________________
श्रुतस्कन्धः- १, अध्ययनं-२, उद्देशकः१
लोकोत्तरश्च, तस्य स्थानं प्रग्रहस्थानं, लौकिकं तावत्पञ्चविधं, तद्यथा-राजा युवराजो महत्तरः अमात्यः कुमारश्चेति, लोकोत्तरमपि पञ्चविधं, तद्यथा-आचार्योपाध्यायप्रवृत्तिस्थविरगणावच्छेदकभेदादिति । योधस्थानं पञ्चधा, तद्यथा-आलीढप्रत्यालीढवैशाखमण्डलसमपाद भेदात् । अचलस्थानं तु चतुर्द्धा-सादिसपर्यवसानादिभेदात्, तद्यथा-सादिसपर्यवसानं परमाण्वादेर्द्रव्यस्यैकप्रदेशादाववस्थानं । जघन्यत एकं समयमुत्कृष्टतश्चासङ्घयेयकालमिति, साद्यपर्यवसानं सिद्धानां भविष्यदद्धारूपम्, अनादिसपर्यवसानमतीताद्धारूपस्य शैलेस्यवस्थान्त्यसमये कार्मणतैजसशरीरभव्यत्वानां चेति, अनाद्यपर्यवसानं धमाधमाकाशानामिति गणनास्थानमेकद्वयादिकं शीर्षप्रहेलिकापर्यन्तं।सन्धानस्थानंद्विधा-द्रव्यतोभावतश्च, पुनरप्येकैकं द्विधा-छिन्नाच्छिन्नभेदात्, तत्र द्रव्यच्छिन्नसन्धानं कञ्चुकादेः, अच्छिन्नसन्धानं तु पक्ष्मोत्पद्यमानतन्त्वादेरिति, भावसन्धानमपिप्रशस्ताप्रशस्तभेदात्द्वेधा, तत्रप्रशस्ताच्छिन्नमावसन्धानमुपशमक्षपकश्रेण्यामारोहतो जन्तोरपूर्वसंयमस्थानान्यच्छिन्नान्येव भवन्ति, श्रेणिव्यतिरेकेण वा प्रवर्द्धमानकण्डकस्येति, छिन्नप्रशस्तभावसन्धानं पुनरौपशमिकादिभावादौदयिकादिभावान्तरगतस्य पुनरपिशुद्धपरिणामवतः तत्रैव गमनम्, अप्रशस्ताच्छिन्नभावसन्धानमुपशमश्रेण्याः प्रतिपततोऽविशुद्धयमानपरिणामस्यानन्तानुबन्धिमिथ्यात्वोदयं यावत्, उपशमश्रेणिमन्तरेणापि कषायवशात्बन्धाध्यवसायस्थानान्युत्तरोत्तराण्यवगाहमानस्यवाइति, अप्रशस्तच्छिन्नभावसन्धानं पुनरौदयिकभावादौपशमिकादिभावान्तरसङकान्तौ सत्यां पुनस्तत्रैव गमनमिति । इह द्वारद्वयं योगपद्येन व्याख्यातं, तत्र सन्धानस्थानं द्रव्यविषयमितरत्तुभावविषयमित्युक्तंस्थानम्॥अथवा भावस्थानं कषायाणां यत् स्थानं तदिह परिगृह्यते, तेषामेव जेतव्यत्वेनाधिकृतत्वात्, तेषां किं स्थानं?, यदाश्रित्य च ते भवन्ति, शब्दादिविषयानाश्रित्य च ते भवन्तीति तद्दर्शयतिनि. [१७६] पंचसु कामगुणेसुय सद्दप्फरिसरसरूवगंधेसुं।
जस्स कसाया वटुंतिमूलट्ठाणंतु संसारे ॥ वृ. तत्रेच्छानगरूपः कामस्तस्य गुणा यानाश्रित्यासौ चेतसो विकारमादर्शयति, ते च शब्दस्पर्शररूपगन्धास्तेषु पञ्चस्वपिव्यस्तेषुसमस्तेषुवा विषयभूतेषु यस्य' जन्तोर्विषय-सुखपिपासोन्मुखस्यापरमार्थदर्शिनः संसाराभिष्वङ्गिणोरागद्वेषतिमिरोपप्लुतहटेर्मनोज्ञेतर-विषयोपलब्धौ सत्यां कषाया ‘वर्तन्ते' प्रादुर्भवन्ति, तन्मूलश्च संसारपादपः प्रादुर्भवतीत्यतः शब्दादिविषयोदमुत(ताः) कषायाः “संसारे' संसारविषयं मूलस्थानमेवेति, एतदुक्तं भवति-रागाद्युपहतचेताः परमार्थमजानानोऽतत्स्वभावेऽपि तत्स्वभावारोपणेनान्धादप्यन्धतमः कामी मोदते, यत आह॥१॥ “श्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं,
रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत् पश्यति। । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोष्याशुचिराशिषुप्रियतमागात्रेषुयन्मोदते॥
द्वेषं वा कर्कशब्दादौ व्रजतीति, ततश्च मनोज्ञेतरशब्दादिविषयाः कषायाणां मूलस्थानं, ते च संसारस्येति गाथातात्पर्यार्थः ।। यदि नाम शब्दादिविषयाः कषायाः कथं तेभ्यः संसार इति?, उच्यते, यतः कर्मस्थितेः कषाया मूलं, साऽपि संसारस्य, संसारिणश्यावश्यंभाविनः कषाया इति, एतदेवाह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org