________________
श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:
ऽऽत्यन्तिकैकान्तिकानाबाधपरमानन्दलक्षणसुखावाप्ति४श्चेति, क्षायोपशमिकःक्षायोपशमिकदर्शनाद्यवाप्तिरिति, पारिणामिको भव्यत्वादिरिति, सान्निपातिकस्तवौदयिकादिपञ्चभावसमकालनिष्पादितः, तद्यथा-मनुष्यगत्युदयादौदयिकः सम्पूर्णपञ्चेन्द्रियत्वावाप्तेःक्षायोपशमिकः दर्शनसप्तकक्षयात्क्षायिकःचारित्रमोहनीयोपशमदौपशमिकः भव्यत्वात्पारिणामिकइति, उक्तो जीवभावगुणः । साम्प्रतमजीवभावगुणः, स चौदयिकपारिणामिकयोरेव सम्भवति, नान्येषां, तत्रौदयिकस्तावउदयेभवऔदयिकः,सचाजीवाश्रयोऽनया विवक्षया, यदुत-काश्चित्प्रकृतयः पुद्गलविपाकिन्य एव भवन्ति, काः पुनस्ताः?, उच्यन्ते, औदारिकादीनि शरीराणि पञ्चषट् संस्थानानित्रीण्यङ्गोपाङ्गानिषट्संहननानिवर्णपञ्चकंगन्धद्वयंपञ्चरसाअष्टौ स्पर्शाअगुरुलघुनाम उपघातनामपराघातनामउद्योतनामआतपनामनिर्माणनामप्रत्येकनामसाधारणनामस्थिरनाम अस्थिरनाम शुभनाम अशुभनाम, एताः सर्वा अपि पुद्गलविपाकिन्यः, सत्यपिजीवसम्बन्धित्वे पुद्गलविपाकित्वादासामिति, पारिणामिकोऽजीवगुणस्तु द्वेधा - अनादिपारिणामिकः सादिपारिणामिकश्चेति, तत्रानादिपारिणामिको धर्माधर्माकाशानां गतिस्थित्यवगाहलक्षणः, सादिपारिणामिकस्त्वप्रेन्द्रधनुरादीनां परमाणूनां च वर्णादिगुणान्तरापत्तिरिति गाथा तात्पयार्थः ।।उक्तो गुणो, मूल निक्षेपार्थमाहनि. [१७३] मूले छक्कं दवे ओदइउवएस आइमूलं च ।
खित्ते काले मूलं भावे मूलं भवेतिविहं॥ वृ.मूलस्यषोढा निक्षेपो, नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, नामस्थापनेगतार्थे, द्रव्यमूलं ज्ञशरीरभव्यशरीरव्यतिरिक्तंत्रिधा-औदयिकमूलमुपदेशमूलमादिमूलंचेति, तत्रौदयिकद्रव्यमूलं वृक्षादीनां मूलत्वेन परिणतानि यानि द्रव्याणि, उपदेशमूलं यचिकित्सको रोगप्रतिघातसमर्थं मूलमुपदिशत्यातुरायेति, तच्चपिप्पलीमूलादिकं, आदिमूलंनामयवृक्षादिमूलोत्पत्तावाद्यंकारणं, तद्यत्स्थावरनामगोत्रप्रकृतिप्रत्ययान्मूलनिवर्तनोत्तरप्रकृतिप्रत्ययाच्चमूलमुत्पद्यते, एतदुक्तंभवति -तेषामौदारिकशरीत्वेमूलनिवर्तकानांपुद्गलानामुदयिष्यतांकाम॑णंशरीरमाधंकारणं, क्षेत्रमूलं यस्मिन् क्षेत्रे मूलमुत्पद्यतेव्याख्यायतेवा, एवंकालमूलमपि, यावन्तं वा कालंमूलमास्ते, भावमूलं तु विधेति गाथार्थः । तथाहिनि. [१७४] ओदाइयं उवदिट्ठा आइतिगंमूल भाव ओदइअं।
__ आयरिओ उवदिट्ठाविणयकसायादिओ आई। वृ. भावमूलं त्रिविधम् - औदयिकभावमूलम् उपदेष्ट मूलम् आदिमूलं चेति, तत्रौदयिकमावमूलंवनस्पतिकायमूलत्वमनुभवन्नामगोत्रकर्मोदयात्मूलजीवएव, उपदेष्ट भावमूलं त्वाचार्यउपदेष्टा यैः कर्मभिःप्राणिनोमूलत्वेनोत्पद्यन्ते,तेषामपिमोक्षसंसारयोर्वायदादिभावमूलं तस्य चोपदेष्टेत्येतदेव दर्शयति – "विणयकसाइओ आई तत्र मोक्षस्यादिमूलं ज्ञानदर्शनचारित्रतपऔपचारिकरूपः पञ्चधा विनयः, तन्मूलत्वान्मोक्षावाप्तेः, तथा चाह• ॥१॥ "विनया नाणंणनणाउदंसणंदसणाहि चरणंतु।
चरणाहितो मोक्खो मुक्खे सुक्खं अणाबाहं॥ ॥२॥ विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुत ज्ञानम्।
ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org