SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः- १, अध्ययनं-२, उद्देशक: 'विजयेन' पराजयेनेति गाथार्थः । तत्र लोकोऽष्टधा निक्षेपार्थं प्रागुपादेशि विजयश्च षोढा, तन्निक्षेपार्थमाह - नि. [१६७] लोगो भणिओ दव्वं खित्तं कालो अभावविजओ। भव लोगो भावविजओ पगयंजह वज्झई लोगो।। तत्रलोकश्चतुर्विशतिस्तवेविस्तरतोऽभिहितः, ननुच केयंवाचोयुक्तिः? 'लोकश्चतुर्विशतिस्तवेऽभिहित' इति, किमत्रानुपपन्नम्?, उच्यते, इह ह्यपूर्वकरणप्रकमाधिरूढक्षपकश्रेणिध्यानाग्निदग्धघातिकर्मेन्धनेनोत्पन्ननिरावरणज्ञानेन विपच्यमानतीर्थकरनामाविर्भूतचतुस्त्रिंशदतिशयोपेतेन श्रीवर्द्धमानस्वामिना हेयोपादेयार्थाविर्भावनाय सदेवमनुजायां परिषद्याचारार्थोबभाषे, गणधरैश्चमहामतिभिरचिन्त्यशक्त्युपेतैर्गौतमादिभिःप्रवचनार्थमशेषासुमदुपकारायसएवाचाराङ्गतयादहभे, आवश्यकान्तर्भूतश्चतुर्विशतिस्तवस्त्वारातीयकालभाविना भद्रबाहुस्वामिनाऽकारि, ततश्चायुक्तः पूर्वकालभाविन्याचाराङ्गेव्याख्यायमानेपश्चात्काल-भाविना चतुर्विशतिस्तवेनातिदेश इति कश्चित् सुकुमारमतिः, अत्राह-नैष दोषो, यतो भद्रबाहुस्वामिनाऽयमतिदेशोऽभ्यधायि, सचपूर्वमावश्यकनियुक्ति विधायपश्चादाचाराङ्गनियुक्ति चक्रे, तथा चोक्तम् - "आवस्सयस्स दसकालियस्स तह उत्तरज्झमायारे"त्ति सूक्तम् । विजयस्य तु निक्षेपं नामस्थापनेक्षुण्णत्वादनाध्त्य द्रव्यादिकमाह-'दव्व'मित्यादिना, द्रव्यविजयोव्यतिरिक्तोद्रव्येण द्रव्यात् द्रव्ये वा विजयः कटुतिक्तकषायादिना श्लेष्मादेनृपतिमल्लादेर्वा, क्षेत्रविजयः षट्खण्डभरतादेर्यस्मिन् वा क्षेत्रे विजयः प्ररूप्यते, कालविजय इति कालेन विजयो यथा षष्टिभिर्वर्षसहैर्भरतेन जितं भरतं, कालस्य प्राधान्यात्, भृतककर्मणि वा मासोऽनेन जित इति, यस्मिन् वा काले विजयो व्याख्यायत इति, भावविजय औदयिकादेर्भावस्य भावान्तरेण औपशमिकादिना विजयः। तदेवं लोकविजययोः स्वरूपमुपदर्य प्रकृतोपयोग्याह-'भवे'त्यादि, अत्र हि भवलोकग्रहणेन भावलोक एवाभिहितः,छन्दोभङ्गभीत्याहृस्व एवोपादायि, तथाचावाचि • "भावे कसायलोगो अहिगारो तस्स विजएणं'ति, तस्य औदयिकभावकषायलोकस्य औपशमिकादिभावलोकेन विजयो यत एतदत्र प्रकृतम्, इदमत्र हृदयम्-अष्टविधलोकषविधविजययोः प्राग्व्यावर्णितस्वरूपयोर्भावलोकभावविजयाभ्यामत्रोपयोग इति, यथा चाष्टप्रकारेण कर्मणा लोकः-प्राणिगणो बध्यते, बन्धस्योपलक्षणत्वाद्यथा च मुच्यत इत्येतदप्यत्राध्ययने प्रकृतिमिति गाथार्थः। तेनैव भावलोकविजयेन किं फलमित्याह - नि. [१६९] विजिओ कसायलोगो सेयं खु तओ नियत्तिउं होइ। कामनियत्तमई खलु संसारा मुच्चई खिप्पं ॥ वृ.विजितः' पराजितः, कोऽसौ?-कषायलोकः औदयिकभावकषायलोक इतियावत्, विजितकषायलोकः सन् किमवाप्नोतीत्याह-संसारान्मुच्यते क्षिप्रम्, अतस्तस्मानिवर्तितुंश्रेयः, खुर्वाक्यालङ्कारे अवधारणेवा, निवर्तितुं श्रेय एव, किं कषायलोकादेव निवृत्तः संसारान्मुच्यते आहोश्विदन्यस्मादपि पापोपादानहेतोरिति दर्शयति - 'कामे'त्यादि गाथार्द्ध सुगमम् । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवति, www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy