम्मपायवाणं' तत्र कतिप्रकाराः ते कर्म्मपादपाः किंकारणा श्चेति?, उच्यते-अष्टविधकर्म्मवृक्षाः, ते सर्वेऽपि मोहनीयमूलाः, न केवलं कषायाः, कामगुणा अपि मोहनीयमूलाः यस्माद्वेदोदयात् कामाः, वेदश्च मोहनीयान्तःपातीत्यतस्तन्मोहनीयं मूलम्आद्यं कारणं यस्य संसारस्य स तथा इति गाथार्थः । तदेवं पारम्पर्येण संसारकषायकामानां कारण- त्वान्मोहनीयं प्रधानभावमनुभवति, तत्क्षये चावश्यम्भावी कर्म्मक्षयः, तथा चाभाणि - “जेह मत्थयसूईए, हयए हम्मए तलो । तहा कम्माणि हम्मंति, मोहणिजे खयं गए'
11911
- तच्च द्विधा-दर्शनचारित्रमोहनीयभेदात्, एतदेवाह - दुविहो अ होइ मोहो दंसणमोहो चरित्तमोहो अ ।
नि. [१७९]
कामा चरित्तमोहो तेणहिगारो इहं सुत्ते ॥
वृ. मोहनीयं कर्म्म द्वेधा भवति, दर्शनमोहनीयं चारित्रमोहनीयं चेति, बन्धहेतोर्थैविध्यात्, तथाहि - अर्हत्सिद्धचैत्यतपः श्रुतगुरुसाधुसङ्घप्रत्यनीकतया दर्शनमोहनीयं कर्म्म बघ्नाति, येन चासावनन्तरसंसारसमुद्रान्तः पात्येवावतिष्ठते, तथा तीव्रकषायबहुरागद्वेषमोहाभिभूतः सन् देशसर्वविरत्युपघाति चारित्रमोहनीयं कर्म्म बघ्नाति, तत्र मिध्यात्वसम्यग्मिथ्यात्वसम्यक्त्वभेदात्रेधा दर्शनमोहनीयं, तथा षोडशकषायनवनोकषायभेदाच्चारित्रमोहनीयं पञ्चविंशतिधा, तत्र कामाः शब्दादयः पञ्च चारित्रमोहः, तेन चात्र सूत्रेऽधिकारो, यतः कषायाणां स्थानमत्र प्रकृतं तच्च शब्दादिकपञ्चगुणात्मकमिति गाथार्थः ।। तत्र चारित्रमोहनीयोत्तरप्रकृतिस्त्रीपुंनपुंसकवेदहास्यरतिलोभाश्रितकामाश्रयिणः कषायाः संसारमूलस्य च कर्म्मणः प्रधानं कारणमिति प्रचकटयिषुराहनि. [१८० ] संसारस्स उ मूलं कम्मं तस्सवि हुंति य कसाया ।
ते सयणपेस अत्थाइएसु अज्झत्यओ अ ठिआ ॥
वृ. 'संसारस्य' नारकतिर्यग्नरामरगतिसंसृतिरूपस्य (मूलं) कारणमष्टप्रकारं कर्म्म, तस्यापि कर्म्मणः-क्रोधादयोनिमित्तंभवन्ति । तेषां च प्रतिपादितशब्दादिस्थानानां प्रचुरस्थानत्वप्रतिपादनाय पुनरपि स्थानविशेषं गाथाशकलेनाह - स्वजनः पूर्वापरसंस्तुतो मातापितृश्वशुरादिकः प्रेष्योभृत्यादिरर्थो - धनधान्यकुप्य- वास्तुरत्नभेदरूपः ते स्वजनादयः कृतद्वन्द्वा आदिर्येषां मित्रादीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org