________________
आचाराङ्ग सूत्रम् १/-/२/१/- [नि. १८२] वृ. द्रव्यसंसारो व्यतिरिक्तो द्रव्यसंसृतिरूपः, क्षेत्रसंसारो येषु क्षेत्रेषु द्रव्याणि संसरन्ति, कालसंसारः यस्मिन् काल इति, नारकतिर्यग्नरामरगतिचतुर्विधानपूर्व्यदयाद्भवान्तरसङक्मणं भवसंसारः, भावसंसारस्तु संसृतिस्वभाव औदयिकादिभावपरिणतिरूपः, तत्रच प्रकृतिस्थित्यनुभागप्रदेशबन्धानां प्रदेशविपाकानुभवनम् एवं द्रव्यादिकः पञ्चविधः संसारः, अथवा द्रव्यादिकश्चतुर्थासंसारः, तद्यथा-अश्वाद्धस्तिनंग्रामानगरंवसन्ताद्ग्रीष्मंऔदयिकादौप-शमिकमिति गाथार्थः॥ तस्मिंश्च संसारे कर्मवशगाः प्राणिनः संसरन्तीत्यतः कर्मनिदर्शनार्थमाह नि. [१८३] नामंठवणाकम्मं दव्वकम्मं पओगकम्मंच।
समुदानिरियावहियं आहाकम्मं तवोकम्मं ॥ नि. [१८४] किइकम्म भावकम्मंदसविह कम्म समासओ होइ।
अट्ठ विहेण उ कम्मेण एत्य होइ अहिगारो॥ वृ. नामकर्म कर्मार्थशून्यभिधानमात्रं, स्थापनाकर्म पुस्तपत्रादौ कर्मवर्गणानां सद्भावासद्भावरूपास्थापना, द्रव्यकर्मव्यतिरिक्तिद्विधा-द्रव्यकर्मनोद्रव्यकर्मच,तत्रद्रव्यकर्म कर्मवर्गणान्तःपातिनः पुद्गलाः बन्धयोग्या वध्यमाना बद्धाश्चानुदीर्णा इति, नोद्रव्यकर्म कृषीबलादिकर्म । अथ कर्मवर्गणान्तःपातिनः पुद्गला द्रव्यकर्मेत्यवाचि, काः पुनस्ता वर्गणा इति सङ्कीत्तर्यन्ते?, इह वर्गणाः सामान्येन चतुर्विधाः-द्रव्यक्षेत्रकालभावभेदात्, तत्र द्रव्यत एकद्वयादिसङ्खयेयासड्ख्येयानन्तप्रदेशिकाः क्षेत्रतोऽवगाढद्रव्यैकद्वयादिसङ्खयेयासङ्घयेयप्रदेशात्मिकाःकालत एकद्वयादिसङ्ख्येयासङ्खक्येयसमयस्थितिकाः भावतो रूपरसगन्धस्पर्शस्वगतभेदात्मिकाः सामान्यतः,
-विशेषतस्तूच्यन्ते-तत्र परमाणूनामेका वर्गणा, एवमेकैकपरमाणूपचयात् सङ्घयेयप्रदेशिकानां स्कन्धानां सङ्खयेयाः असङ्खयेयप्रदेशिकानामसङ्खयेयाः, एताश्चौदारिकादिपरिणामाग्रहणयोग्याः, अनन्तप्रदेशिकानामप्यनन्ता अग्रहणयोग्याः, ता उल्लङ्घय औदारिकग्रहणयोग्यास्त्वनन्तानन्तप्रदेशिकाः खल्वनन्ता एव भवन्ति, तत्रायोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते औदारिकशरीरग्रहणयोग्या जघन्या वर्गणा भवति, पुनरेकैकप्रदेशवृद्धया प्रवर्द्धमाना औदारिकयोग्योत्कृष्टवर्गणा यावदनन्ता भवन्ति, अथजघन्योत्कृष्टयोः को विशेषः?,जघन्यात् उत्कृष्टा विशेषाधिकाः, विशेषस्त्वस्या एवौदारिकजघन्यवर्गणाया अनन्तभागः, तस्य चानन्तपरमाणुमयत्वादेकैकोत्तरप्रदेशोपचये सत्यप्यौदारिकयोग्यवर्गणानां जघन्योत्कृष्टमध्यवर्तिनीनामानन्त्यं, ततऔदारिकयोग्योत्कृष्टवर्गणायांरूपप्रक्षेपेणायोग्यवर्गणाजघन्या भवन्ति, एता अप्येकैकप्रदेशवृद्धयोत्कृष्टान्ता अनन्ता भवन्ति,
जघन्योत्कृष्टवर्गणानां को विशेषः ?, जघन्याभ्योऽसङ्ख्येयगुणा उत्कृष्टाः, ताश्च बहुप्रदेशत्वादतिसूक्ष्मपरिणामत्वाच्चौदारिकस्यानन्त एवाग्रहणयोग्या भवन्ति, अल्प-प्रदेशत्वाबादरपरिणामत्वाच्च वैक्रियस्यापीति, अत्रच यथा यथाप्रदेशोपचयस्तथातथा विश्रसापरिणामवशाद्वर्गणानां सूक्ष्मतरत्वमवसेयम् । एतदेवोत्कृष्टोपरि रूपप्रक्षेपयोग्यायोग्यादिकं वैक्रियशरीरवर्गणानांजघन्योत्कृष्टविशेषलक्षणंचावसेयं, तथा वैक्रियाहारकान्तरल-वर्ल्सयोग्यवर्गणानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org