________________
९०
आचाराङ्ग सूत्रम् १/-/२/२/- [नि.१६८] तत्रास्खलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् - 'जे गुणे से मुलट्ठाणेजे मूलट्ठाणे से गुणे' इत्यादि।
अस्य च निक्षेपनियुक्त्यनुगमेन प्रतिपदं निक्षेपः क्रियते, तत्र गुणस्य पञ्चदशधानिक्षेपःनि. [१६९] दब्बे खित्ते काले फल पञ्जव गणण करण अब्भासे ।
गुणअगुणे अगुणगुणे भव सीलगुणे य भावगुणे ।। वृ.नामगुणःस्थापनागुणः द्रव्यगुणः क्षेत्रगुणः कालगुणः फलगुणः पर्यवगुणः गणनागुणः करणगुणः अभ्यासगुणः गुणागुणः अगुणगुणः भवगुणः शीलगुणः भावगुणश्चेति गाथासमा - सार्थः ॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चरिते निक्षेपनियुक्त्यनुगमेन तदवयवे निक्षिप्ते सत्युपोद्घातनिर्युक्तेरवसरः,साच उद्देसे'त्यादिना द्वारगाथाद्वयेनानुगन्तव्या। साम्प्रतंसूत्रस्पर्शिकनिर्युक्तेरवसरः, तत्रापि सुगमनामस्थापनाव्युदासेन द्रव्यादिकमाह - नि. [१७०] दव्वगुणो दव्वं चिय गुणाण जंतंमि संभवो होइ।
सच्चित्तेअच्चित्तेमीसंमिय होइ दव्वंभि ।। वृ.तत्र द्रव्यगुणो नाम द्रव्यमेव, किमति?, गुणानां यतो गुणिनि तादात्मयेन सम्भवात् (वः), ननुचद्रव्यगुणयोर्लक्षणविधानभेदाभेदः, तथाहि-द्रव्यलक्षणं गुणपर्यायवद्दव्यं, विधानमपिधमधिकिाशजीवपुद्गलादिकमिति, गुणलक्षणं-द्रव्याश्रयिणः सहवर्त्तिनो निर्गुणा गुणा इति, विधानमपि-ज्ञानेच्छाद्वेषरूपरसगन्धस्पर्शादयः स्वगतभेदभिन्ना इति, नैष दोषो, यतो द्रव्ये सचित्ताचित्तमिश्रभेदभिन्नेसगुणस्तादास्येनस्थितः, तत्राचित्तद्रव्यं द्विधा-अरूपिरूपिचतत्रारूपिद्रव्यं त्रिधा-धर्माधर्माकाशभेदभिन्नं, तच्च गतिस्थित्यवगाहदानलक्षणं, गुणोऽप्यस्यामूर्तत्वागुरुलघुपर्यायलक्षणः, तत्रामूर्त्तत्वंत्रयस्यापि स्वंरूपंनभेदेन व्यवस्थितम्, अगुरुलघुपर्यायोऽपि, तत्पर्यायत्वादेव, मृदो मृत्पिण्डस्थासकोशकुशूलपर्यायवत्, रूपिद्रव्यमपि स्कन्धतद्देशप्रदेशपरमाणुभेदं, तस्य च रूपादयो गुणाः अभेदेन व्यवस्थिताः, भेदेनानुपलब्धेः, संयोगविभागाभावात्, स्वात्मवत् । तथा सचित्तमप्युपयोगलक्षणलक्षितं जीवद्रव्यं, न च तस्माद्भिन्ना ज्ञानादयो गुणाः, तद्भेदे जीवस्याचेतनत्वप्रसङ्गात्, तत्सम्बन्धाद्भविष्यतीति चेत्, अनुपासितगुरोरिदंवचो, यतो न हि स्वतोऽसती शक्तिःकर्तुमन्येनपार्यते, न ह्यन्धःप्रदीपशतसम्बन्धेऽपि रूपावलोकनायालमिति । अनयैव दिशा मिश्रद्रव्येऽप्येकत्वसंयोजनास्वबुद्धयाकार्येतिगाथार्थः
तदेवं द्रव्यगुणयोरेकान्तेनैकत्वे प्रतिपादिते सत्याह शिष्यः-तत्किमिदानीमभेदोऽस्तु?, नैतदप्यस्ति, यतः सर्वथाऽभेदेऽभ्युपगम्यमाने सत्येकेनैवेन्द्रियेण गुणान्तरस्याप्युपलब्धेरपरेन्द्रियवैफल्यं स्यात् तथाहि - चूतफलरूपादौ चक्षुराधुपलभ्यमाने रूपाद्यात्मभूतावयविद्रव्याव्यतिरिक्तरसादेरप्युपलब्धिः स्याद् रूपादिस्वरूपवद्, एवं ह्यभेदः स्याद्-यदि रूपादौ समुपलभ्यमानेऽन्येऽपि समुपलभ्येरन, अन्यथा विरुद्धधर्माध्यासाभिधेरन् घटपटवदिति। तदेवं भेदाभेदोपपत्तिभिर्व्याकुलितमतिः शिष्यः पृच्छति-उभयथाऽपि दोषापत्तिदर्शनात्कथं गृह्णीमः?, आचार्य आह-अत एव भेदाभेदोऽस्तु, तत्राभेदपक्षे द्रव्यं गुणो भेदपक्षे तुभावो गुण इति, तथाहि-गुणगुणिनोः पर्यायपर्यायिणोः सामान्यविशेषयोरवयवावयविनोर्भेदाभेदव्यवस्थानेनैवात्मभावसद्भावात्, आह हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org