________________
श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक:
९७ तेषु स्थिताः कषाया विषयरूपतया, अध्यात्मनि च विषयिरूपतया प्रसन्नचन्द्रैकेन्द्रियादीनामिति गाथार्थः । तदेवं कषायस्थान-प्रदर्शनेन सूत्रपदोपात्तं स्थानं परिसमाप्य तेषामेव कषायाणां सूत्रमूलपदोपात्तानां जेतव्यत्वाधिकृतानां निक्षेपमाहनि. [१८१] नामंठवणादविए उप्पत्ती पच्चए य आएसो।
रसभावकसाए या तेण य कोहाइया चउरो॥ वृ.यथाभूतार्थनिरपेक्षमभिधानमात्रं नाम, सद्भावसद्भावरूपा प्रतिकृतिः, स्थापना, कृतभीमभ्रकुट्युत्कटललाट(पट)घटितत्रिशूलरक्तास्यनयनसन्दष्टाधरस्पन्दमानस्वेदसलिलचित्रपुस्ताद्यक्षवराटकादिगतेति, द्रव्यकषायाज्ञशरीरभव्यशरीराभ्यांव्यतिरिक्ताःकर्मद्रव्यकषाया नोकर्मेद्रव्यकषायाश्चेति, तत्रादित्सितात्तानुदीर्णोदीर्णाः पुद्गलद्रव्याप्राधान्यात्कर्मद्रव्य-कषायाः, नोकर्मेद्रव्यकषायास्तुबिभीतकादयः, उत्पत्तिकषायाः शरीरोपधिक्षेत्रवास्तुस्थाण्वादयोयदाश्रित्य तेषामुत्पत्तिः, तथा चोक्तम् - ॥१॥ किं एत्तो कट्टयरंजं मूढो थाणुअम्मि आवडिओ।
थाणुस्स तस्स रूसइन अप्पणो दुप्पओगस्स" प्रत्ययकषायाः कषायाणां ये प्रत्ययाः-यानि बन्धकारणानि, ते चेह मनोज्ञेतरभेदाः शब्दादयः, अत एवोत्पत्तिप्रत्ययोः कार्यकारणगतो भेदः, आदेशकषायाः कृतिमकृतभृकुटीभङ्गादयः, रसतोरसकषायः कटुतिक्तकषायपञ्चकान्तर्गतः,भावकषायाः शरीरोपधिक्षेत्रवास्तुस्वजनप्रेष्यार्चादिनिमित्ताविभूताः शब्दादिकामगुण- कारणकार्यभूतकषायकर्मोदयात्मपरिणामविशेषाः क्रोधमानमायालोभाः, ते चैकैकशोऽनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसञ्जवलनभेदेन भिद्यमानाः षोडशविधा भवन्ति, तेषां च स्वरूपानुबन्धफलानि गाथाभिरभिधीयन्ते, ताश्चेमाः॥५॥ "जलरेणुपुढविपव्वयराईसरिसो चउब्विहो कोहो ।
तिणिसलयाकट्ठट्ठियसेलत्थंभोवमो माणो॥ ॥२॥ मायावलेहिगोमुत्तिमेंढसिंगघणवंसमूलसमा ।
लोभो हलिद्दकद्दमखंजणकिमिरायसामाणो॥ ॥३॥ पक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो।
देवनरतिरियनारयगइसाहणहेयवो भणिया ।" एषांचनामाधष्टविधकषायनिक्षेपाणांकतमोनयःकमिच्छतीत्येतदभिधीयते-तत्रनैगमस्य सामान्यविशेषरूपत्वान्नैकगमत्वाच्च तदभिप्रायेण सर्वेऽपि साधवो नामादयः, सङ्गव्यवहारौ तु कषायसम्बन्धाभावादादेशसमुत्पत्तीनेच्छतः,ऋजुसूत्रस्तुवर्तमानार्थनिष्ठत्वादा-देशमुत्पत्तिस्थापना नेच्छति, शब्दस्तु नाम्नोऽपिकथञ्चिद्भावान्तर्भावान्नामभावाविच्छतीति गाथातात्पर्यार्थः।।तदेवं कषायाः कर्मकारणेत्वेनोक्ताः, तदपि संसारस्य, स च कतिविध इति दर्शयतिनि. [१८२] दव्वे खित्ते काले भवसंसारे अभावसंसारे।
पंचविहो संसारो जत्थेते संसरंति जिआ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org