________________
९४
आचाराङ्ग सूत्रम् १/-/२/१/- [नि. १७५]
॥३॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् ।
तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम्॥ ॥४॥ योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः ।
तस्मात्कल्याणानां सर्वेषां भाजनं विनयः॥" इत्यादि संसारस्य त्वादिमूलं विषयकषाया इति ।।मूलमुक्तमिदानीं स्थानस्य पञ्चदशधा निक्षेपमाहनि. [१७५] नामंठवणादविए खित्तद्धा उड्ढ उवरई वसही।
संजम पग्गह जोहे अयल गणण संघणा भावे॥ वृ.तत्रद्रव्यस्थानं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्याणां सचित्ताचित्तमिश्राणां स्थानम्आश्रयः, क्षेत्रस्थानं भरतादि उधिस्तिर्यग्लोकादिति, यत्र वा क्षेत्रे स्थानं व्याख्यायते, अद्धाकालः तत्स्थानं द्विधा-कायस्थितिभवस्थितिभेदात्, तत्र कायस्थितिः पृथिव्यप्तेजोवायूनामसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः, वनस्पतेस्तु ता एवानन्ताः, विकलेन्द्रियाणामसङ्घयेया वर्षसहाम्राः पञ्चेन्द्रियतिर्यग्मनुजानां सप्ताष्टौ वा भवाः । भवस्थितिस्तु वायूदकवनस्पतिपृथिवीनां त्रिसप्तदशद्वाविंशतिवर्षसहात्मिका, तेजसस्त्रीण्यहोरात्राणि, द्वीन्द्रियाणां शङ्खादीनां द्वादश वर्षाणि, त्रीन्द्रियाणां पिपीलिकादीनामेकोनपञ्चाशदहोरात्राणि, चतुरिन्द्रियाणां भ्रमरादीनां षण्मासाः, पञ्चेन्द्रियतिर्यग्मनुष्याणां त्रीणि पल्योपमानि, देवानांनारकाणांचकायस्थितेरभावाद्भवस्थितिः त्रयस्त्रिंशत्सागरोपमाणीति, इयमुत्कृष्टा द्विरूपापि, जघन्या तु सर्वेषामन्तर्मुहूर्तात्मिका, नवरं देवनारकयोर्दश वर्षहस्राणीति, अथवा अद्धास्थानं-समयावलिकामुहूर्ताहोरात्रपक्षमासवयनसंवत्सरयुगपल्योपमसागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावर्तातीतानागतसर्वाद्धारूपमिति । उर्द्धवस्थानं तु कायोत्सर्गादिकम्, अस्योपलक्षणत्वानिषण्णाद्यपि गृह्यते।
उपरतिः-विरतिः, तत्स्थानंदेशेसर्वत्रच श्रावकसाधुविषयं वसतिस्थानंयोयत्रग्रामगृहादौ वसति । संयमस्थानं संयमः-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपः, तस्य पञ्चविधस्याप्यसङ्ख्येयानि संयमस्थानानि, कियदसङ्खयमिति चेत् अतीन्द्रियत्वादर्थस्य न साक्षानिर्देष्टुं शक्यते, आगमानुसारोपमया तूच्यते-इहैकसमयेन सूक्ष्माग्निजीवा असङ्खयेयलोकाकाशप्रदेशप्रमाणा उत्पद्यन्ते, तेभ्योऽग्निकायत्वेन परिणता असङ्ख्येयगुणाः ततोऽपि तत्कायस्थितिरसङ्ख्येयगुणाः, ततोऽप्यनुभागबन्धाध्यवसायस्थानान्यसङ्खयेयगुणानि, संयमस्थानान्यप्येतावन्त्येवेति सामान्यतः, विशेषतस्तूच्यतेसामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीनां प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशतुल्यानि संयमस्थानानि, सूक्ष्मसम्परायस्य त्वान्तर्मुहूर्तिकत्वादन्तर्मुहूर्तसमयतुल्यान्यसङ्ख्येयानि संयमस्थानानि, यथाख्यातस्यत्वेकमेवाजघन्योत्कृष्टं संयमस्थानम्, अथवा संयमश्रेण्यन्तर्गतााने संयमस्थानानि ग्राह्याणि, सा चानेन क्रमेण भवति, तद्यथा-अनन्तचारित्रपर्यायनिष्पादितमेकं संयमस्थानम्, असङ्खयेयसंयमस्थाननिर्वर्तितं कण्डकं, तैश्चासङ्खयेयैर्जनितं षट्स्थानकं, तदसङ्खयेयात्मिका श्रेणीति।
प्रग्रहरथानंतुप्रकर्षणगृह्यतेवचोऽस्येतिप्रग्रहः ग्राह्यवाक्योनायकइत्यर्थः,सचलौकिको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org